[आर्ज] किंनिमित्तम अभूद वैरं विश्वामित्र वसिष्ठयॊः वसतॊर आश्रमे पुण्ये शंस नः सर्वम एव तत ॥ 1 ॥
[ग] इदं वासिष्ठम आख्यानं पुराणं परिचक्षते पार्थ सर्वेषु लॊकेषु यथावत तन निबॊध मे ॥ 2 ॥
कन्यकुब्जे महान आसीत पार्थिवॊ भरतर्षभ गाधीति विश्रुतॊ लॊके सत्यधर्मपरायणः ॥ 3 ॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः विश्वामित्र इति खयातॊ बभूव रिपुमर्दनः ॥ 4 ॥
स चचार सहामात्यॊ मृगयां गहने वने मृगान विध्यन वराहांश च रम्येषु मरु धन्वसु ॥ 5 ॥
वयायामकर्शितः सॊ ऽथ मृगलिप्सुः पिपासितः आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं परति ॥ 6 ॥
तम आगतम अभिप्रेक्ष्य वसिष्ठः शरेष्ठभाग ऋषिः विश्वामित्रं नरश्रेष्ठं परतिजग्राह पूजया ॥ 7 ॥
पाद्यार्घ्याचमनीयेन सवागतेन च भारत तथैव परतिजग्राह वन्येन हविषा तथा ॥ 8 ॥
तस्याथ कामधुग धेनुर वसिष्ठस्य महात्मनः उक्ता कामान परयच्छेति सा कामान दुदुहे ततः ॥ 9 ॥
गराम्यारण्या ओषधीश च दुदुहे पय एव च षड्रसं चामृतरसं रसायनम अनुत्तमम ॥ 10 ॥
भॊजनीयानि पेयानि भक्ष्याणि विविधानि च लेह्यान्य अमृतकल्पानि चॊष्याणि च तथार्जुन ॥ 11 ॥
तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः सामात्यः सबलश चैव तुतॊष स भृशं नृपः ॥ 12 ॥
षड आयतां सुपार्श्वॊरुं तरिपृथुं पञ्च संवृताम मण्डूकनेत्रां सवाकारां पीनॊधसम अनिन्दिताम ॥ 13 ॥
सुवालधिः शङ्कुकर्णां चारु शृङ्गां मनॊरमाम पुष्टायत शिरॊग्रीवां विस्मितः सॊ ऽभिवीक्ष्य ताम ॥ 14 ॥
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम अब्रवीच च भृशं तुष्टॊ विश्वामित्रॊ मुनिं तदा ॥ 15 ॥
अर्बुदेन गवां बरह्मन मम राज्येन वा पुनः नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥ 16 ॥
[वस] देवतातिथिपित्रर्थम आज्यार्थं च पयस्विनी अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥ 17 ॥
[विष्वामित्र] कषत्रियॊ ऽहं भवान विप्रस तपःस्वाध्यायसाधनः बराह्मणेषु कुतॊ वीर्यं परशान्तेषु धृतात्मसु ॥ 18 ॥
अर्बुदेन गवां यस तवं न ददासि ममेप्सिताम सवधर्मं न परहास्यामि नयिष्ये ते बलेन गाम ॥ 19 ॥
[वस] बलस्थश चासि राजा च बाहुवीर्यश च कषत्रियः यथेच्छसि तथा कषिप्रं कुरु तवं मा विचारय ॥ 20 ॥
[ग] एवम उक्तस तदा पार्थ विश्वामित्रॊ बलाद इव हंसचन्द्र परतीकाशां नन्दिनीं तां जहार गाम ॥ 21 ॥
कशा दण्डप्रतिहता काल्यमाना ततस ततः हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥ 22 ॥
आगम्याभिमुखी पार्थ तस्थौ भगवद उन्मुखी भृशं च ताड्यमानापि न जगामाश्रमात ततः ॥ 23 ॥
