[वै] ते परतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः समैर उदङ्मुखैर मार्गैर यथॊद्दिष्टं परंतपाः ॥ 1 ॥
ते गच्छन्तस तव अहॊरात्रं तीर्थं सॊमश्रवायणम आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥ 2 ॥
उल्मुकं तु समुद्यम्य तेषाम अग्रे धनंजयः परकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥ 3 ॥
तत्र गङ्गा जले रम्ये विविक्ते करीडयन सत्रियः ईर्ष्युर गन्धर्वराजः सम जलक्रीडाम उपागतः ॥ 4 ॥
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम तेन शब्देन चाविष्टश चुक्रॊध बलवद बली ॥ 5 ॥
स दृष्ट्वा पाण्डवांस तत्र सह मात्रा परंतपान विस्फारयन धनुर घॊरम इदं वचनम अव्रवीत ॥ 6 ॥
संध्या संरज्यते घॊरा पूर्वरात्रागमेषु या अशीतिभिस तरुटैर हीनं तं मुहूर्तं परचक्षते ॥ 7 ॥
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम शेषम अन्यन मनुष्याणां कामचारम इह समृतम ॥ 8 ॥
लॊभात परचारं चरतस तासु वेलासु वै नरान उपक्रान्ता निगृह्णीमॊ राक्षसैः सह बालिशान ॥ 9 ॥
ततॊ रात्रौ पराप्नुवतॊ जलं बरह्मविदॊ जनाः गर्हयन्ति नरान सर्वान बलस्थान नृपतीन अपि ॥ 10 ॥
आरात तिष्ठत मा मह्यं समीपम उपसर्पत कस्मान मां नाभिजानीत पराप्तं भागीरथी जलम ॥ 11 ॥
अङ्गारपर्णं गन्धर्वं वित्तमां सवबलाश्रयम अहं हि मानी चेर्ष्युश च कुबेरस्य परियः सखा ॥ 12 ॥
अङ्गारपर्णम इति च खयतं वनम इदं मम अनु गङ्गां च वाकां च चित्रं यत्र वसाम्य अहम ॥ 13 ॥
न कुणपाः शृङ्गिणॊ वा न देवा न च मानुषाः इदं समुपसर्पन्ति तत किं समुपसर्पथ ॥ 14 ॥
[आर्ज] समुद्रे हिमवत्पार्श्वे नद्याम अस्यां च दुर्मते रात्राव अहनि संध्यौ च कस्य कॢप्तः परिग्रहः ॥ 15 ॥
वयं च शक्तिसंपन्ना अकाले तवाम अधृष्णुमः अशक्ता हि कषणे करूरे युष्मान अर्चन्ति मानवाः ॥ 16 ॥
पुरा हिमवतश चैषा हेमशृङ्गाद विनिःसृता गङ्गा गत्वा समुद्राम्भः सप्तधा परतिपद्यते ॥ 17 ॥
इयं भूत्वा चैकवप्रा शुचिर आकाशगा पुनः देवेषु गङ्गा गन्धर्व पराप्नॊत्य अलक नन्दताम ॥ 18 ॥
तथा पितॄन वैतरणी दुस्तरा पापकर्मभिः गङ्गा भवति गन्धर्व यथा दवैपायनॊ ऽबरवीत ॥ 19 ॥
असंबाधा देव नदी सवर्गसंपादनी शुभा कथम इच्छसि तां रॊद्धुं नैष धर्मः सनातनः ॥ 20 ॥
अनिवार्यम असंबाधं तव वाचा कथं वयम न सपृशेम यथाकामं पुण्यं भागीरथी जलम ॥ 21 ॥
[वै] अङ्गारपर्णस तच छरुत्वा करुद्ध आनम्य कार्मुकम मुमॊच सायकान दीप्तान अहीन आशीविषान इव ॥ 22 ॥
उल्मुकं भरामयंस तूर्णं पाण्डवश चर्म चॊत्तमम वयपॊवाह शरांस तस्य सर्वान एव धनंजयः ॥ 23 ॥
[आर्ज] बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु परयुज्यते अस्त्रज्ञेषु परयुक्तैषा फेनवत परविलीयते ॥ 24 ॥
मानुषान अति गन्धर्वान सर्वान गन्धर्व लक्षये तस्माद अस्त्रेण दिव्येन यॊत्स्ये ऽहं न तु मायया ॥ 25 ॥
पुरास्त्रम इदम आग्नेयं परादात किल बृहस्पतिः भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतॊः ॥ 26 ॥
भरद्वाजाद अग्निवेश्यॊ अग्निवेश्याद गुरुर मम स तव इदं मह्यम अददाद दरॊणॊ बराह्मणसत्तमः ॥ 27 ॥
[वै] इत्य उक्त्वा पाण्डवः करुद्धॊ गन्धर्वाय मुमॊच ह परदीप्तम अस्त्रम आग्नेयं ददाहास्य रथं तु तत ॥ 28 ॥
