[ग] अथ तस्याम अदृश्यायां नृपतिः काममॊहितः पातनं शत्रुसंघानां पपात धरणीतले ॥ 1 ॥
तस्मिन निपतिते भूमाव अथ सा चारुहासिनी पुनः पीनायतश्रॊणी दर्शयाम आस तं नृपम ॥ 2 ॥
अथावभाषे कल्याणी वाचा मधुरया नृपम तं कुरूणां कुलकरं कामाभिहत चेतसम ॥ 3 ॥
उत्तिष्ठॊत्तिष्ठ भद्रं ते न तवम अर्हस्य अरिंदम मॊहं नृपतिशार्दूल गन्तुम आविष्कृतः कषितौ ॥ 4 ॥
एवम उक्तॊ ऽथ नृपतिर वाचा मधुरया तदा ददर्श विपुलश्रॊणीं ताम एवाभिमुखे सथिताम ॥ 5 ॥
अथ ताम असितापाङ्गीम आबभाषे नराधिपः मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥ 6 ॥
साधु माम असितापाङ्गे कामार्तं मत्तकाशिनि भजस्व भजमानं मां पराणा हि परजहन्ति माम ॥ 7 ॥
तवदर्थं हि विशालाक्षि माम अयं निशितैः शरैः कामः कमलगर्भाभे परतिविध्यन न शाम्यति ॥ 8 ॥
गरस्तम एवम अनाक्रन्दे भद्रे काममहाहिना सा तवं पीनायतश्रॊणिपर्याप्नुहि शुभानने ॥ 9 ॥
तवय्य अधीना हि मे पराणा किंनरॊद्गीत भाषिणि चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने ॥ 10 ॥
न हय अहं तवदृते भीरु शक्ष्ये जीवितुम आत्मना तस्मात कुरु विशालाक्षि मय्य अनुक्रॊशम अङ्गने ॥ 11 ॥
भक्तं माम असितापाङ्गे न परित्यक्तुम अर्हसि तवं हि मां परीतियॊगेन तरातुम अर्हसि भामिनि ॥ 12 ॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते ॥ 13 ॥
[तपती] नाहम ईशात्मनॊ राजन कन्यापितृमती हय अहम मयि चेद अस्ति ते परीतिर याचस्व पितरं मम ॥ 14 ॥
यथा हि ते मया पराणाः संगृहीता नरेश्वर दर्शनाद एव भूयस तवं तथा पराणान ममाहरः ॥ 15 ॥
न चाहम ईशा देहस्य तस्मान नृपतिसत्तम समीपं नॊपगच्छामि न सवतन्त्रा हि यॊषितः ॥ 16 ॥
का हि सर्वेषु लॊकेषु विश्रुताभिजनं नृपम कन्या नाभिलषेन नाथं भर्तारं भक्त वत्सलम ॥ 17 ॥
तस्माद एवंगते काले याचस्व पितरं मम आदित्यं परणिपातेन तपसा नियमेन च ॥ 18 ॥
स चेत कामयते दातुं तव माम अरिमर्दन भविष्याम्य अथ ते राजन सततं वशवर्तिनी ॥ 19 ॥
अहं हि तपती नाम सावित्र्य अवरजा सुता अस्य लॊकप्रदीपस्य सवितुः कषत्रियर्षभ ॥ 20 ॥
आदिपर्व · Adi Parva
अध्याय 161
Reach this point to mark the section finished.
Continue to अध्याय 162