[ज] एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः अतः परं दविजश्रेष्ठ किम अकुर्वत पाण्डवाः ॥ 1 ॥
[वै] एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः ऊषुर नातिचिरं कालं बराह्मणस्य निवेशने ॥ 2 ॥
रमणीयानि पश्यन्तॊ वनानि विविधानि च पार्थिवान अपि चॊद्देशान सरितश च सरांसि च ॥ 3 ॥
चेरुर भैक्षं तदा ते तु सर्व एव विशां पते बभूवुर नागराणां च सवैर गुणैः परियदर्शनाः ॥ 4 ॥
निवेदयन्ति सम च ते भैक्षं कुन्त्याः सदा निशि तया विभक्तान भागांस ते भुञ्जते सम पृथक पृथक ॥ 5 ॥
अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः अर्धं भैक्षस्य सर्वस्य भीमॊ भुङ्क्ते महाबलः ॥ 6 ॥
तथा तु तेषां वसतां तत्र राजन महात्मनाम अतिचक्राम सुमहान कालॊ ऽथ भरतर्षभ ॥ 7 ॥
ततः कदा चिद भैक्षाय गतास ते भरतर्षभाः संगत्या भीमसेनस तु तत्रास्ते पृथया सह ॥ 8 ॥
अथार्तिजं महाशब्दं बराह्मणस्य निवेशने भृशम उत्पतितं घॊरं कुन्ती शुश्राव भारत ॥ 9 ॥
रॊरूयमाणांस तान सर्वान परिदेवयतश च सा कारुण्यात साधुभावाच च देवी राजन न चक्षमे ॥ 10 ॥
मथ्यमानेव दुःखेन हृदयेन पृथा ततः उवाच भीमं कल्याणी कृपान्वितम इदं वचः ॥ 11 ॥
वसामः सुसुखं पुत्र बराह्मणस्य निवेशने अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥ 12 ॥
सा चिन्तये सदा पुत्र बराह्मणस्यास्य किं नव अहम परियं कुर्याम इति गृहे यत कुर्युर उषिताः सुखम ॥ 13 ॥
एतावान पुरुषस तात कृतं यस्मिन न नश्यति यावच च कुर्याद अन्यॊ ऽसय कुर्याद अभ्यधिकं ततः ॥ 14 ॥
तद इदं बराह्मणस्यास्य दुःखम आपतितं धरुवम तत्रास्या यदि साहाय्यं कुर्याम सुकृतं भवेत ॥ 15 ॥
[भम] जञायताम अस्य यद दुःखं यतश चैव समुत्थितम विदिते वयवसिष्यामि यद्य अपि सयात सुदुष्करम ॥ 16 ॥
[वै] तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः सवनम आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥ 17 ॥
अन्तःपुरं ततस तस्य बराह्मणस्य महात्मनः विवेश कुन्ती तवरिता बद्धवत्सेव सौरभी ॥ 18 ॥
ततस तं बराह्मणं तत्र भार्यया च सुतेन च दुहित्रा चैव सहितं ददर्श विकृताननम ॥ 19 ॥
[बर] धिग इदं जीवितं लॊके ऽनल सारम अनर्थकम दुःखमूलं पराधीनं भृशम अप्रियभागि च ॥ 20 ॥
जीविते परमं दुःखं जीविते परमॊ जवरः जीविते वर्तमानस्य दवन्द्वानाम आगमॊ धरुवः ॥ 21 ॥
एकात्मापि हि धर्मार्थौ कामं च न निषेवते एतैश च विप्रयॊगॊ ऽपि दुःखं परमकं मतम ॥ 22 ॥
आहुः के चित परं मॊक्षं स च नास्ति कथं चन अर्थप्राप्तौ च नरकः कृत्स्न एवॊपपद्यते ॥ 23 ॥
अर्थेप्सुता परं दुःखम अर्थप्राप्तौ ततॊ ऽधिकम जातस्नेहस्य चार्थेषु विप्रयॊगे महत्तरम ॥ 24 ॥
न हि यॊगं परपश्यामि येन मुच्येयम आपदः पुत्रदारेण वा सार्धं पराद्रवेयाम अनामयम ॥ 25 ॥
यतितं वै मया पूर्वं यथा तवं वेत्थ बराह्मणि यतः कषेमं ततॊ गन्तुं तवया तु मम न शरुतम ॥ 26 ॥
इह जाता विवृद्धास्मि पिता चेह ममेति च उक्तवत्य असि दुर्मेधे याच्यमाना मयासकृत ॥ 27 ॥
सवर्गतॊ हि पिता वृद्धस तथा माता चिरं तव बान्धवा भूतपूर्वाश च तत्र वासे तु का रतिः ॥ 28 ॥
सॊ ऽयं ते बन्धुकामाया अशृण्वन्त्या वचॊ मम बन्धुप्रणाशः संप्राप्तॊ भृशं दुःखकरॊ मम ॥ 29 ॥
अथ वा मद विनाशॊ ऽयं न हि शक्ष्यामि कं चन परित्यक्तुम अहं बन्धुं सवयं जीवन नृशंसवत ॥ 30 ॥
सहधर्मचरीं दान्तां नित्यं मातृसमां मम सखायं विहितां देवैर नित्यं परमिकां गतिम ॥ 31 ॥
मात्रा पित्रा च विहितां सदा गार्हस्थ्य भागिनीम वरयित्वा यथान्यायं मन्त्रवत परिणीय च ॥ 32 ॥
कुलीनां शीलसंपन्नाम अपत्यजननीं मम तवाम अहं जीवितस्यार्थे साध्वीम अनपकारिणीम परित्यक्तुं न शक्ष्यामि भार्यां नित्यम अनुव्रताम ॥ 33 ॥
कुत एव परित्यक्तुं सुतां शक्ष्याम्य अहं सवहम बालाम अप्राप्तवयसम अजातव्यञ्जनाकृतिम ॥ 34 ॥
भर्तुर अर्थाय निक्षिप्तां नयासं धात्रा महात्मना यस्यां दौहित्रजाँल लॊकान आशंसे पितृभिः सह सवयम उत्पाद्य तां बालां कथम उत्स्रष्टुम उत्सहे ॥ 35 ॥
मन्यन्ते के चिद अधिकं सनेहं पुत्रे पितुर नराः कन्यायां नैव तु पुनर मम तुल्याव उभौ मतौ ॥ 36 ॥
यस्मिँल लॊकाः परसूतिश च सथिता नित्यम अथॊ सुखम अपापां ताम अहं बालां कथम उत्स्रष्टुम उत्सहे ॥ 37 ॥
आत्मानम अपि चॊत्सृज्य तप्स्ये परेतवशं गतः तयक्ता हय एते मया वयक्तं नेह शक्ष्यन्ति जीवितुम ॥ 38 ॥
एषां चान्यतम तयागॊ नृशंसॊ गर्हितॊ बुधैः आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥ 39 ॥
स कृच्छ्राम अहम आपन्नॊ न शक्तस तर्तुम आपदम अहॊ धिक कां गतिं तव अद्य गमिष्यामि सबान्धवः सर्वैः सह मृतं शरेयॊ न तु मे जीवितुं कषमम ॥ 40 ॥
आदिपर्व · Adi Parva
अध्याय 145
Reach this point to mark the section finished.
Continue to अध्याय 146