[षौनक] सौते कथय ताम एतां विस्तरेण कथां पुनः आस्तीकस्य कवेः साधॊः शुश्रूषा परमा हि नः ॥ 1 ॥
मधुरं कथ्यते सौम्य शलक्ष्णाक्षर पदं तवया परीयामहे भृशं तात पितेवेदं परभाषसे ॥ 2 ॥
अस्मच छुश्रूषणे नित्यं पिता हि निरतस तव आचष्टैतद यथाख्यानं पिता ते तवं तथा वद ॥ 3 ॥
[स] आयुस्यम इदम आख्यानम आस्तीकं कथयामि ते यथा शरुतं कथयतः सकाशाद वै पितुर मया ॥ 4 ॥
पुरा देवयुगे बरह्मन परजापतिसुते शुभे आस्तां भगिन्यौ रूपेण समुपेते ऽदभुते ऽनघे ॥ 5 ॥
ते भार्ये कश्यपस्यास्तां कद्रूश च विनता च ह परादात ताभ्यां वरं परीतः परजापतिसमः पतिः कश्यपॊ धर्मपत्नीभ्यां मुदा परमया युतः ॥ 6 ॥
वरातिसर्वं शरुत्वैव कश्यपाद उत्तमं च ते हर्षाद अप्रतिमां परीतिं परापतुः सम वरस्त्रियौ ॥ 7 ॥
वव्रे कद्रूः सुतान नागान सहस्रं तुल्यतेजसः दवौ पुत्रौ विनता वव्रे कद्रू पुत्राधिकौ बले ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥ 8 ॥
तस्यै भर्ता वरं परादाद अध्यर्थं पुत्रम ईप्सितम एवम अस्त्व इति तं चाह कश्यपं विनता तदा ॥ 9 ॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ कद्रूश च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम ॥ 10 ॥
धार्यौ परयत्नतॊ गर्भाव इत्य उक्त्वा स महातपाः ते भार्ये वरसंहृष्टे कश्यपॊ वनम आविशत ॥ 11 ॥
कालेन महता कद्रूर अण्डानां दशतीर दश जनयाम आस विप्रेन्द्र दवे अण्डे विनता तदा ॥ 12 ॥
तयॊर अण्डानि निदधुः परहृष्टाः परिचारिकाः सॊपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च ॥ 13 ॥
ततः पञ्चशते काले कद्रू पुत्रा निविःसृताः अण्डाभ्यां विनतायास तु मिथुनं न वयदृश्यत ॥ 14 ॥
ततः पुत्रार्थिणी देवी वरीडिता सा तपस्विनी अण्डं बिभेद विनता तत्र पुत्रम अदृक्षत ॥ 15 ॥
पूर्वार्ध कायसंपन्नम इतरेणाप्रकाशता सपुत्रॊ रॊषसंपन्नः शशापैनाम इति शरुतिः ॥ 16 ॥
यॊ ऽहम एवं कृतॊ मातस तवया लॊभपरीतया शरीरेणासमग्रॊ ऽदय तस्माद दासी भविष्यसि ॥ 17 ॥
पञ्चवर्षशतान्य अस्या यया विस्पर्धसे सह एष च तवां सुतॊ मातर दास्यत्वान मॊक्षयिष्यति ॥ 18 ॥
यद्य एनम अपि मातस तवं माम इवाण्ड विभेदनात न करिष्यस्य अदेहं वा वयङ्गं वापि तपस्विनम ॥ 19 ॥
परतिपालयितव्यस ते जन्म कालॊ ऽसय धीरया विशिष्ट बलम ईप्सन्त्या पञ्चवर्षशतात परः ॥ 20 ॥
एवं शप्त्वा ततः पुत्रॊ विनताम अन्तरिक्षगः अरुणॊ दृष्यते बरह्मन परभातसमये सदा ॥ 21 ॥
गरुडॊ ऽपि यथाकालं जज्ञे पन्नगसूदनः स जातमात्रॊ विनतां परित्यज्य खम आविशत ॥ 22 ॥
आदास्यन्न आत्मनॊ भॊज्यम अन्नं विहितम अस्य यत विधात्रा भृगुशार्दूल कषुधितस्य बुभुक्षतः ॥ 23 ॥
आदिपर्व · Adi Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15