धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 142

  1. [वै] परबुद्धास ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम विस्मिताः पुरुषा वयाघ्रा बभूवुः पृथया सह ॥ 1 ॥

  2. ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा उवाच मधुरं वाक्यं सान्त्वपूर्वम इदं शनैः ॥ 2 ॥

  3. कस्य तवं सुरगर्भाभे का चासि वरवर्णिनि केन कार्येण सुश्रॊणि कुतश चागमनं तव ॥ 3 ॥

  4. यदि वास्य वनस्यासि देवता यदि वाप्सराः आचक्ष्व मम तत सर्वं किमर्थं चेह तिष्ठसि ॥ 4 ॥

  5. [हिडिम्बा] यद एतत पश्यसि वनं नीलमेघनिभं महत निवासॊ राक्षसस्यैतद धिडिम्बस्य ममैव च ॥ 5 ॥

  6. तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि भरात्रा संप्रेषिताम आर्ये तवां सपुत्रां जिघांसता ॥ 6 ॥

  7. करूर बुद्धेर अहं तस्य वचनाद आगता इह अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम ॥ 7 ॥

  8. ततॊ ऽहं सर्वभूतानां भावे विचरता शुभे चॊदिता तव पुत्रस्य मन्मथेन वशानुगा ॥ 8 ॥

  9. ततॊ वृतॊ मया भर्ता तव पुत्रॊ महाबलः अपनेतुं च यतितॊ न चैव शकितॊ मया ॥ 9 ॥

  10. चिरायमाणां मां जञात्वा ततः स पुरुषादकः सवयम एवागतॊ हन्तुम इमान सर्वांस तवात्मजान ॥ 10 ॥

  11. स तेन मम कान्तेन तव पुत्रेण धीमता बलाद इतॊ विनिष्पिष्य वयपकृष्टॊ महात्मना ॥ 11 ॥

  12. विकर्षन्तौ महावेगौ गर्जमानौ परस्परम पश्यध्वं युधि विक्रान्ताव एतौ तौ नरराक्षसौ ॥ 12 ॥

  13. [वै] तस्या शरुत्वैव वचनम उत्पपात युधिष्ठिरः अर्जुनॊ नकुलश चैव सहदेवश च वीर्यवान ॥ 13 ॥

  14. तौ ते ददृशुर आसक्तौ विकर्षन्तौ परस्परम काङ्क्षमाणौ जयं चैव सिंहाव इव रणॊत्कटौ ॥ 14 ॥

  15. ताव अन्यॊन्यं समाश्लिष्य विकर्षन्तौ परस्परम दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥ 15 ॥

  16. वसुधा रेणुसंवीतौ वसुधाधरसंनिभौ विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥ 16 ॥

  17. राक्षसेन तथा भीमं कलिश्यमानं निरीक्ष्य तु उवाचेदं वचः पार्थः परहसञ शनकैर इव ॥ 17 ॥

  18. भीम मा भैर महाबाहॊ न तवां बुध्यामहे वयम समेतं भीमरूपेण परसुप्ताः शरमकर्शिताः ॥ 18 ॥

  19. साहाय्ये ऽसमि सथितः पार्थ यॊधयिष्यामि राक्षसम नकुलः सहदेवश च मातरं गॊपयिष्यति ॥ 19 ॥

  20. [भम] उदासीनॊ निरीक्षस्व न कार्यः संभ्रमस तवया न जात्व अयं पुनर जीवेन मद्बाह्वन्तरम आगतः ॥ 20 ॥

  21. [आर्ज] किम अनेन चिरं भीम जीवता पापरक्षसा गन्तव्यं नचिरं सथातुम इह शक्यम अरिंदम ॥ 21 ॥

  22. पुरा संरज्यते पराची पुरा संध्या परवर्तते रौद्रे मुहूर्ते रक्षांसि परबलानि भवन्ति च ॥ 22 ॥

  23. तवरस्व भीम मा करीड जहि रक्षॊ विभीषणम पुरा विकुरुते मायां भुजयॊः सारम अर्पय ॥ 23 ॥

  24. [वै] अर्जुनेनैवम उक्तस तु भीमॊ भीमस्य रक्षसः उत्क्षिप्याभ्रामयद देहं तूर्णं गुणशताधिकम ॥ 24 ॥

  25. [भम] वृथा मांसैर वृथा पुष्टॊ वृथा वृद्धॊ वृथा मतिः वृथा मरणम अर्हस तवं वृथाद्य न भविष्यसि ॥ 25 ॥

  26. [आर्ज] अथ वा मन्यसे भारं तवम इमं राक्षसं युधि करॊमि तव साहाय्यं शीघ्रम एव निहन्यताम ॥ 26 ॥

  27. अथ वाप्य अहम एवैनं हनिष्यामि वृकॊदर कृतकर्मा परिश्रान्तः साधु तावद उपारम ॥ 27 ॥

  28. [वै] तस्य तद वचनं शरुत्वा भीमसेनॊ ऽतयमर्षणः निष्पिष्यैनं बलाद भूमौ पशुमारम अमारयत ॥ 28 ॥

  29. स मार्यमाणॊ भीमेन ननाद विपुलं सवनम पूरयंस तद वनं सर्वं जलार्द्र इव दुन्दुभिः ॥ 29 ॥

  30. भुजाभ्यां यॊक्त्रयित्वा तं बलवान पाण्डुनन्दनः मध्ये भङ्क्त्वा सबलवान हर्षयाम आस पाण्डवान ॥ 30 ॥

  31. हिडिम्बं निहतं दृष्ट्वा संहृष्टास ते तरस्विनः अपूजयन नरव्याघ्रं भीमसेनम अरिंदमम ॥ 31 ॥

  32. अभिपूज्य महात्मानं भीमं भीमपराक्रमम पुनर एवार्जुनॊ वाक्यम उवाचेदं वृकॊदरम ॥ 32 ॥

  33. नदूरे नगरं मन्ये वनाद अस्माद अहं परभॊ शीघ्रं गच्छाम भद्रं ते न नॊ विद्यात सुयॊधनः ॥ 33 ॥

  34. ततः सर्वे तथेत्य उक्त्वा सह मात्रा परंतपाः परययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 143

Previous: अध्याय 141