[वै] ते वनेन वनं वीरा घनन्तॊ मृगगणान बहून अपक्रम्य ययू राजंस तवरमाणा महारथाः ॥ 1 ॥
मत्स्यांस तरिगर्तान पाञ्चालान कीचकान अन्तरेण च रमणीयान वनॊद्देशान परेक्षमाणाः सरांसि च ॥ 2 ॥
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः सह कुन्त्या महात्मानॊ बिभ्रतस तापसं वपुः ॥ 3 ॥
कव चिद वहन्तॊ जननीं तवरमाणा महारथाः कव चिच छन्देन गच्छन्तस ते जग्मुः परसभं पुनः ॥ 4 ॥
बराह्मं वेदम अधीयाना वेदाङ्गानि च सार्वशः नीतिशास्त्रं च धार्मज्ञा ददृशुस ते पितामहम ॥ 5 ॥
ते ऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा तस्थुः पराञ्जलयः सर्वे सह मात्रा परंतपाः ॥ 6 ॥
[वयास] मयेदं मनसा पूर्वं विदितं भरतर्षभाः यथा सथितैर अधर्मेण धार्तराष्ट्रैर विवासिताः ॥ 7 ॥
तद विदित्वास्मि संप्राप्तश चिकीर्षुः परमं हितम न विषादॊ ऽतर कर्तव्यः सर्वम एतत सुखाय वः ॥ 8 ॥
समास ते चैव मे सर्वे यूयं चैव न संशयः दीनतॊ बालतश चैव सनेहं कुर्वन्ति बान्धवाः ॥ 9 ॥
तस्माद अभ्यधिकः सनेहॊ युष्मासु मम सांप्रतम सनेहपूर्वं चिकीर्षामि हितं वस तन निबॊधत ॥ 10 ॥
इदं नगरम अभ्याशे रमणीयं निरामयम वसतेह परतिच्छन्ना ममागमनकाङ्क्षिणः ॥ 11 ॥
[वै] एवं स तान समाश्वास्य वयासः पार्थान अरिंदमान एकचक्राम अभिगतः कुन्तीम आश्वासयत परभुः ॥ 12 ॥
जीवपुत्रि सुतस ते ऽयं धर्मपुत्रॊ युधिष्ठिरः पृथिव्यां पार्थिवान सर्वान परशासिष्यति धर्मराट ॥ 13 ॥
धर्मेण जित्वा पृथिवीम अखिलां धर्मविद वशी भीमसेनार्जुन बलाद भॊक्ष्यत्य अयम असंशयः ॥ 14 ॥
पुत्रास तव च माद्र्याश च सर्व एव महारथाः सवराष्ट्रे विहरिष्यन्ति सुखं सुमनसस तदा ॥ 15 ॥
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीम इमाम राजसूयाश्वमेधाद्यैः करतुभिर भूरिदक्षिणैः ॥ 16 ॥
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च पितृपैतामहं राज्यम इह भॊक्ष्यन्ति ते सुताः ॥ 17 ॥
एवम उक्त्वा निवेश्यैनान बराह्मणस्य निवेशने अब्रवीत पार्थिवश्रेष्ठम ऋषिर दवैपायनस तदा ॥ 18 ॥
इह मां संप्रतीक्षध्वम आगमिष्याम्य अहं पुनः देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम ॥ 19 ॥
स तैः पराञ्जलिभिः सर्वैस तथेत्य उक्तॊ नराधिप जगाम भगवान वयासॊ यथाकामम ऋषिः परभुः ॥ 20 ॥
आदिपर्व · Adi Parva
अध्याय 144
Reach this point to mark the section finished.
Continue to अध्याय 145