धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 156

  1. [वै] एतच छरुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन सर्वे चास्वस्थ मनसॊ बभूवुस ते महारथाः ॥ 1 ॥

  2. ततः कुन्तीसुतान दृष्ट्वा विभ्रान्तान गतचेतसः युधिष्ठिरम उवाचेदं वचनं सत्यवादिनी ॥ 2 ॥

  3. चिररात्रॊषिताः समेह बराह्मणस्य निवेशने रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ॥ 3 ॥

  4. यानीह रमणीयानि वनान्य उपवनानि च सर्वाणि तानि दृष्टानि पुनः पुनर अरिंदम ॥ 4 ॥

  5. पुनर दृष्टानि तान्य एव परीणयन्ति न नस तथा भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥ 5 ॥

  6. ते वयं साधु पाञ्चालान गच्छाम यदि मन्यसे अपूर्व दर्शनं तात रमणीयं भविष्यति ॥ 6 ॥

  7. सुभिक्षाश चैव पाञ्चालाः शरूयन्ते शत्रुकर्शन यज्ञसेनश च राजासौ बरह्मण्य इति शुश्रुमः ॥ 7 ॥

  8. एकत्र चिरवासॊ हि कषमॊ न च मतॊ मम ते तत्र साधु गच्छामॊ यदि तवं पुत्र मन्यसे ॥ 8 ॥

  9. [य] भवत्या यन मतं कार्यं तद अस्माकं परं हितम अनुजांस तु न जानामि गच्छेयुर नेति वा पुनः ॥ 9 ॥

  10. [वै] ततः कुन्ती भीमसेनम अर्जुनं यमजौ तथा उवाच गमनं ते च तथेत्य एवाब्रुवंस तदा ॥ 10 ॥

  11. तत आमन्त्र्य तं विप्रं कुन्ती राजन सुतैः सह परतस्थे नगरीं रम्यां दरुपदस्य महात्मनः ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 157

Previous: अध्याय 155