[वै] करिष्य इति भीमेन परतिज्ञाते तु भारत आजग्मुस ते ततः सर्वे भैक्षम आदाय पाण्डवाः ॥ 1 ॥
आकारेणैव तं जञात्वा पाण्डुपुत्रॊ युधिष्ठिरः रहः समुपविश्यैकस ततः पप्रच्छ मातरम ॥ 2 ॥
किं चिकीर्षत्य अयं कर्म भीमॊ भीमपराक्रमः भवत्य अनुमते कच चिद अयं कर्तुम इहेच्छति ॥ 3 ॥
[कु] ममैव वचनाद एष करिष्यति परंतपः बराह्मणार्थे महत कृत्यं मॊष्काय नगरस्य च ॥ 4 ॥
[य] किम इदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम परित्यागं हि पुत्रस्य न परशंसन्ति साधवः ॥ 5 ॥
कथं परसुतस्यार्थे सवसुतं तयक्तुम इच्छसि लॊकवृत्ति विरुद्धं वै पुत्र तयागात कृतं तवया ॥ 6 ॥
यस्य बाहू समाश्रित्य सुखं सर्वे सवपामहे राज्यं चापहृतं कषुद्रैर आजिहीर्षामहे पुनः ॥ 7 ॥
यस्य दुर्यॊधनॊ वीर्यं चिन्तयन्न अमितौजसः न शेते वसतीः सर्वा दुःखाच छकुनिना सह ॥ 8 ॥
यस्य वीरस्य वीर्येण मुक्ता जतु गृहाद वयम अन्येभ्यश चैव पापेभ्यॊ निहतश च पुरॊचनः ॥ 9 ॥
यस्य वीर्यं समाश्रित्य वसु पूर्णां वसुंधराम इमां मन्यामहे पराप्तां निहत्य धृतराष्ट्रजान ॥ 10 ॥
तस्य वयवसितस तयागॊ बुद्धिम आस्थाय कां तवया कच चिन न दुःखैर बुद्धिस ते विप्लुता गतचेतसः ॥ 11 ॥
[कु] युधिष्ठिर न संतापः कार्यः परति वृकॊदरम न चायं बुद्धिदौर्बल्याद वयवसायः कृतॊ मया ॥ 12 ॥
इह विप्रस्य भवने वयं पुत्र सुखॊषिताः तस्य परतिक्रिया तात मयेयं परसमीक्षिता एतावान एव पुरुषः कृतं यस्मिन न नश्यति ॥ 13 ॥
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतु गृहे महत हिडिम्बस्य वधाच चैव विश्वासॊ मे वृकॊदरे ॥ 14 ॥
बाह्वॊर बलं हि भीमस्य नागायुत समं महत येन यूयं गजप्रख्या निर्व्यूढा वारणावतात ॥ 15 ॥
वृकॊदर बलॊ नान्यॊ न भूतॊ न भविष्यति यॊ ऽभयुदीयाद युधि शरेष्ठम अपि वज्रधरं सवयम ॥ 16 ॥
जातमात्रः पुरा चैष ममाङ्कात पतितॊ गिरौ शरीरगौरवात तस्य शिला गात्रैर विचूर्णिता ॥ 17 ॥
तद अहं परज्ञया समृत्वा बलं भीमस्य पाण्डव परतीकारं च विप्रस्य ततः कृतवती मतिम ॥ 18 ॥
नेदं लॊभान न चाज्ञानान न च मॊहाद विनिश्चितम बुद्धिपूर्वं तु धर्मस्य वयवसायः कृतॊ मया ॥ 19 ॥
अर्थौ दवाव अपि निष्पन्नौ युधिष्ठिर भविष्यतः परतीकारश च वासस्य धर्मश च चरितॊ महान ॥ 20 ॥
यॊ बराह्मणस्य साहाय्यं कुर्याद अर्थेषु कर्हि चित कषत्रियः स शुभाँल लॊकान पराप्नुयाद इति मे शरुतम ॥ 21 ॥
कषत्रियः कषत्रियस्यैव कुर्वाणॊ वधमॊक्षणम विपुलां कीर्तिम आप्नॊति लॊके ऽसमिंश च परत्र च ॥ 22 ॥
वैश्यस्यैव तु साहाय्यं कुर्वाणः कषत्रियॊ युधि स सर्वेष्व अपि लॊकेषु परजा रञ्जयते धरुवम ॥ 23 ॥
शूद्रं तु मॊक्षयन राजा शरणार्थिनम आगतम पराप्नॊतीह कुले जन्म सद्रव्ये राजसत्कृते ॥ 24 ॥
एवं स भवगान वयासः पुरा कौरवनन्दन परॊवाच सुतरां पराज्ञस तस्माद एतच चिकीर्षितम ॥ 25 ॥
[य] उपपन्नम इदं मातस तवया यद बुद्धिपूर्वकम आर्तस्य बराह्मणस्यैवम अनुक्रॊशाद इदं कृतम धरुवम एष्यति भीमॊ ऽयं निहत्य पुरुषादकम ॥ 26 ॥
यथा तव इदं न विन्देयुर नरा नगरवासिनः तथायं बराह्मणॊ वाच्यः परिग्राह्यश च यत्नतः ॥ 27 ॥
आदिपर्व · Adi Parva
अध्याय 150
Reach this point to mark the section finished.
Continue to अध्याय 151