किमर्थं राजशार्दूल स राजा जनमेजयः सर्पसत्रेण सर्पाणां गतॊ ऽनतं तद वदस्व मे ॥ 1 ॥
आस्तीकश च दविजश्रेष्ठः किमर्थं जपतां वरः मॊक्षयाम आस भुजगान दीप्तात तस्माद धुताशनात ॥ 2 ॥
कस्य पुत्रः स राजासीत सर्पसत्रं य आहरत स च दविजातिप्रवरः कस्य पुत्रॊ वदस्व मे ॥ 3 ॥
[स] महद आख्यानम आस्तीकं यत्रैतत परॊच्यते दविज सर्वम एतद अशेषेण शृणु मे वदतां वर ॥ 4 ॥
[ष] शरॊतुम इच्छाम्य अशेषेण कथाम एतां मनॊरमाम आस्तीकस्य पुराणस्य बराह्मणस्य यशस्विनः ॥ 5 ॥
[स] इतिहासम इमं वृद्धाः पुराणं परिचक्षते कृष्णद्वैपायन परॊक्तं नैमिषारण्यवासिनः ॥ 6 ॥
पूर्वं परचॊदितः सूतः पिता मे लॊमहर्षणः शिष्यॊ वयासस्य मेधावी बराह्मणैर इदम उक्तवान ॥ 7 ॥
तस्माद अहम उपश्रुत्य परवक्ष्यामि यथातथम इदम आस्तीकम आख्यानं तुभ्यं शौनक पृच्छते ॥ 8 ॥
आस्तीकस्य पिता हय आसीत परजापतिसमः परभुः बरह्म चारी यताहारस तपस्य उग्रे रतः सदा ॥ 9 ॥
जरत्कारुर इति खयात ऊर्ध्वरेता महान ऋषिः यायावराणां धर्मज्ञः परवरः संशितव्रतः ॥ 10 ॥
अटमानः कदा चित स सवान ददर्श पितामहान लम्बमानान महागर्ते पादैर ऊर्ध्वैर अधॊमुखान ॥ 11 ॥
तान अब्रवीत स दृष्ट्वैव जरत्कारुः पितामहान के भवन्तॊ ऽवलम्बन्ते गर्ते ऽसमिन वा अधॊमुखाः ॥ 12 ॥
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते मूषकेन निगूढेन गर्ते ऽसमिन नित्यवासिना ॥ 13 ॥
[पितरह] यायावरा नाम वयम ऋषयः संशितव्रताः संतानप्रक्षयाद बरह्मन्न अधॊ गच्छाम मेदिनीम ॥ 14 ॥
अस्माकं संततिस तव एकॊ जरत्कारुर इति शरुतः मन्दभाग्यॊ ऽलपभाग्यानां तप एव समास्थितः ॥ 15 ॥
न सपुत्राञ जनयितुं दारान मूढश चिकीर्षति तेन लम्बामहे गर्ते संतानप्रक्षयाद इह ॥ 16 ॥
अनाथास तेन नाथेन यथा दुष्कृतिनस तथा कस तवं बन्धुर इवास्माकम अनुशॊचसि सत्तम ॥ 17 ॥
जञातुम इच्छामहे बरह्मन कॊ भवान इह धिष्ठितः किमर्थं चैव नः शॊच्यान अनुकम्पितुम अर्हसि ॥ 18 ॥
[ज] मम पूर्वे भवन्तॊ वै पितरः सपितामहाः बरूत किं करवाण्य अद्य जरत्कारुर अहं सवयम ॥ 19 ॥
[प] यतस्व यत्नवांस तात संतानाय कुलस्य नः आत्मनॊ ऽरथे ऽसमदर्थे च धर्म इत्य एव चाभिभॊ ॥ 20 ॥
न हि धर्मफलैस तात न तपॊभिः सुसंचितैः तां गतिं पराप्नुवन्तीह पुत्रिणॊ यां वरजन्ति ह ॥ 21 ॥
तद दारग्रहणे यत्नं संतत्यां च मनः कुरु पुत्रकास्मन नियॊगात तवम एतन नः परमं हितम ॥ 22 ॥
[ज] न दारान वै करिष्यामि सदा मे भावितं मनः भवतां तु हितार्थाय करिष्ये दारसंग्रहम ॥ 23 ॥
