धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 153

  1. [ज] ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम अत ऊर्ध्वं ततॊ बरह्मन किम अकुर्वत पाण्डवाः ॥ 1 ॥

  2. [वै] तत्रैव नयवसन राजन निहत्य बकराक्षसम अधीयानाः परं बरह्म बराह्मणस्य निवेशने ॥ 2 ॥

  3. ततः कतिपयाहस्य बराह्मणः संशितव्रतः परतिश्रयार्थं तद वेश्म बराह्मणस्याजगाम ह ॥ 3 ॥

  4. स सम्यक पूजयित्वा तं विद्वान विप्रर्षभस तदा ददौ परतिश्रयं तस्मै सदा सर्वातिथि वरती ॥ 4 ॥

  5. ततस ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः उपासां चक्रिरे विप्रं कथयानं कथास तदा ॥ 5 ॥

  6. कथयाम आस देशान स तीर्थानि विविधानि च राज्ञां च विविधाश चर्याः पुराणि विविधानि च ॥ 6 ॥

  7. स तत्राकथयद विप्रः कथान्ते जनमेजय पाञ्चालेष्व अद्भुताकारं याज्ञसेन्याः सवयंवरम ॥ 7 ॥

  8. धृष्टद्युम्नस्य चॊत्पत्तिम उत्पत्तिं च शिखण्डिनः अयॊनिजत्वं कृष्णाया दरुपदस्य महामखे ॥ 8 ॥

  9. तद अद्भुततमं शरुत्वा लॊके तस्य महात्मनः विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥ 9 ॥

  10. कथं दरुपदपुत्रस्य धृष्टद्युम्नस्य पावकात वेदिमध्याच च कृष्णायाः संभवः कथम अद्भुतः ॥ 10 ॥

  11. कथं दरॊणान महेष्वासात सर्वाण्य अस्त्राण्य अशिक्षत कथं परियसखायौ तौ भिन्नौ कस्य कृतेन च ॥ 11 ॥

  12. एवं तैश चॊदितॊ राजन स विप्रः पुरुषर्षभैः कथयाम आस तत सर्वं दरौपदी संभवं तदा ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 154

Previous: अध्याय 152