[ग] एवम उक्त्वा ततस तूर्णं जगामॊर्ध्वम अनिन्दिता स तु राजा पुनर भूमौ तत्रैव निपपात ह ॥ 1 ॥
अमात्यः सानुयात्रस तु तं ददर्श महावने कषितौ निपतितं काले शक्रध्वजम इवॊच्छ्रितम ॥ 2 ॥
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं कषितौ बभूव सॊ ऽसय सचिवः संप्रदीप्त इवाग्निना ॥ 3 ॥
तवरया चॊपसंगम्य सनेहाद आगतसंभ्रमः तं समुत्थापयाम आस नृपतिं काममॊहितम ॥ 4 ॥
भूतलाद भूमिपालेशं पितेव पतितं सुतम परज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥ 5 ॥
अमात्यस तं समुत्थाप्य बभूव विगतज्वरः उवाच चैनं कल्याण्या वाचा मधुरयॊत्थितम मा भैर मनुजशार्दूल भद्रं चास्तु तवानघ ॥ 6 ॥
कषुत्पिपासापरिश्रान्तं तर्कयाम आस तं नृपम पतितं पातनं संख्ये शात्रवाणां महीतले ॥ 7 ॥
वारिणाथ सुशीतेन शिरस तस्याभ्यषेचयत अस्पृशन मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥ 8 ॥
ततः परत्यागतप्राणस तद बलं बलवान नृपः सर्वं विसर्जयाम आस तम एकं सचिवं विना ॥ 9 ॥
ततस तस्याज्ञया राज्ञॊ विप्रतस्थे महद बलम स तु राजा गिरिप्रस्थे तस्मिन पुनर उपाविशत ॥ 10 ॥
ततस तस्मिन गिरिवरे शुचिर भूत्वा कृताञ्जलिः आरिराधयिषुः सूर्यं तस्थाव ऊर्ध्वभुजः कषितौ ॥ 11 ॥
जगाम मनसा चैव वसिष्ठम ऋषिसत्तमम पुरॊहितम अमित्रघ्नस तदा संवरणॊ नृपः ॥ 12 ॥
नक्तं दिनम अथैकस्थे सथिते तस्मिञ जनाधिपे अथाजगाम विप्रर्षिस तदा दवादशमे ऽहनि ॥ 13 ॥
स विदित्वैव नृपतिं तपत्या हृतमानसम दिव्येन विधिना जञात्वा भावितात्मा महान ऋषिः ॥ 14 ॥
तथा तु नियतात्मानं स तं नृपतिसत्तमम आबभाषे स धर्मात्मा तस्यैवार्थ चिकीर्षया ॥ 15 ॥
स तस्य मनुजेन्द्रस्य पश्यतॊ भगवान ऋषिः ऊर्ध्वम आचक्रमे दरष्टुं भास्करं भास्करद्युतिः ॥ 16 ॥
सहस्रांशुं ततॊ विप्रः कृताञ्जलिर उपस्थितः वसिष्ठॊ ऽहम इति परीत्या स चात्मानं नयवेदयत ॥ 17 ॥
तम उवाच महातेजा विवस्वान मुनिसत्तमम महर्षे सवागतं ते ऽसतु कथयस्व यथेच्छसि ॥ 18 ॥
आदिपर्व · Adi Parva
अध्याय 162
Reach this point to mark the section finished.
Continue to अध्याय 163