धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 154

  1. [बराह्मण] गङ्गा दवारं परति महान बभूवर्षिर महातपाः भरद्वाजॊ महाप्राज्ञः सततं संशितव्रतः ॥ 1 ॥

  2. सॊ ऽभिषेक्तुं गतॊ गङ्गां पूर्वम एवागतां सतीम ददर्शाप्सरसं तत्र घृताचीम आप्लुताम ऋषिः ॥ 2 ॥

  3. तस्या वायुर नदीतीरे वसनं वयहरत तदा अपकृष्टाम्बरां दृष्ट्वा ताम ऋषिश चकमे ततः ॥ 3 ॥

  4. तस्यां संसक्तमनसः कौमार बरह्मचारिणः हृष्टस्य रेतश चस्कन्द तद ऋषिर दरॊण आदधे ॥ 4 ॥

  5. ततः समभवद दरॊणः कुमारस तस्य धीमतः अध्यगीष्ट स वेदांश च वेदाङ्गानि च सर्वशः ॥ 5 ॥

  6. भरद्वाजस्य तु सखा पृषतॊ नाम पार्थिवः तस्यापि दरुपदॊ नाम तदा समभवत सुतः ॥ 6 ॥

  7. स नित्यम आश्रमं गत्वा दरॊणेन सह पार्षतः चिक्रीडाध्ययनं चैव चकार कषत्रियर्षभः ॥ 7 ॥

  8. ततस तु पृषते ऽतीते स राजा दरुपदॊ ऽभवत दरॊणॊ ऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥ 8 ॥

  9. वनं तु परथितं रामं भरद्वाजसुतॊ ऽबरवीत आगतं वित्तकामं मां विद्धि दरॊणं दविजर्षभ ॥ 9 ॥

  10. [राम] शरीरमात्रम एवाद्य मयेदम अवशेषितम अस्त्राणि वा शरीरं वा बरह्मन्न अन्यतरं वृणु ॥ 10 ॥

  11. [दरॊण] अस्त्राणि चैव सर्वाणि तेषां संहारम एव च परयॊगं चैव सर्वेषां दातुम अर्हति मे भवान ॥ 11 ॥

  12. [बराह्मण] तथेत्य उक्त्वा ततस तस्मै परददौ भृगुनन्दनः परतिगृह्य ततॊ दरॊणः कृतकृत्यॊ ऽभवत तदा ॥ 12 ॥

  13. संप्रहृष्टमनाश चापि रामात परमसंमतम बरह्मास्त्रं समनुप्राप्य नरेष्व अभ्यधिकॊ ऽभवत ॥ 13 ॥

  14. ततॊ दरुपदम आसाद्य भारद्वाजः परतापवान अब्रवीत पुरुषव्याघ्रः सखायं विद्धि माम इति ॥ 14 ॥

  15. [दरुपद] नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते ॥ 15 ॥

  16. [बर] स विनिश्चित्य मनसा पाञ्चाल्यं परति बुद्धिमान जगाम कुरुमुख्यानां नगरं नागसाह्वयम ॥ 16 ॥

  17. तस्मै पौत्रान समादाय वसूनि विविधानि च पराप्ताय परददौ भीष्मः शिष्यान दरॊणाय धीमते ॥ 17 ॥

  18. दरॊणः शिष्यांस ततः सर्वान इदं वचनम अब्रवीत समानीय तदा विद्वान दरुपदस्यासुखाय वै ॥ 18 ॥

  19. आचार्य वेतनं किं चिद धृदि संपरिवर्तते कृतास्त्रैस तत परदेयं सयात तद ऋतं वदतानघाः ॥ 19 ॥

  20. यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः ततॊ दरॊणॊ ऽबरवीद भूयॊ वेतनार्थम इदं वचः ॥ 20 ॥

  21. पार्षतॊ दरुपदॊ नाम छत्रवत्यां नरेश्वरः तस्यापकृष्य तद राज्यं मम शीघ्रं परदीयताम ॥ 21 ॥

  22. ततः पाण्डुसुताः पञ्च निर्जित्य दरुपदं युधि दरॊणाय दर्शयाम आसुर बद्ध्वा ससचिवं तदा ॥ 22 ॥

  23. [दरॊ] परार्थयामि तवया सख्यं पुनर एव नराधिप अराजा किल नॊ राज्ञः सखा भवितुम अर्हति ॥ 23 ॥

  24. अतः परयतितं राज्ये यज्ञसेन मया तव राजासि दक्षिणे कूले भागीरथ्याहम उत्तरे ॥ 24 ॥

  25. [बर] असत्कारः स सुमहान मुहूर्तम अपि तस्य तु न वयेति हृदयाद राज्ञॊ दुर्मनाः स कृशॊ ऽभवत ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 155

Previous: अध्याय 153