[कुन्ती] कुतॊ मूलम इदं दुःखं जञातुम इच्छामि तत्त्वतः विदित्वा अपकर्षेयं शक्यं चेद अपकर्षितुम ॥ 1 ॥
[बराह्मण] उपपन्नं सताम एतद यद बरवीषि तपॊधने न तु दुःखम इदं शक्यं मानुषेण वयपॊहितुम ॥ 2 ॥
समीपे नगरस्यास्य बकॊ वसति राक्षसः ईशॊ जनपदस्यास्य पुरस्य च महाबलः ॥ 3 ॥
पुष्टॊ मानुषमांसेन दुर्बुद्धिः पुरुषादकः रक्षत्य असुरराण नित्यम इमं जनपदं बली ॥ 4 ॥
नगरं चैव देशं च रक्षॊबलसमन्वितः तत कृते परचक्राच च भूतेभ्यश च न नॊ भयम ॥ 5 ॥
वेतनं तस्य विहितं शालिवाहस्य भॊजनम महिषौ पुरुषश चैकॊ यस तद आदाय गच्छति ॥ 6 ॥
एकैकश चैव पुरुषस तत परयच्छति भॊजनम स वारॊ बहुभिर वर्षैर भवत्य असुतरॊ नरैः ॥ 7 ॥
तद विमॊक्षाय ये चापि यतन्ते पुरुषाः कव चित सपुत्रदारांस तान हत्वा तद रक्षॊ भक्षयत्य उत ॥ 8 ॥
वेत्रकीय गृहे राजा नायं नयम इहास्थितः अनामयं जनस्यास्य येन सयाद अद्य शाश्वतम ॥ 9 ॥
एतद अर्हा वयं नूनं वसामॊ दुर्बलस्य ये विषये नित्यम उद्विग्नाः कुराजानम उपाश्रिताः ॥ 10 ॥
बराह्मणाः कस्य वक्तव्याः कस्य वा छन्द चारिणः गुणैर एते हि वास्यन्ते कामगाः पक्षिणॊ यथा ॥ 11 ॥
राजानं परथमं विन्देत ततॊ भार्यां ततॊ धनम तरयस्य संचये चास्य जञातीन पुत्रांश च धारयेत ॥ 12 ॥
विपरीतं मया चेदं तरयं सर्वम उपार्जितम त इमाम आपदं पराप्य भृशं तप्स्यामहे वयम ॥ 13 ॥
सॊ ऽयम अस्मान अनुप्राप्तॊ वारः कुलविनाशनः भॊजनं पुरुषश चैकः परदेयं वेतनं मया ॥ 14 ॥
न च मे विद्यते वित्तं संक्रेतुं पुरुषं कव चित सुहृज्जनं परदातुं च न शक्ष्यामि कथं चन गतिं चापि न पश्यामि तस्मान मॊक्षाय रक्षसः ॥ 15 ॥
सॊ ऽहं दुःखार्णवे मग्नॊ महत्य असुतरे भृशम सहैवैतैर गमिष्यामि बान्धवैर अद्य राक्षसम ततॊ नः सहितन कषुद्रः सर्वान एवॊपभॊक्ष्यति ॥ 16 ॥
आदिपर्व · Adi Parva
अध्याय 148
Reach this point to mark the section finished.
Continue to अध्याय 149