[आर्ह] तापत्य इति यद वाक्यम उक्तवान असि माम इह तद अहं जञातुम इच्छामि तापत्यार्थ विनिश्चयम ॥ 1 ॥
तपती नाम का चैषा तापत्या यत्कृते वयम कौन्तेया हि वयं साधॊ तत्त्वम इच्छामि वेदितुम ॥ 2 ॥
[वै] एवम उक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम विश्रुतां तरिषु लॊकेषु शरावयाम आस वै कथाम ॥ 3 ॥
[ग] हन्त ते कथयिष्यामि कथाम एतां मनॊरमाम यथावद अखिलां पार्थ धर्म्यां धर्मभृतां वर ॥ 4 ॥
उक्तवान अस्मि येन तवां तापत्य इति यद वचः तत ते ऽहं कथ्ययिष्यामि शृणुष्वैक मना मम ॥ 5 ॥
य एष दिवि धिष्ण्येन नाकं वयाप्नॊति तेजसा एतस्य तपती नाम बभूवासदृशी सुता ॥ 6 ॥
विवस्वतॊ वै कौन्तेय सावित्र्य अवरजा विभॊ विश्रुता तरिषु लॊकेषु तपती तपसा युता ॥ 7 ॥
न देवी नासुरी चैव न यक्षी न च राक्षसी नाप्सरा न च गन्धर्वी तथारूपेण का चन ॥ 8 ॥
सुविभक्तानवद्याङ्गी सवसितायत लॊचना सवाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥ 9 ॥
न तस्याः सदृशं कं चित तरिषु लॊकेषु भारत भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥ 10 ॥
संप्राप्तयौवनां पश्यन देयां दुहितरं तु ताम नॊपलेभे ततः शान्तिं संप्रदानं विचिन्तयन ॥ 11 ॥
अर्थर्क्ष पुत्रः कौन्तेय कुरूणाम ऋषभॊ बली सूर्यम आराधयाम आस नृपः संवरणः सदा ॥ 12 ॥
अर्घ्य माल्यॊपहारैश च शश्वच च नृपतिर यतः नियमैर उपवासैश च तपॊभिर विविधैर अपि ॥ 13 ॥
शुश्रूषुर अनहंवादी शुचिः पौरवनन्दनाः अंशुमन्तं समुद्यन्तं पूजयाम आस भक्तिमान ॥ 14 ॥
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि तपत्याः सदृशं मेने सूर्यः संवरणं पतिम ॥ 15 ॥
दातुम ऐच्छत ततः कन्यां तस्मै संवरणाय ताम नृपॊत्तमाय कौरव्य विश्रुताभिजनाय वै ॥ 16 ॥
यथा हि दिवि दीप्तांशुः परभासयति तेजसा तथा भुवि महीपालॊ दीप्त्या संवरणॊ ऽभवत ॥ 17 ॥
यथार्जयन्ति चादित्यम उद्यन्तं बरह्मवादिनः तथा संवरणं पार्थ बराह्मणावरजाः परजाः ॥ 18 ॥
स सॊमम अति कान्तत्वाद आदित्यम अति तेजसा बभूव नृपतिः शरीमान सुहृदां दुर्हृदाम अपि ॥ 19 ॥
एवंगुणस्य नृपतेस तथा वृत्तस्य कौरव तस्मै दातुं मनश चक्रे तपतीं तपनः सवयम ॥ 20 ॥
स कदा चिद अथॊ राजा शरीमान उरु यशा भुवि चचार मृगयां पार्थ पर्वतॊपवने किल ॥ 21 ॥
चरतॊ मृगयां तस्य कषुत्पिपासा शरमान्वितः ममार राज्ञः कौन्तेय गिराव अप्रतिमॊ हयः ॥ 22 ॥
स मृताश्वश चरन पार्थ पद्भ्याम एव गिरौ नृपः ददर्शासदृशीं लॊके कन्याम आयतलॊचनाम ॥ 23 ॥
स एक एकाम आसाद्य कन्यां ताम अरिमर्दनः तस्थौ नृपतिशार्दूलः पश्यन्न अविचलेक्षणः ॥ 24 ॥
स हि तां तर्कयाम आस रूपतॊ नृपतिः शरियम पुनः संतर्कयाम आस रवेर भरष्टाम इव परभाम ॥ 25 ॥
गिरिप्रस्थे तु सा यस्मिन सथिता सवसित लॊचना स सवृक्षक्षुप लतॊ हिरण्मय इवाभवत ॥ 26 ॥
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः अवाप्तं चात्मनॊ मेने स राजा चक्षुषः फलम ॥ 27 ॥
जन्मप्रभृति यत किं चिद दृष्टवान स महीपतिः रूपं न सदृशं तस्यास तर्कयाम आस किं चन ॥ 28 ॥
तया बद्धमनश चक्षुः पाशैर गुणमयैस तदा न चचाल ततॊ देशाद बुबुधे न च किं चन ॥ 29 ॥
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम लॊकं निर्मथ्य धात्रेदं रूपम आविष्कृतं कृतम ॥ 30 ॥
एवं स तर्कयाम आस रूपद्रविण संपदा कन्याम असदृशीं लॊके नृपः संवरणस तदा ॥ 31 ॥
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनॊ नृपः जगाम मनसा चिन्तां काममार्गण पीडितः ॥ 32 ॥
दह्यमानः स तीव्रेण नृपतिर मन्मथाग्निना अप्रगल्भां परगल्भः स ताम उवाच यशस्विनीम ॥ 33 ॥
कासि कस्यासि रम्भॊरु किमर्थं चेह तिष्ठसि कथं च निर्जने ऽरण्ये चरस्य एका शुचिस्मिते ॥ 34 ॥
तवं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता विभूषणम इवैतेषां भूषणानाम अभीप्सितम ॥ 35 ॥
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम न च भॊगवतीं मन्ये न गन्धर्वी न मानुषीम ॥ 36 ॥
या हि दृष्टा मया काश चिच छरुता वापि वराङ्गनाः न तासां सदृशीं मन्ये तवाम अहं मत्तकाशिनि ॥ 37 ॥
एवं तां स महीपालॊ बभाषे न तु सा तदा कामार्तं निर्जने ऽरण्ये परत्यभाषत किं चन ॥ 38 ॥
ततॊ लालप्यमानस्य पार्थिवस्यायतेक्षणा सौदामनीव साभ्रेषु तत्रैवान्तरधीयत ॥ 39 ॥
ताम अन्विच्छन स नृपतिः परिचक्राम तत तदा वनं वनज पत्राक्षीं भरमन्न उन्मत्तवत तदा ॥ 40 ॥
अपश्यमानः स तु तां बहु तत्र विलप्य च निश्चेष्टः कौरवश्रेष्ठॊ मुहूर्तं स वयतिष्ठत ॥ 41 ॥
आदिपर्व · Adi Parva
अध्याय 160
Reach this point to mark the section finished.
Continue to अध्याय 161