[भम] समरन्ति वैरं रक्षांसि मायाम आश्रित्य मॊहिनीम हिडिम्बे वरज पन्थानं तवं वै भरातृनिषेवितम ॥ 1 ॥
[य] करुद्धॊ ऽपि पुरुषव्याघ्र भीम मा सम सत्रियं वधीः शरीरगुप्त्याभ्यधिकं धर्मं गॊपय पाण्डव ॥ 2 ॥
वधाभिप्रायम आयान्तम अवधीस तवं महाबलम रक्षसस तस्या भगिनी किं नः करुद्धा करिष्यति ॥ 3 ॥
[वै] हिडिम्बा तु ततः कुन्तीम अभिवाद्य कृताञ्जलिः युधिष्ठिरं च कौन्तेयम इदं वचनम अब्रवीत ॥ 4 ॥
आर्ये जानासि यद दुःखम इह सत्रीणाम अनङ्गजम तद इदं माम अनुप्राप्तं भीमसेनकृतं शुभे ॥ 5 ॥
सॊढुं तत्परमं दुःखं मया कालप्रतीक्षया सॊ ऽयम अभ्यागतः कालॊ भविता मे सुखाय वै ॥ 6 ॥
मया हय उत्सृज्य सुहृदः सवधर्मं सवजनं तथा वृतॊ ऽयं पुरुषव्याघ्रस तव पुत्रः पतिः शुभे ॥ 7 ॥
वरेणापि तथानेन तवया चापि यशस्विनि तथा बरुवन्ती हि तदा परत्याख्याता करियां परति ॥ 8 ॥
तवं मां मूढेति वा मत्वा भक्ता वानुगतेति वा भर्त्रानेन महाभागे संयॊजय सुतेन ते ॥ 9 ॥
तम उपादाय गच्छेयं यथेष्टं देवरूपिणम पुनश चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥ 10 ॥
अहं हि मनसा धयाता सर्वान नेष्यामि वः सदा वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान ॥ 11 ॥
पृष्ठेन वॊ वहिष्यामि शीघ्रां गतिम अभीप्सतः यूयं परसादं कुरुत भीमसेनॊ भजेत माम ॥ 12 ॥
आपदस तरणे पराणान धारयेद येन येन हि सर्वम आदृत्य कर्तव्यं तद धर्मम अनुवर्तता ॥ 13 ॥
आपत्सु यॊ धारयति धरमं धर्मविद उत्तमः वयसनं हय एव धर्मस्य धर्मिणाम आपद उच्यते ॥ 14 ॥
पुण्यं पराणान धारयति पुण्यं पराणदम उच्यते येन येनाचरेद धर्मं तस्मिन गर्हा न विद्यते ॥ 15 ॥
[य] एवम एतद यथात्थ तवं हिडिम्बे नात्र संशयः सथातव्यं तु तवया धर्मे यथा बरूयां सुमध्यमे ॥ 16 ॥
सनातं कृताह्निकं भद्रे कृतकौतुक मङ्गलम भीमसेनं भजेथास तवं पराग अस्तगमनाद रवेः ॥ 17 ॥
अहःसु विहरानेन यथाकामं मनॊजवा अयं तव आनयितव्यस ते भीमसेनः सदा निशि ॥ 18 ॥
[वै] तथेति तत परतिज्ञाय हिडिम्बा राक्षसी तदा भीमसेनम उपादाय ऊर्ध्वम आचक्रमे ततः ॥ 19 ॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥ 20 ॥
कृत्वा च परमं रूपं सर्वाभरणभूषिता संजल्पन्ती सुमधुरं रमयाम आस पाण्डवम ॥ 21 ॥
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु सरःसु रमणीयेषु पद्मॊत्पलयुतेषु च ॥ 22 ॥
नदी दवीपप्रदेशेषु वैडूर्य सिकतासु च सुतीर्थ वनतॊयासु तथा गिरिनदीषु च ॥ 23 ॥
सगरस्य परदेशेषु मणिहेमचितेषु च पत्तनेषु च रम्येषु महाशालवनेषु च ॥ 24 ॥
देवारण्येषु पुण्येषु तथा पर्वतसानुषु गुह्यकानां निवासेषु तापसायतनेषु च ॥ 25 ॥
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च बिभ्रती परमं रूपं रमयाम आस पाण्डवम ॥ 26 ॥
रमयन्ती तथा भीमं तत्र तत्र मनॊजवा परजज्ञे राक्षसी पुत्रं भीमसेनान महाबलम ॥ 27 ॥
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम भीमरूपं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महाबलम ॥ 28 ॥
महेष्वासं महावीर्यं महासत्त्वं महाभुजम महाजवं महाकायं महामायम अरिंदमम ॥ 29 ॥
अमानुषां मानुषजं भीमवेगं महाबलम यः पिशाचान अतीवान्यान बभूवाति स मानुषान ॥ 30 ॥
बालॊ ऽपि यौवनं पराप्तॊ मानुषेषु विशां पते सर्वास्त्रेषु परं वीरः परकर्षम अगमद बली ॥ 31 ॥
सद्यॊ हि गर्भं राक्षस्यॊ लभन्ते परसवन्ति च कामरूपधराश चैव भवन्ति बहुरूपिणः ॥ 32 ॥
परणम्य विकचः पादाव अगृह्णात स पितुस तदा मातुश च परमेष्वासस तौ च नामास्य चक्रतुः ॥ 33 ॥
घटभासॊत्कच इति मातरं सॊ ऽभयभाषत अभवत तेन नामास्य घटॊत्कच इति सम ह ॥ 34 ॥
अनुरक्तश च तान आसीत पाण्डवान स घटॊत्कचः तेषां च दयितॊ नित्यम आत्मभूतॊ बभूव सः ॥ 35 ॥
संवाससमयॊ जीर्ण इत्य अभाषत तं ततः हिडिम्बा समयं कृत्वा सवां गतिं परत्यपद्यत ॥ 36 ॥
कृत्यकाल उपस्थास्ये पितॄन इति घटॊत्कचः आमन्त्र्य राक्षसश्रेष्ठः परतस्थे चॊत्तरां दिशम ॥ 37 ॥
स हि सृष्टॊ मघवता शक्तिहेतॊर महात्मना कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥ 38 ॥
आदिपर्व · Adi Parva
अध्याय 143
Reach this point to mark the section finished.
Continue to अध्याय 144