धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 15

  1. [स] एतस्मिन्न एव काले तु भगिन्यौ ते तपॊधन अपश्यतां समायान्तम उच्चैःश्रवसम अन्तिकात ॥ 1 ॥

  2. यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन मथ्यमाने ऽमृते जातम अश्वरत्नम अनुत्तमम ॥ 2 ॥

  3. महौघबलम अश्वानाम उत्तमं जवतां वरम शरीमन्तम अजरं दिव्यं सर्वलक्षणलक्षितम ॥ 3 ॥

  4. [ष] कथं तद अमृतं देवैर मथितं कव च शंस मे यत्र जज्ञे महावीर्यः सॊ ऽशवराजॊ महाद्युतिः ॥ 4 ॥

  5. [स] जवलन्तम अचलं मेरुं तेजॊराशिम अनुत्तमम आक्षिपन्तं परभां भानॊः सवशृङ्गैः काञ्चनॊज्ज्वलैः ॥ 5 ॥

  6. काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम अप्रमेयम अनाधृष्यम अधर्मबहुलैर जनैः ॥ 6 ॥

  7. वयालैर आचरितं घॊरैर दिव्यौषधिविदीपितम नाकम आवृत्य तिष्ठन्तम उच्छ्रयेण महागिरिम ॥ 7 ॥

  8. अगम्यं मनसाप्य अन्यैर नदी वृक्षसमन्वितम नाना पतगसंघैश च नादितं सुमनॊहरैः ॥ 8 ॥

  9. तस्य पृष्ठम उपारुह्य बहुरत्नाचितं शुभम अनन्त कल्पम उद्विद्धं सुराः सर्वे महौजसः ॥ 9 ॥

  10. ते मन्त्रयितुम आरब्धास तत्रासीना दिवौकसः अमृतार्थे समागम्य तपॊ नियमसंस्थिताः ॥ 10 ॥

  11. तत्र नारायणॊ देवॊ बराह्मणम इदम अब्रवीत चिन्तयत्सु सुरेष्व एवं मन्त्रयत्सु च सर्वशः ॥ 11 ॥

  12. देवैर असुरसंघैश च मथ्यतां कलशॊदधिः भविष्यत्य अमृतं तत्र मथ्यमाने महॊदधौ ॥ 12 ॥

  13. सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि मन्थध्वम उदधिं देवा वेत्स्यध्वम अमृतं ततः ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 16

Previous: अध्याय 14