धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 164

  1. [वै] स गन्धर्ववचः शरुत्वा तत तदा भरतर्षभ अर्जुनः परया परीत्या पूर्णचन्द्र इवाबभौ ॥ 1 ॥

  2. उवाच च महेष्वासॊ गन्धर्वं कुरुसत्तमः जातकौतूहलॊ ऽतीव वसिष्ठस्य तपॊबलात ॥ 2 ॥

  3. वसिष्ठ इति यस्यैतद ऋषेर नाम तवयेरितम एतद इच्छाम्य अहं शरॊतुं यथावत तद वदस्व मे ॥ 3 ॥

  4. य एष गन्धर्वपते पूर्वेषां नः पुरॊहितः आसीद एतन ममाचक्ष्व क एष भगवान ऋषिः ॥ 4 ॥

  5. [ग] तपसा निर्जितौ शश्वद अजेयाव अमरैर अपि कामक्रॊधाव उभौ यस्य चरणौ संववाहतुः ॥ 5 ॥

  6. यस तु नॊच्छेदनं चक्रे कुशिकानाम उदारधीः विश्वामित्रापराधेन धारयन मन्युम उत्तमम ॥ 6 ॥

  7. पुत्रव्यसनसंतप्तः शक्तिमान अपि यः परभुः विश्वामित्र विनाशाय न मेने कर्म दारुणम ॥ 7 ॥

  8. मृतांश च पुनर आहर्तुं यः सपुत्रान यमक्षयात कृतान्तं नातिचक्राम वेलाम इव महॊदधिः ॥ 8 ॥

  9. यं पराप्य विजितात्मानं महात्मानं नराधिपाः इक्ष्वाकवॊ महीपाला लेभिरे पृथिवीम इमाम ॥ 9 ॥

  10. पुरॊहित वरं पराप्य वसिष्ठम ऋषिसत्तमम ईजिरे करतुभिश चापि नृपास ते कुरुनन्दन ॥ 10 ॥

  11. स हि तान्य आजयाम आस सर्वान नृपतिसत्तमान बरह्मर्षिः पाण्डव शरेष्ठ बृहस्पतिर इवामरान ॥ 11 ॥

  12. तस्माद धर्मप्रधानात्मा वेद धर्मविद ईप्सितः बराह्मणॊ गुणवान कश चित पुरॊधाः परविमृश्यताम ॥ 12 ॥

  13. कषत्रियेण हि जातेन पृथिवीं जेतुम इच्छता पूर्वं पुरॊहितः कार्यः पार्थ राज्याभिवृद्धये ॥ 13 ॥

  14. महीं जिगीषता राज्ञा बरह्म कार्यं पुरःसरम तस्मात पुरॊहितः कश चिद गुणवान अस्तु वॊ दविजः ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 165

Previous: अध्याय 163