धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 146

  1. [बराह्मणी] न संतापस तवया कार्यः पराकृतेनेव कर्हि चित न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते ॥ 1 ॥

  2. अवश्यं निधनं सर्वैर गन्तव्यम इह मानवैः अवश्य भाविन्य अर्थे वै संतापॊ नेह विद्यते ॥ 2 ॥

  3. भार्या पुत्रॊ ऽथ दुहिता सर्वम आत्मार्थम इष्यते वयथां जहि सुबुद्ध्या तवं सवयं यास्यामि तत्र वै ॥ 3 ॥

  4. एतद धि परमं नार्याः कार्यं लॊके सनातनम पराणान अपि परित्यज्य यद भर्तृहितम आचरेत ॥ 4 ॥

  5. तच च तत्र कृतं कर्म तवापीह सुखावहम भवत्य अमुत्र चाक्षय्यं लॊके ऽसमिंश च यशः करम ॥ 5 ॥

  6. एष चैव गुरुर धर्मॊ यं परवक्षाम्य अहं तव अर्थश च तव धर्मश च भूयान अत्र परदृश्यते ॥ 6 ॥

  7. यदर्थम इष्यते भार्या पराप्तः सॊ ऽरथस तवया मयि कन्या चैव कुमारश च कृताहम अनृणा तवया ॥ 7 ॥

  8. समर्थः पॊषणे चासि सुतयॊ रक्षणे तथा न तव अहं सुतयॊः शक्ता तथा रक्षणपॊषणे ॥ 8 ॥

  9. मम हि तवद्विहीनायाः सर्वकामा न आपदः कथं सयातां सुतौ बालौ भवेयं च कथं तव अहम ॥ 9 ॥

  10. कथं हि विधवा नाथा बाल पुत्रा विना तवया मिथुनं जीवयिष्यामि सथिता साधु गते पथि ॥ 10 ॥

  11. अहं कृतावलिप्तैश च परार्थ्यमानाम इमां सुताम अयुक्तैस तव संबन्धे कथं शक्ष्यामि रक्षितुम ॥ 11 ॥

  12. उत्सृष्टम आमिषं भूमौ परार्थयन्ति यथा खगाः परार्थयन्ति जनाः सर्वे वीर हीनां तथा सत्रियम ॥ 12 ॥

  13. साहं विचाल्यमाना वै परार्थ्यमाना दुरात्मभिः सथातुं पथि न शक्ष्यामि सज्जनेष्टे दविजॊत्तम ॥ 13 ॥

  14. कथं तव कुलस्यैकाम इमां बालाम असंस्कृताम पितृपैतामहे मार्गे नियॊक्तुम अहम उत्सहे ॥ 14 ॥

  15. कथं शक्ष्यामि बाले ऽसमिन गुणान आधातुम ईप्षितान अनाथे सर्वतॊ लुप्ते यथा तवं धर्मदर्शिवान ॥ 15 ॥

  16. इमाम अपि च ते बालाम अनाथां परिभूय माम अनर्हाः परार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥ 16 ॥

  17. तां चेद अहं न दित्सेयं तवद गुणैर उपबृंहिताम परमथ्यैनां हरेयुस ते हविर धवाङ्क्षा इवाध्वरात ॥ 17 ॥

  18. संप्रेक्षमाणा पुत्रं ते नानुरूपम इवात्मनः अनर्ह वशम आपन्नाम इमां चापि सुतां तव ॥ 18 ॥

  19. अवज्ञाता च लॊकस्य तथात्मानम अजानती अवलिप्तैर नरैर बरह्मन मरिष्यामि न संशयः ॥ 19 ॥

  20. तौ विहीनौ मया बालौ तवया चैव ममात्मजौ विनश्येतां न संदेहॊ मत्स्याव इव जलक्षये ॥ 20 ॥

  21. तरितयं सर्वथाप्य एवं विनशिष्यत्य असंशयम तवया विहीनं तस्मात तवं मां परित्यक्तुम अर्हसि ॥ 21 ॥

  22. वयुष्टिर एषा परा सत्रीणां पूर्वं भर्तुः परा गतिः न तु बराह्मण पुत्राणां विषये परिवर्तितुम ॥ 22 ॥

  23. परित्यक्तः सुतश चायं दुहितेयं तथा मया बन्धवाश च परित्यक्तास तवदर्थं जीवितं च मे ॥ 23 ॥

  24. यज्ञैस तपॊभिर नियमैर दानैश च विविधैस तथा विशिष्यते सत्रिया भर्तुर नित्यं परियहिते सथितिः ॥ 24 ॥

  25. तद इदं यच चिकीर्षामि धर्म्यं परमसंमतम इष्टं चैव हितं चैव तव चैव कुलस्य च ॥ 25 ॥

  26. इष्टानि चाप्य अपत्यानि दरव्याणि सुहृदः परियाः आपद धर्मविमॊक्षाय भार्या चापि सतां मतम ॥ 26 ॥

  27. एकतॊ वा कुलं कृत्स्नम आत्मा वा कुलवर्धन न समं सर्वम एवेति बुधानाम एष निश्चयः ॥ 27 ॥

  28. स कुरुष्व मया कार्यं तारयात्मानम आत्मना अनुजानीहि माम आर्य सुतौ मे परिरक्ष च ॥ 28 ॥

  29. अवध्याः सत्रिय इत्य आहुर धर्मज्ञा धर्मनिश्चये धर्मज्ञान राक्षसान आहुर न हन्यात स च माम अपि ॥ 29 ॥

  30. निःसंशयॊ वधः पुंसां सत्रीणां संशयितॊ वधः अतॊ माम एव धर्मज्ञ परस्थापयितुम अर्हसि ॥ 30 ॥

  31. भुक्तं परियाण्य अवाप्तानि धर्मश च चरितॊ मया तवत परसूतिः परिया पराप्ता न मां तप्स्यत्य अजीवितम ॥ 31 ॥

  32. जातपुत्रा च वृद्धा च परियकामा च ते सदा समीक्ष्यैतद अहं सर्वं वयवसायं करॊम्य अतः ॥ 32 ॥

  33. उत्सृज्यापि च माम आर्य वेत्स्यस्य अन्याम अपि सत्रियम ततः परतिष्ठितॊ धर्मॊ भविष्यति पुनस तव ॥ 33 ॥

  34. न चाप्य अधर्मः कल्याण बहु पत्नीकता नृणाम सत्रीणाम अधर्मः सुमहान भर्तुः पूर्वस्य लङ्घने ॥ 34 ॥

  35. एतत सर्वं समीक्ष्य तवम आत्मत्यागं च गर्हितम आत्मानं तारय मया कुलं चेमौ च दारकौ ॥ 35 ॥

  36. [वै] एवम उक्तस तया भर्ता तां समालिङ्ग्य भारत मुमॊच बाष्पं शनकैः सभार्यॊ भृशदुःखितः ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 147

Previous: अध्याय 145