धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 141

  1. [वै] भीमसेनस तु तं दृष्ट्वा राक्षसं परहसन्न इव भगिनीं परति संक्रुद्धम इदं वचनम अब्रवीत ॥ 1 ॥

  2. किं ते हिडिम्ब एतैर वा सुखसुप्तैः परबॊधितैः माम आसादय दुर्बुद्धे तरसा तवं नराशन ॥ 2 ॥

  3. मय्य एव परहरैहि तवं न सत्रियं हन्तुम अर्हसि विशेषतॊ ऽनपकृते परेणापकृते सति ॥ 3 ॥

  4. न हीयं सववशा बाला कामयत्य अद्य माम इह चॊदितैषा हय अनङ्गेन शरीरान्तर चारिणा भगिनी तव दुर्बुद्धे राक्षसानां यशॊहर ॥ 4 ॥

  5. तवन नियॊगेन चैवेयं रूपं मम समीक्ष्य च कामयत्य अद्य मां भीरुर नैषा दूषयते कुलम ॥ 5 ॥

  6. अनङ्गेन कृते दॊषे नेमां तवम इह राक्षस मयि तिष्ठति दुष्टात्मन न सत्रियं हन्तुम अर्हसि ॥ 6 ॥

  7. समागच्छ मया सार्धम एकेनैकॊ नराशन अहम एव नयिष्यामि तवाम अद्य यमसादनम ॥ 7 ॥

  8. अद्य ते तलनिष्पिष्टं शिरॊ राक्षस दीर्यताम कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥ 8 ॥

  9. अद्य गात्राणि करव्यादाः शयेना गॊमायवश च ते कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥ 9 ॥

  10. कषणेनाद्य करिष्ये ऽहम इदं वनम अकण्टकम पुरस्ताद दूषितं नित्यं तवया भक्षयता नरान ॥ 10 ॥

  11. अद्य तवां भगिनी पापकृष्यमाणं मया भुवि दरक्षत्य अद्रिप्रतीकाशं सिंहेनेव महाद्विपम ॥ 11 ॥

  12. निराबाधास तवयि हते मया राक्षसपांसन वनम एतच चरिष्यन्ति पुरुषा वनचारिणः ॥ 12 ॥

  13. [हि] गर्जितेन वृथा किं ते कत्थितेन च मानुष कृत्वैतत कर्मणा सर्वं कत्थेथा माचिरं कृथाः ॥ 13 ॥

  14. बलिनं मन्यसे यच च आत्मानम अपराक्रमम जञास्यस्य अद्य समागम्य मयात्मानं बलाधिकम ॥ 14 ॥

  15. न तावद एतान हिंसिष्ये सवपन्त्व एते यथासुखम एष तवाम एव दुर्बुद्धे निहन्म्य अद्याप्रियं वदम ॥ 15 ॥

  16. पीत्वा तवासृग गात्रेभ्यस ततः पश्चाद इमान अपि हनिष्यामि ततः पश्चाद इमां विप्रियकारिणीम ॥ 16 ॥

  17. [वै] एवम उक्त्वा ततॊ बाहुं परगृह्या पुरुषादकः अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम ॥ 17 ॥

  18. तस्याभिपततस तूर्णं भीमॊ भीमपराक्रमः वेगेन परहृतं बाहुं निजग्राह हसन्न इव ॥ 18 ॥

  19. निगृह्य तं बलाद भीमॊ विस्फुरन्तं चकर्ष ह तस्माद देशाद धनूंष्य अष्टौ सिंहः कषुद्रमृगं यथा ॥ 19 ॥

  20. ततः स राक्षसः करुद्धः पाण्डवेन बलाद धृतः भीमसेनं समालिङ्ग्य वयनदद भैरवं रवम ॥ 20 ॥

  21. पुनर भीमॊ बलाद एनं विचकर्ष महाबलः मा शब्दः सुखसुप्तानां भरातॄणां मे भवेद इति ॥ 21 ॥

  22. अन्यॊन्यं तौ समासाद्य विचकर्षतुर ओजसा राक्षसॊ भीमसेनश च विक्रमं चक्रतुः परम ॥ 22 ॥

  23. बभञ्जतुर महावृक्षाँल लताश चाकर्षतुस ततः मत्ताव इव सुसंरब्धौ वारणौ षष्टिहायनौ ॥ 23 ॥

  24. तयॊः शब्देन महता विबुद्धास ते नरर्षभाः सह मात्रा तु ददृशुर हिडिम्बाम अग्रतः सथिताम ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 142

Previous: अध्याय 140