[वै] ततॊ रात्र्यां वयतीतायाम अन्नम आदाय पाण्डवः भीमसेनॊ ययौ तत्र यत्रासौ पुरुषादकः ॥ 1 ॥
आसाद्य तु वनं तस्य रक्षसः पाण्डवॊ बली आजुहाव ततॊ नाम्ना तदन्नम उपयॊजयन ॥ 2 ॥
ततः स राक्षसः शरुत्वा भीमसेनस्य तद वचः आजगाम सुसंक्रुद्धॊ यत्र भीमॊ वयवस्थितः ॥ 3 ॥
महाकायॊ महावेगॊ दारयन्न इव मेदिनीम तरिशिखां भृकुटिं कृत्वा संदश्य दशनच छदम ॥ 4 ॥
भुञ्जानम अन्नं तं दृष्ट्वा भीमसेनं स राक्षसः विवृत्य नयने करुद्ध इदं वचनम अब्रवीत ॥ 5 ॥
कॊ ऽयम अन्नम इदं भुङ्क्ते मदर्थम उपकल्पितम पश्यतॊ मम दुर्बुद्धिर यियासुर यमसादनम ॥ 6 ॥
भीमसेनस तु तच छरुत्वा परहसन्न इव भारत राक्षसं तम अनादृत्य भुङ्क्त एव पराङ्मुखः ॥ 7 ॥
ततः स भैरवं कृत्वा समुद्यम्य कराव उभौ अभ्यद्रवद भीमसेनं जिघांसुः पुरुषादकः ॥ 8 ॥
तथापि परिभूयैनं नेक्षमाणॊ वृकॊदरः राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥ 9 ॥
अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः जघान पृष्ठं पाणिभ्यांम उभाभ्यां पृष्ठतः सथितः ॥ 10 ॥
तथा बलवता भीमः पाणिभ्यां भृशम आहतः नैवावलॊकयाम आस राक्षसं भुङ्क्त एव सः ॥ 11 ॥
ततः स भूयः संक्रुद्धॊ वृक्षम आदाय राक्षसः ताडयिष्यंस तदा भीमं पुनर अभ्यद्रवद बली ॥ 12 ॥
ततॊ भीमः शनैर भुक्त्वा तदन्नं पुरुषर्षभः वार्य उपस्पृश्य संहृष्टस तस्थौ युधि महाबलः ॥ 13 ॥
कषिप्तं करुद्धेन तं वृक्षं परतिजग्राह वीर्यवान सव्येन पाणिना भीमः परहसन्न इव भारत ॥ 14 ॥
ततः स पुनर उद्यम्य वृक्षान बहुविधान बली पराहिणॊद भीमसेनाय तस्मै भीमश च पाण्डवः ॥ 15 ॥
तद वृक्षयुद्धम अभवन महीरुह विनाशनम घॊररूपं महाराज बकपाण्डवयॊर महत ॥ 16 ॥
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम भुजाभ्यां परिजग्राह भीमसेनं महाबलम ॥ 17 ॥
भीमसेनॊ ऽपि तद रक्षः परिरभ्य महाभुजः विस्फुरन्तं महावेगं विचकर्ष बलाद बली ॥ 18 ॥
स कृष्यमाणॊ भीमेन कर्षमाणश च पाण्डवम समयुज्यत तीव्रेण शरमेण पुरुषादकः ॥ 19 ॥
तयॊर वेगेन महता पृथिवीसमकम्पत पादपांश च महाकायांश चूर्णयाम आसतुस तदा ॥ 20 ॥
हीयमानं तु तद रक्षः समीक्ष्य भरतर्षभ निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकॊदरः ॥ 21 ॥
ततॊ ऽसय जानुना पृष्ठम अवपीड्य बलाद इव बाहुना परिजग्राह दक्षिणेन शिरॊधराम ॥ 22 ॥
सव्येन च कटी देशे गृह्य वाससि पाण्डवः तद रक्षॊ दविगुणं चक्रे नदन्तं भैरवान रवान ॥ 23 ॥
ततॊ ऽसय रुधिरं वक्त्रात परादुरासीद विशां पते भज्यमानस्य भीमेन तस्य घॊरस्य रक्षसः ॥ 24 ॥
आदिपर्व · Adi Parva
अध्याय 151
Reach this point to mark the section finished.
Continue to अध्याय 152