समयेन च कर्ताहम अनेन विधिपूर्वकम तथा यद्य उपलप्स्यामि करिष्ये नान्यथा तव अहम ॥ 24 ॥
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः भैक्षवत ताम अहं कन्याम उपयंस्ये विधानतः ॥ 25 ॥
दरिद्राय हि मे भार्यां कॊ दास्यति विशेषतः परतिग्रहीष्ये भिक्षां तु यदि कश चित परदास्यति ॥ 26 ॥
एवं दारक्रिया हेतॊः परयतिष्ये पितामहाः अनेन विधिना शश्वन न करिष्ये ऽहम अन्यथा ॥ 27 ॥
तत्र चॊत्पत्स्यते जन्तुर भवतां तारणाय वै शाश्वतं सथानम आसाद्य मॊदन्तां पितरॊ मम ॥ 28 ॥
[स] ततॊ निवेशाय तदा स विप्रः संशितव्रतः महीं चचार दारार्थी न च दारान अविन्दत ॥ 29 ॥
स कदा चिद वनं गत्वा विप्रः पितृवचः समरन चुक्रॊश कन्या भिक्षार्थी तिस्रॊ वाचः शनैर इव ॥ 30 ॥
तं वासुकिः परत्यगृह्णाद उद्यम्य भगिनीं तदा न स तां परतिजग्राह न सनाम्नीति चिन्तयन ॥ 31 ॥
सनाम्नीम उद्यतां भार्यां गृह्णीयाम इति तस्य हि मनॊ निविष्टम अभवज जरत्कारॊर महात्मनः ॥ 32 ॥
तम उवाच महाप्राज्ञॊ जरत्कारुर महातपाः किंनाम्नी भगिनीयं ते बरूहि सत्यं भुजंगम ॥ 33 ॥
[वा] जरत्कारॊ जरत्कारुः सवसेयम अनुजा मम तवदर्थं रक्षिता पूर्वं परतीच्छेमां दविजॊत्तम ॥ 34 ॥
[स] मात्रा हि भुजगाः शप्ताः पूर्वं बरह्म विदां वर जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः ॥ 35 ॥
तस्य शापस्य शान्त्य अर्थं परददौ पन्नगॊत्तमः सवसारम ऋषये तस्मै सुव्रताय तपस्विने ॥ 36 ॥
स च तां परतिजग्राह विधिदृष्टेन कर्मणा आस्तीकॊ नाम पुत्रश च तस्यां जज्ञे महात्मनः ॥ 37 ॥
तपस्वी च महात्मा च वेदवेदाङ्गपारगः समः सर्वस्य लॊकस्य पितृमातृभयापहः ॥ 38 ॥
अथ कालस्य महतः पाण्डवेयॊ नराधिपः आजहार महायज्ञं सर्पसत्रम इति शरुतिः ॥ 39 ॥
तस्मिन परवृत्ते सत्रे तु सर्पाणाम अन्तकाय वै मॊचयाम आस तं शापम आस्तीकः सुमहायशाः ॥ 40 ॥
नागांश च मातुलांश चैव तथा चान्यान स बान्धवान पितॄंश च तारयाम आस संतत्या तपसा तथा वरतैश च विविधैर बरह्म सवाध्यायैश चानृणॊ ऽभवत ॥ 41 ॥
देवांश च तर्पयाम आस यज्ञैर विविधदक्षिणैः ऋषींश च बरह्मचर्येण संतत्या च पितामहान ॥ 42 ॥
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः जरत्कारुर गतः सवर्गं सहितः सवैः पितामहैः ॥ 43 ॥
आस्तीकं च सुतं पराप्य धर्मं चानुत्तमं मुनिः जरत्कारुः सुमहता कालेन सवर्गम ईयिवान ॥ 44 ॥
एतद आख्यानम आस्तीकं यथावत कीर्तितं मया परब्रूहि भृगुशार्दूल किं भूयः कथ्यताम इति ॥ 45 ॥
आदिपर्व · Adi Parva
अध्याय 13
Reach this point to mark the section finished.
Continue to अध्याय 14