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम अस्त्रतेजः परमूढं च परपतन्तम अवाङ्मुखम ॥ 29 ॥
शिरॊरुहेषु जग्राह माल्यवत्सु धनंजयः भरातॄन परति चकर्षाथ सॊ ऽसत्रपाताद अचेतसम ॥ 30 ॥
युधिष्ठिरं तस्य भार्या परपेदे शरणार्थिनी नाम्ना कुम्भीनसी नाम पतित्राणम अभीप्सती ॥ 31 ॥
[गन्धर्वी] तराहि तवं मां महाराज पतिं चेमं विमुञ्च मे गन्धर्वीं शरणं पराप्तां नाम्ना कुम्बीनसीं परभॊ ॥ 32 ॥
[य] युद्धे जितं यशॊ हीनं सत्री नाथम अपराक्रमम कॊ नु हन्याद रिपुं तवादृङ मुञ्चेमं रिपुसूदन ॥ 33 ॥
[आर्ज] अङ्गेमं परतिपद्यस्व गच्छ गन्धर्व मा शुचः परदिशत्य अभयं ते ऽदय कुरुराजॊ युधिष्ठिरः ॥ 34 ॥
[ग] जितॊ ऽहं पूर्वकं नाम मुञ्चाम्य अङ्गारपर्णताम न च शलाघे बलेनाद्य न नाम्ना जनसंसदि ॥ 35 ॥
साध्व इमं लब्धवाँल लाभं यॊ ऽहं दिव्यास्त्रधारिणम गान्धर्व्या मायया यॊद्धुम इच्छामि वयसा वरम ॥ 36 ॥
अस्त्राग्निना विचित्रॊ ऽयं दग्धॊ मे रथ उत्तमः सॊ ऽहं चित्ररथॊ भूत्वा नाम्ना दग्धरथॊ ऽभवम ॥ 37 ॥
संभृता चैव विद्येयं तपसेह पुरा मया निवेदयिष्ये ताम अद्य पराणदाया महात्मने ॥ 38 ॥
संस्तम्भितं हि तरसा जितं शरणम आगतम यॊ ऽरिं संयॊजयेत पराणैः कल्याणं किं न सॊ ऽरहति ॥ 39 ॥
चक्षुषी नाम विद्येयं यां सॊमाय ददौ मनुः ददौ स विश्वावसवे मह्यं विश्वावसुर ददौ ॥ 40 ॥
सेयं कापुरुषं पराप्ता गुरु दत्ता परणश्यति आगमॊ ऽसया मया परॊक्ता वीर्यं परतिनिबॊध मे ॥ 41 ॥
यच चक्षुषा दरष्टुम इच्छेत तरिषु लॊकेषु किं चन तत पश्येद यादृशं चेच्छेत तादृषं दरष्टुम अर्हति ॥ 42 ॥
समानपद्ये षन मासान सथितॊ विद्यां लभेद इमाम अनुनेष्याम्य अहं विद्यां सवयं तुभ्यं वरते कृते ॥ 43 ॥
विद्यया हय अनया राजन वयं नृभ्यॊ विशेषिताः अविशिष्टाश च देवानाम अनुभाव परवर्तिताः ॥ 44 ॥
गन्धर्वजानाम अश्वानाम अहं पुरुषसत्तम भरातृभ्यस तव पञ्चभ्यः पृथग दाता शतं शतम ॥ 45 ॥
देवगन्धर्ववाहास ते दिव्यगन्धा मनॊ गमाः कषीणाः कषीणा भवन्त्य एते न हीयन्ते च रंहसः ॥ 46 ॥
पुरा कृतं महेन्द्रस्य वज्रं वृत्र निबर्हणे दशधा शतधा चैव तच छीर्णं वृत्रमूर्धनि ॥ 47 ॥
ततॊ भागी कृतॊ देवैर वज्रभाग उपास्यते लॊके यत साधनं किं चित सा वै वज्रतनुः समृता ॥ 48 ॥
वज्रपाणिर बराह्मणः सयात कषत्रं वज्ररथं समृतम वैश्या वै दानवज्राश च कर्म वर्जा यवीयसः ॥ 49 ॥
वज्रं कषत्रस्य वाजिनॊ अवध्या वाजिनः समृताः रथाङ्गं वडवा सूते सूताश चाश्वेषु ये मताः ॥ 50 ॥
कामवर्णाः कामजवाः कामतः समुपस्थिताः इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥ 51 ॥
[आर्ज] यदि परीतेन वा दत्तं संशये जीवितस्य वा विद्या वित्तं शरुतं वापि न तद गन्धर्व कामये ॥ 52 ॥
[ग] संयॊगॊ वै परीतिकरः संसत्सु परतिदृश्यते जीवितस्य परदानेन परीतॊ विद्यां ददामि ते ॥ 53 ॥
तवत्तॊ हय अहं गरहीष्यामि अस्त्रम आग्नेयम उत्तमम तथैव सख्यं बीभत्सॊ चिराय भरतर्षभ ॥ 54 ॥
[आर्ज] तवत्तॊ ऽसत्रेण वृणॊम्य अश्वान संयॊगः शाश्वतॊ ऽसतु नौ सखे तद बरूहि गन्धर्व युष्मभ्यॊ यद भयं तयजेत ॥ 55 ॥
आदिपर्व · Adi Parva
अध्याय 158
Reach this point to mark the section finished.
Continue to अध्याय 159