[वै] तां विदित्वा चिरगतां हिडिम्बॊ राक्षसेश्वरः अवतीर्य दरुमात तस्माद आजगामाथ पाण्डवान ॥ 1 ॥
लॊहिताक्षॊ महाबाहुर ऊर्ध्वकेशॊ महाबलः मेघसंघात वर्ष्मा च तीष्क्णदंष्ट्रॊज्ज्वलाननः ॥ 2 ॥
तम आपतन्तं दृट्वैव तथा विकृतदर्शनम हिडिम्बॊवाच वित्रस्ता भीमसेनम इदं वचः ॥ 3 ॥
आपतत्य एष दुष्टात्मा संक्रुद्धः पुरुषादकः तवाम अहं भरातृभिः सार्धं यद बरवीमि तथा कुरु ॥ 4 ॥
अहं कामगमा वीर रक्षॊबलसमन्विता आरुहेमां मम शरॊणीं नेष्यामि तवां विहायसा ॥ 5 ॥
परबॊधयैनान संसुप्तान मातरं च परंतप सर्वान एव गमिष्यामि गृहीत्वा वॊ विहायसा ॥ 6 ॥
[भम] मा भैस तवं विपुलश्रॊणिनैष कश चिन मयि सथिते अहम एनं हनिष्यामि परेक्षन्त्यास ते सुमध्यमे ॥ 7 ॥
नायं परतिबलॊ भीरु राक्षसापसदॊ मम सॊढुं युधि परिस्पन्दम अथ वा सर्वराक्षसाः ॥ 8 ॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाव इमौ ऊरू परिघसंकाशौ संहतं चाप्य उरॊ मम ॥ 9 ॥
विक्रमं मे यथेन्द्रस्य साद्य दरक्ष्यसि शॊभने मावमंस्थाः पृथुश्रॊणिमत्वा माम इह मानुषम ॥ 10 ॥
[हि] नावमन्ये नरव्याघ्र ताम अहं देवरूपिणम दृष्टापदानस तु मया मानुषेष्व एव राक्षसः ॥ 11 ॥
[वै] तथा संजल्पतस तस्य भीमसेनस्य भारत वाचः शुश्राव ताः करुद्धॊ राक्षसः पुरुषादकः ॥ 12 ॥
अवेक्षमाणस तस्याश च हिडिम्बॊ मानुषं वपुः सरग्दाम पूरितशिखं समग्रेन्दु निभाननम ॥ 13 ॥
सुभ्रू नासाक्षि केशान्तं सुकुमारनख तवचम सर्वाभरणसंयुक्तं सुसूक्ष्माम्बर वाससम ॥ 14 ॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनॊरहम पुंस्कामां शङ्कमानश च चुक्रॊध पुरुषादकः ॥ 15 ॥
संक्रुद्धॊ राक्षसस तस्या भगिन्याः कुरुसत्तम उत्फाल्य विपुले नेत्रे ततस ताम इदम अब्रवीत ॥ 16 ॥
कॊ हि मे भॊक्तुकामस्या विघ्नं चरति दुर्मतिः न बिभेषि हिडिम्बे किं मत कॊपाद विप्रमॊहिता ॥ 17 ॥
धिक तवाम असति पुंस्कामे मम विप्रियकारिणि पूर्वेषां राक्षसेन्द्राणां सर्वेषाम अयशः करि ॥ 18 ॥
यान इमान आश्रिताकार्षीर अप्रियं सुमहन मम एष तान अद्य वै सर्वान हनिष्यामि तवया सह ॥ 19 ॥
एवम उक्त्वा हिडिम्बां स हिडिम्बॊ लॊहितेक्षणः वधायाभिपपातैनां दन्तैर दन्तान उपस्पृशन ॥ 20 ॥
तम आपतन्तं संप्रेक्ष्य भीमः परहरतां वरः भर्त्सयाम आस तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत ॥ 21 ॥
आदिपर्व · Adi Parva
अध्याय 140
Reach this point to mark the section finished.
Continue to अध्याय 141