[आर्ज] कारणं बरूहि गन्धर्व किं तद येन सम धर्षिताः यान्तॊ बरह्मविदः सन्तः सर्वे रात्राव अरिंदम ॥ 1 ॥
[ग] अनग्नयॊ ऽनाहुतयॊ न च विप्र पुरस्कृताः यूयं ततॊ धर्षिताः सथ मया पाण्डवनन्दन ॥ 2 ॥
यक्षराक्षस गन्धर्वाः पिशाचॊरगमानवाः विस्तरं कुरुवंशस्य शरीमतः कथयन्ति ते ॥ 3 ॥
नारदप्रभृतीनां च देवर्षीणां मया शरुतम गुणान कथयतां वीर पूर्वेषां तव धीमताम ॥ 4 ॥
सवयं चापि मया दृष्टश चरता सागराम्बराम इमां वसुमतीं कृत्स्नां परभावः सवकुलस्य ते ॥ 5 ॥
वेदे धनुषि चाचार्यम अभिजानामि ते ऽरजुन विश्रुतं तरिषु लॊकेषु भारद्वाजं यशस्विनम ॥ 6 ॥
धर्मं वायुं च शक्रं च विजानाम्य अश्विनौ तथा पाण्डुं च कुरुशार्दूल षड एतान कुलवर्धनान पितॄन एतान अहं पार्थ देव मानुषसात्तमान ॥ 7 ॥
दिव्यात्मानॊ महात्मानः सर्वशस्त्रभृतां वराः भवन्तॊ भरातरः शूराः सर्वे सुचरितव्रताः ॥ 8 ॥
उत्तमां तु मनॊ बुद्धिं भवतां भावितात्मनाम जानन्न अपि च वः पार्थ कृतवान इह धर्षणाम ॥ 9 ॥
सत्री सकाशे च कौरव्य न पुमान कषन्तुम अर्हति धर्षणाम आत्मनः पश्यन बाहुद्रविणम आश्रितः ॥ 10 ॥
नक्तं च बलम अस्माकं भूय एवाभिवर्धते यतस ततॊ मां कौन्तेय सदारं मन्युर आविशत ॥ 11 ॥
सॊ ऽहं तवयेह विजितः संख्ये तापत्यवर्धन येन तेनेह विधिना कीर्त्यमानं निबॊध मे ॥ 12 ॥
बरह्मचर्यं परॊ धर्मः स चापि नियतस तवयि यस्मात तस्माद अहं पार्थ रणे ऽसमिन विजितस तवया ॥ 13 ॥
यस तु सयात कषत्रियः कश चित कामवृत्तः परंतप नक्तं च युधि युध्येत न स जीवेत कथं चन ॥ 14 ॥
यस तु सयात कामवृत्तॊ ऽपि राजा तापत्य संगरे जयेन नक्तंचरान सर्वान स पुरॊहित धूर गतः ॥ 15 ॥
तस्मात तापत्य यत किं चिन नृणां शरेय इहेप्सितम तस्मिन कर्मणि यॊक्तव्या दान्तात्मानः पुरॊहिताः ॥ 16 ॥
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः धर्मात्मानः कृतात्मानः सयुर नृपाणां पुरॊहिताः ॥ 17 ॥
जयश च नियतॊ राज्ञः सवर्गश च सयाद अनन्तरम यस्य सयाद धर्मविद वाग्मी पुरॊधाः शीलवाञ शुचिः ॥ 18 ॥
लाभं लब्धुम अलब्धं हि लब्धं च परिरक्षितुम पुरॊहितं परकुर्वीत राजा गुणसमन्वितम ॥ 19 ॥
पुरॊहित मते तिष्ठेद य इच्छेत पृथिवीं नृपः पराप्तुं मेरुवरॊत्तंसां सर्वशः सागराम्बराम ॥ 20 ॥
न हि केवलशौर्येण तापत्याभिजनेन च जयेद अब्राह्मणः कश चिद भूमिं भूमिपतिः कव चित ॥ 21 ॥
तस्माद एवं विजानीहि कुरूणां वंशवर्धन बराह्मण परमुखं राज्यं शक्यं पालयितुं चिरम ॥ 22 ॥
आदिपर्व · Adi Parva
अध्याय 159
Reach this point to mark the section finished.
Continue to अध्याय 160