धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 139

  1. [वै] तत्र तेषु शयानेषु हिडिम्बॊ नाम राक्षसः अविदूरे वनात तस्माच छाल वृक्षम उपाश्रितः ॥ 1 ॥

  2. करूरॊ मानुषमांसादॊ महावीर्यॊ महाबलः विरूपरूपः पिङ्गाक्षः करालॊ घॊरदर्शनः पिशितेप्सुः कषुधार्तस तान अपश्यत यदृच्छया ॥ 2 ॥

  3. ऊर्ध्वाङ्गुलिः स कण्डूयन धुन्वन रूक्षाञ शिरॊरुहान जृम्भमाणॊ महावक्रः पुनः पुनर अवेक्ष्य च ॥ 3 ॥

  4. दुष्टॊ मानुषमांसादॊ महाकायॊ महाबलः आघ्राय मानुषं गन्धं भगिनीम इदम अब्रवीत ॥ 4 ॥

  5. उपपन्नश चिरस्याद्य भक्षॊ मम मनःप्रियः सनेहस्रवान परस्रवति जिह्वा पर्येति मे मुखम ॥ 5 ॥

  6. अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश चिरस्यापात दुःसहाः देहेषु मज्जयिष्यामि सनिग्धेषु पिशितेषु च ॥ 6 ॥

  7. आक्रम्य मानुषं कण्ठम आच्छिद्य धमनीम अपि उष्णं नवं परपास्यामि फेनिलं रुधिरं बहु ॥ 7 ॥

  8. गच्छ जानीहि के तव एते शेरते वनम आश्रिताः मानुषॊ बलवान गन्धॊ घराणं तर्पयतीव मे ॥ 8 ॥

  9. हत्वैतान मानुषान सर्वान आनयस्व ममान्तिकम अस्मद विषयसुप्तेभ्यॊ नैतेभ्यॊ भयम अस्ति ते ॥ 9 ॥

  10. एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः भक्षयिष्याव सहितौ कुरु तूर्णं वचॊ मम ॥ 10 ॥

  11. भरातुर वचनम आज्ञाय तवरमाणेव राक्षसी जगाम तत्र यत्र सम पाण्डवा भरतर्षभ ॥ 11 ॥

  12. ददर्श तत्र गत्वा सा पाण्डवान पृथया सह शयानान भीमसेनं च जाग्रतं तव अपराजितम ॥ 12 ॥

  13. दृष्ट्वैव भीमसेनं सा शालस्कन्धम इवॊद्गतम राक्षसी कामयाम आस रूपेणाप्रतिमं भुवि ॥ 13 ॥

  14. अयं शयामॊ महाबाहुः सिंहस्कन्धॊ महाद्युतिः कम्बुग्रीवः पुष्कराक्षॊ भर्ता युक्तॊ भवेन मम ॥ 14 ॥

  15. नाहं भरातृवचॊ जातु कुर्यां करूरॊपसंहितम पतिस्नेहॊ ऽतिबलवान न तथा भरातृसौहृदम ॥ 15 ॥

  16. मुहूर्तम इव तृप्तिश च भवेद भरातुर ममैव च हतैर एतैर अहत्वा तु मॊदिष्ये शाश्वतिः समाः ॥ 16 ॥

  17. सा कामरूपिणी रूपं कृत्वा मानुषम उत्तमम उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥ 17 ॥

  18. विलज्जमानेव लता दिव्याभरणभूषिता समितपूर्वम इदं वाक्यं भीमसेनम अथाब्रवीत ॥ 18 ॥

  19. कुतस तवम असि संप्राप्तः कश चासि पुरुषर्षभ क इमे शेरते चेह पुरुषा देवरूपिणः ॥ 19 ॥

  20. केयं च बृहती शयामा सुकुमारी तवानघ शेते वनम इदं पराप्य विश्वस्ता सवगृहे यथा ॥ 20 ॥

  21. नेदं जानाति गहनं वनं राक्षससेवितम वसति हय अत्र पापात्मा हिडिम्बॊ नाम राक्षसः ॥ 21 ॥

  22. तेनाहं परेषिता भरात्रा दुष्टभावेन रक्षसा बिभक्षयिषता मांसं युस्माकम अमरॊपम ॥ 22 ॥

  23. साहं तवाम अभिसंप्रेक्ष्य देवगर्भसमप्रभम नान्यं भर्तारम इच्छामि सत्यम एतद बरवीमि ते ॥ 23 ॥

  24. एतद विज्ञाय धर्मज्ञ युक्तं मयि समाचर कामॊपहत चित्ताङ्गीं भजमानां भजस्व माम ॥ 24 ॥

  25. तरास्ये ऽहं तवां महाबाहॊ राक्षसात पुरुषादकात वत्स्यावॊ गिरिदुर्गेषु भर्ता भव ममानघ ॥ 25 ॥

  26. अन्तरिक्षचरा हय अस्मि कामतॊ विचरामि च अतुलाम आप्नुहि परीतिं तत्र तत्र मया सह ॥ 26 ॥

  27. [भम] मातरं भरातरं जयेष्ठं कनिष्ठान अपरान इमान परित्यजेत कॊ नव अद्य परभवन्न इव राक्षसि ॥ 27 ॥

  28. कॊ हि सुप्तान इमान भरातॄन दत्त्वा राक्षस भॊजनम मातरं च नरॊ गच्छेत कामार्त इव मद्विधः ॥ 28 ॥

  29. [राक्स] यत ते परियं तत करिष्ये सर्वान एतान परबॊधय मॊक्षयिष्यामि वः कामं राक्षसात पुरुषादकात ॥ 29 ॥

  30. [भम] सुखसुप्तान वने भरातॄन मातरं चैव राक्षसि न भयाद बॊधयिष्यामि भरातुस तव दुरात्मनः ॥ 30 ॥

  31. न हि मे राक्षसा भीरु सॊढुं शक्ताः पराक्रमम न मनुष्या न गन्धर्वा न यक्षाश चारुलॊचने ॥ 31 ॥

  32. गच्छ वा तिष्ठ वा भद्रे यद वापीच्छसि तत कुरु तं वा परेषय तन्व अङ्गि भरातरं पुरुषादकम ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 140

Previous: अध्याय 138