धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 149

  1. [कुन्ती] न विषादस तवया कार्यॊ भयाद अस्मात कथं चन उपायः परिदृष्टॊ ऽतर तस्मान मॊक्षाय रक्षसः ॥ 1 ॥

  2. एकस तव सुतॊ बालः कन्या चैका तपस्विनी न ते तयॊस तथा पत्न्या गमनं तत्र रॊचये ॥ 2 ॥

  3. मम पञ्च सुता बरह्मंस तेषाम एकॊ गमिष्यति तवदर्थं बलिम आदाय तस्य पापस्य रक्षसः ॥ 3 ॥

  4. [बराह्मण] नाहम एतत करिष्यामि जीवितार्थी कथं चन बराह्मणस्यातिथेश चैव सवार्थे पराणैर वियॊजनम ॥ 4 ॥

  5. न तव एतद अकुलीनासु नाधर्मिष्ठासु विद्यते यद बराह्मणार्थे विसृजेद आत्मानम अपि चात्मजम ॥ 5 ॥

  6. आत्मनस तु मया शरेयॊ बॊद्धव्यम इति रॊचये बरह्म वध्यात्म वध्या वा शरेय आत्मवधॊ मम ॥ 6 ॥

  7. बरह्मवध्या परं पापं निष्कृतिर नात्र विद्यते अबुद्धिपूर्वं कृत्वापि शरेय आत्मवधॊ मम ॥ 7 ॥

  8. न तव अहं वधम आकाङ्क्षे सवयम एवात्मनः शुभे परैः कृते वधे पापं न किं चिन मयि विद्यते ॥ 8 ॥

  9. अभिसंधिकृते तस्मिन बराह्मणस्य वधे मया निष्कृतिं न परपश्यामि नृशंसं कषुद्रम एव च ॥ 9 ॥

  10. आगतस्य गृहे तयागस तथैव शरणार्थिनः याचमानस्य च वधॊ नृशंसं परमं मतम ॥ 10 ॥

  11. कुर्यान न निन्दितं कर्म न नृशंसं कदा चन इति पूर्वे महात्मान आपद धर्मविदॊ विदुः ॥ 11 ॥

  12. शरेयांस तु सहदारस्य विनाशॊ ऽदय मम सवयम बराह्मणस्य वधं नाहम अनुमंस्ये कथं चन ॥ 12 ॥

  13. [कुन्ती] ममाप्य एषा मतिर बरह्मन विप्रा रक्ष्या इति सथिरा न चाप्य अनिष्टः पुत्रॊ मे यदि पुत्रशतं भवेत ॥ 13 ॥

  14. न चासौ राक्षसः शक्तॊ मम पुत्र विनाशने वीर्यवान मन्त्रसिद्धश च तेजस्वी च सुतॊ मम ॥ 14 ॥

  15. राक्षसाय च तत सर्वं परापयिष्यति भॊजनम मॊक्षयिष्यति चात्मानम इति मे निश्चिता मतिः ॥ 15 ॥

  16. समागताश च वीरेण दृष्टपूर्वाश च राक्षसाः बलवन्तॊ महाकाया निहताश चाप्य अनेकशः ॥ 16 ॥

  17. न तव इदं केषु चिद बरह्मन वयाहर्तव्यं कथं चन विद्यार्थिनॊ हि मे पुत्रान विप्रकुर्युः कुतूहलात ॥ 17 ॥

  18. गुरुणा चाननुज्ञातॊ गराहयेद यं सुतॊ मम न स कुर्यात तया कार्यं विद्ययेति सतां मतम ॥ 18 ॥

  19. [वै] एवम उक्तस तु पृथया स विप्रॊ भार्यया सह हृष्टः संपूजयाम आस तद वाक्यम अमृतॊपमम ॥ 19 ॥

  20. ततः कुन्ती च विप्रश च सहिताव अनिलात्मजम तम अब्रूतां कुरुष्वेति स तथेत्य अब्रवीच च तौ ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 150

Previous: अध्याय 148