धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 152

  1. [वै] तेन शब्देन वित्रस्तॊ जनस तस्याथ रक्षसः निष्पपात गृहाद राजन सहैव परिचारिभिः ॥ 1 ॥

  2. तान भीतान विगतज्ञानान भीमः परहरतां वरः सान्त्वयाम आस बलवान समये च नयवेशयत ॥ 2 ॥

  3. न हिंस्या मानुषा भूयॊ युष्माभिर इह कर्हि चित हिंसतां हि वधः शीघ्रम एवम एव भवेद इति ॥ 3 ॥

  4. तस्य तद वचनं शरुत्वा तानि रक्षांसि भारत एवम अस्त्व इति तं पराहुर जगृहुः समयं च तम ॥ 4 ॥

  5. ततः परभृति रक्षांसि तत्र सौम्यानि भारत नगरे परत्यदृश्यन्त नरैर नगरवासिभिः ॥ 5 ॥

  6. ततॊ भिमस तम आदाय गतासुं पुरुषादकम दवारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥ 6 ॥

  7. ततः स भीमस तं हत्वा गत्वा बराह्मण वेश्म तत आचचक्षे यथावृत्तं राज्ञः सर्वम अशेषतः ॥ 7 ॥

  8. ततॊ नरा विनिष्क्रान्ता नगरात काल्यम एव तु ददृशुर निहतं भूमौ राक्षसं रुधिरॊक्षितम ॥ 8 ॥

  9. तम अद्रिकूटसदृशं विनिकीर्णं भयावहम एकचक्रां ततॊ गत्वा परवृत्तिं परददुः परे ॥ 9 ॥

  10. ततः सहस्रशॊ राजन नरा नगरवासिनः तत्राजग्मुर बकं दरष्टुं सस्त्री वृद्धकुमारकाः ॥ 10 ॥

  11. ततस ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम दैवतान्य अर्चयां चक्रुः सर्व एव विशां पते ॥ 11 ॥

  12. ततः परगणयाम आसुः कस्य वारॊ ऽदय भॊजने जञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एत तत ॥ 12 ॥

  13. एवं पृष्टस तु बहुशॊ रक्षमाणश च पाण्डवान उवाच नागरान सर्वान इदं विप्रर्षभस तदा ॥ 13 ॥

  14. आज्ञापितं माम अशने रुदन्तं सह बन्धुभिः ददर्श बराह्मणः कश चिन मन्त्रसिद्धॊ महाबलः ॥ 14 ॥

  15. परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च अब्रवीद बराह्मणश्रेष्ठ आश्वास्य परहसन्न इव ॥ 15 ॥

  16. परापयिष्याम्य अहं तस्मै इदम अन्नं दुरात्मने मन्निमित्तं भयं चापि न कार्यम इति वीर्यवान ॥ 16 ॥

  17. स तदन्नम उपादाय गतॊ बकवनं परति तेन नूनं भवेद एतत कर्म लॊकहितं कृतम ॥ 17 ॥

  18. ततस ते बराह्मणाः सर्वे कषत्रियाश च सुविस्मिताः वैश्याः शूद्राश च मुदिताश चक्रुर बरह्म महं तदा ॥ 18 ॥

  19. ततॊ जानपदाः सर्वे आजग्मुर नगरं परति तद अद्भुततमं दरष्टुं पार्थास तत्रैव चावसन ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 153

Previous: अध्याय 151