धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 163

  1. [वसिस्ठ] यैषां ते तपती नाम सावित्र्य अवरजा सुता तां तवां संवरणस्यार्थे वरयामि विभावसॊ ॥ 1 ॥

  2. स हि राजा बृहत कीर्तिर धर्मार्थविद उदारधीः युक्तः संवरणॊ भर्ता दुहितुस ते विहंगम ॥ 2 ॥

  3. [गन्धर्व] इत्य उक्तः सविता तेन ददानीत्य एव निश्चितः परत्यभाषत तं विप्रं परतिनन्द्य दिवाकरः ॥ 3 ॥

  4. वरः संवरणॊ राज्ञां तवम ऋषीणां वरॊ मुने तपती यॊषितां शरेष्ठा किम अन्यत्रापवर्जनात ॥ 4 ॥

  5. ततः सर्वानवद्याग्नीं तपतीं तपनः सवयम ददौ संवरणस्यार्थे वषिष्ठाय महात्मने परतिजग्राह तां कन्यां महर्षिस तपतीं तदा ॥ 5 ॥

  6. वसिष्ठॊ ऽथ विसृष्टश च पुनर एवाजगाम ह यत्र विख्यत कीर्तिः स कुरूणाम ऋषभॊ ऽभवत ॥ 6 ॥

  7. स राजा मन्मथाविष्टस तद्गतेनान्तरात्मना दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम वसिष्ठेन सहायान्तीं संहृष्टॊ ऽभयधिकं बभौ ॥ 7 ॥

  8. कृच्छ्रे दवादश रात्रे तु तस्य राज्ञः समापिते आजगाम विशुद्धात्मा वसिष्ठॊ भगवान ऋषिः ॥ 8 ॥

  9. तपसाराध्य वरदं देवं गॊपतिम ईश्वरम लेभे संवरणॊ भार्यां वसिष्ठस्यैव तेजसा ॥ 9 ॥

  10. ततस तस्मिन गिरिश्रेष्ठे देवगन्धर्वसेविते जग्राह विधिवत पाणिं तपत्याः स नरर्षभः ॥ 10 ॥

  11. वसिष्ठेनाभ्यनुज्ञातस तस्मिन्न एव धराधरे सॊ ऽकामयत राजर्षिर विहर्तुं सह भार्यया ॥ 11 ॥

  12. ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च आदिदेश महीपालस तम एव सचिवं तदा ॥ 12 ॥

  13. नृपतिं तव अभ्यनुज्ञाय वसिष्ठॊ ऽथापचक्रमे सॊ ऽपि राजा गिरौ तस्मिन विजहारामरॊपमः ॥ 13 ॥

  14. ततॊ दवादश वर्षाणि काननेषु जलेषु च रेमे तस्मिन गिरौ राजा तयैव सह भार्यया ॥ 14 ॥

  15. तस्य राज्ञः पुरे तस्मिन समा दवादश सर्वशः न ववर्ष सहस्राक्षॊ राष्ट्रे चैवास्य सर्वशः ॥ 15 ॥

  16. तत कषुधार्तैर निरानन्दैः शवभूतैस तदा नरैः अभवत परेतराजस्य पुरं परेतैर इवावृतम ॥ 16 ॥

  17. ततस तत तादृशं दृष्ट्वा स एव भगवान ऋषिः अभ्यपद्यत धर्मात्मा वसिष्ठॊ राजसत्तमम ॥ 17 ॥

  18. तं च पार्थिवशार्दूलम आनयाम आस तत पुरम तपत्या सहितं राजन्न उषितं दवादशीः समाः ॥ 18 ॥

  19. ततः परवृष्टस तत्रासीद यथापूर्वं सुरारिहा तस्मिन नृपतिशार्दूल परविष्टे नगरं पुनः ॥ 19 ॥

  20. ततः सराष्ट्रं मुमुदे तत पुरं परया मुदा तेन पार्थिव मुख्येन भावितं भावितात्मना ॥ 20 ॥

  21. ततॊ दवादश वर्षाणि पुनर ईजे नराधिपः पत्न्या तपत्या सहितॊ यथा शक्रॊ मरुत्पतिः ॥ 21 ॥

  22. एवम आसीन महाभागा तपती नाम पौर्विकी तव वैवस्वती पार्थ तापत्यस तवं यया मतः ॥ 22 ॥

  23. तस्यां संजनयाम आस कुरुं संवरणॊ नृपः तपत्यां तपतां शरेष्ठ तापत्यस तवं ततॊ ऽरजुन ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 164

Previous: अध्याय 162