[वै] वसत्सु तेषु परच्छन्नं पाण्डवेषु महात्मसु आजगामाथ तान दरष्टुं वयासः सत्यवती सुतः ॥ 1 ॥
तम आगतम अभिप्रेक्ष्य परत्युद्गम्य परंतपाः परणिपत्याभिवाद्यैनं तस्थुः पराञ्जलयस तदा ॥ 2 ॥
समनुज्ञाप्य तान सर्वान आसीनान मुनिर अब्रवीत परसन्नः पूजितः पार्थैः परीतिपूर्वम इदं वचः ॥ 3 ॥
अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥ 4 ॥
अथ धर्मार्थवद वाक्यम उक्त्वा स भगवान ऋषिः विचित्राश च कथास तास ताः पुनर एवेदम अब्रवीत ॥ 5 ॥
आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः विलग्नमध्या सुश्रॊणी सुभ्रूः सर्वगुणान्विता ॥ 6 ॥
कर्मभिः सवकृतैः सा तु दुर्भगा समपद्यत नाध्यगच्छत पतिं सा तु कन्या रूपवती सती ॥ 7 ॥
तपस तप्तुम अथारेभे पत्यर्थम असुखा ततः तॊषयाम आस तपसा सा किलॊग्रेण शंकरम ॥ 8 ॥
तस्याः स भगवांस तुष्टस ताम उवाच तपस्विनीम वरं वरय भद्रं ते वरदॊ ऽसमीति भामिनि ॥ 9 ॥
अथेश्वरम उवाचेदम आत्मनः सा वचॊ हितम पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः ॥ 10 ॥
ताम अथ परत्युवाचेदम ईशानॊ वदतां वरः पञ्च ते पतयॊ भद्रे भविष्यन्तीति शंकरः ॥ 11 ॥
परतिब्रुवन्तीम एकं मे पतिं देहीति शंकरम पुनर एवाब्रवीद देव इदं वचनम उत्तमम ॥ 12 ॥
पञ्चकृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति ॥ 13 ॥
दरुपदस्य कुले जाता कन्या सा देवरूपिणी निर्दिष्टा भवता पत्नी कृष्णा पार्षत्य अनिन्दिता ॥ 14 ॥
पाञ्चाल नगरं तस्मात परविशध्वं महाबलाः सुखिनस ताम अनुप्राप्य भविष्यथ न संशयः ॥ 15 ॥
एवम उक्त्वा महाभागः पाण्डवानां पितामह पार्थान आमन्त्र्य कुन्तीं च परातिष्ठत महातपाः ॥ 16 ॥
आदिपर्व · Adi Parva
अध्याय 157
Reach this point to mark the section finished.
Continue to अध्याय 158