[वस] शृणॊमि ते रवं भद्रे विनदन्त्याः पुनः पुनः बलाद धृयसि मे नन्दिक्षमावान बराह्मणॊ हय अहम ॥ 24 ॥
[ग] सा तु तेषां बलान नन्दी बलानां भरतर्षभ विश्वामित्र भयॊद्विग्ना वसिष्ठं समुपागमत ॥ 25 ॥
[गौह] पाषाण दण्डाभिहतां करन्दन्तीं माम अनाथवत विश्वामित्रबलैर घॊरैर भगवन किम उपेक्षसे ॥ 26 ॥
[ग] एवं तस्यां तदा पर्थ धर्षितायां महामुनिः न चुक्षुभे न धैर्याच च विचचाल धृतव्रतः ॥ 27 ॥
[वस] कषत्रियाणां बलं तेजॊ बराह्मणानां कषमा बलम कषमा मां भजते तस्माद गम्यतां यदि रॊचते ॥ 28 ॥
[गौह] किं नु तयक्तास्मि भगवन यद एवं मां परभाषसे अत्यक्ताहं तवया बरह्मन न शक्या नयितुं बलात ॥ 29 ॥
[वस] न तवां तयजामि कल्याणि सथीयतां यदि शक्यते दृढेन दाम्ना बद्ध्वैव वत्सस ते हरियते बलात ॥ 30 ॥
[ग] सथीयताम इति तच छरुत्वा वसिष्ठस्या पयस्विनी ऊर्ध्वाञ्चित शिरॊग्रीवा परबभौ घॊरदर्शना ॥ 31 ॥
करॊधरक्तेक्षणा सा गौर हम्भार वधन सवना विश्वामित्रस्य तत सैन्यं वयद्रावयत सर्वशः ॥ 32 ॥
कशाग्र दण्डाभिहता काल्यमाना ततस ततः करॊधा दीप्तेक्षणा करॊधं भूय एव समादधे ॥ 33 ॥
आदित्य इव मध्याह्ने करॊधा दीप्तवपुर बभौ अङ्गारवर्षं मुञ्चन्ती मुहुर वालधितॊ महत ॥ 34 ॥
असृजत पह्लवान पुच्छाच छकृतः शबराञ शकान मूत्रतश चासृजच्च चापि यवनान करॊधमूर्च्छिता ॥ 35 ॥
पुण्ड्रान किरातान दरमिडान सिंहलान बर्बरांस तथा तथैव दारदान मलेच्छान फेनतः सा ससर्ज ह ॥ 36 ॥
तैर विषृष्टैर महत सैन्यं नाना मलेच्छ गणैस तदा नानावरण संछन्नैर नानायुध धरैस तथा अवाकीर्यत संरब्धैर विश्वामित्रस्य पश्यतः ॥ 37 ॥
एकैकश च तदा यॊधः पञ्चभिः सप्तभिर वृतः अस्त्रवर्षेण महता काल्यमानं बलं ततः परभग्नं सर्वतस तरस्तं विश्वामित्रस्य पश्यतः ॥ 38 ॥
न च पराणैर वियुज्यन्ते के चित ते सैनिकास तदा विश्वामित्रस्य संक्रुद्धैर वासिष्ठैर भरतर्षभ ॥ 39 ॥
विश्वामित्रस्य सैन्यं तु काल्यमानं तरियॊजनम करॊशमानं भयॊद्विग्नं तरातारं नाध्यगच्छत ॥ 40 ॥
दृष्ट्वा तन महद आश्चर्यं बरह्मतेजॊ भवं तदा विश्वामित्रः कषत्रभावान निर्विण्णॊ वाक्यम अब्रवीत ॥ 41 ॥
धिग बलं कषत्रियबलं बरह्मतेजॊबलं बलम बलाबलं विनिश्चित्य तप एव परं बलम ॥ 42 ॥
स राज्यस्फीतम उत्सृज्य तां च दीप्तां नृप शरियम भॊगांश च पृष्ठतः कृत्वा तपस्य एव मनॊ दधे ॥ 43 ॥
स गत्वा तपसा सिद्धिं लॊकान विष्टभ्य तेजसा तताप सर्वान दीप्तौजा बराह्मणत्वम अवाप च अपिवच च सुतं सॊमम इन्द्रेण सह कौशिकः ॥ 44 ॥
आदिपर्व · Adi Parva
अध्याय 165
Reach this point to mark the section finished.
Continue to अध्याय 166