धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 137

  1. [वै] अथ रात्र्यां वयतीतायाम अशॊषॊ नागरॊ जनः तत्राजगाम तवरितॊ दिदृक्षुः पाण्डुनन्दनान ॥ 1 ॥

  2. निर्वापयन्तॊ जवलनं ते जना ददृशुस ततः जातुषं तद्गृहं दग्धम अमात्यं च पुरॊचनम ॥ 2 ॥

  3. नूनं दुर्यॊधनेनेदं विहितं पापकर्मणा पाण्डवानां विनाशाय इत्य एवं चुक्रुषुर जनाः ॥ 3 ॥

  4. विदिते धृतराष्ट्रस्य धार्तराष्ट्रॊ न संशयः दग्धवान पाण्डुदायादान न हय एनं परतिषिद्धवान ॥ 4 ॥

  5. नूनं शांतनवॊ भीष्मॊ न धर्मम अनुवर्तते दरॊणश च विदुरश चैव कृपश चान्ये च कौरवाः ॥ 5 ॥

  6. ते वयं धृतराष्ट्रस्य परेषयामॊ दुरात्मनः संवृत्तस ते परः कामः पाण्डवान दग्धवान असि ॥ 6 ॥

  7. ततॊ वयपॊहमानास ते पाण्डवार्थे हुताशनम निषादीं ददृशुर दग्धां पञ्च पुत्राम अनागसम ॥ 7 ॥

  8. खनकेन तु तेनैव वेश्म शॊधयता बिलम पांसुभिः परत्यपिहितं पुरुषैस तैर अलक्षितम ॥ 8 ॥

  9. ततस ते परेषयाम आसुर धृतराष्ट्रस्य नागराः पाण्डवान अग्निना दग्धान अमात्यं च पुरॊचनम ॥ 9 ॥

  10. शरुत्वा तु धृतराष्ट्रस तद राजा सुमहद अप्रियम विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ 10 ॥

  11. अद्य पाण्डुर मृतॊ राजा भराता मम सुदुर्लभः तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ 11 ॥

  12. गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम सत्कारयन्तु तान वीरान कुन्ति राजसुतां च ताम ॥ 12 ॥

  13. कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च ये च तत्र मृतास तेषां सुहृदॊ ऽरचन्तु तान अपि ॥ 13 ॥

  14. एवंगते मया शक्यं यद यत कारयितुं हितम पाण्डवानां च कुन्त्याश च तत सर्वं करियतां धनैः ॥ 14 ॥

  15. एवम उक्त्वा ततश चक्रे जञातिभिः परिवारितः उदकं पाण्डुपुत्राणां धृतराष्ट्रॊ ऽमबिका सुतः ॥ 15 ॥

  16. चुक्रुशुः कौरवाः सर्वे भृशं शॊकपरायणाः विदुरस तव अल्पशश चक्रे शॊकं वेद परं हि सः ॥ 16 ॥

  17. पाण्डवाश चापि निर्गत्य नगराद वारणावतात जवेन परययू राजन दक्षिणां दिशम आश्रिताः ॥ 17 ॥

  18. विज्ञाय निशि पन्थानं नक्षत्रैर दक्षिणामुखाः यतमाना वनं राजन गहनं परतिपेदिरे ॥ 18 ॥

  19. ततः शरान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः पुनर ऊचुर महावीर्यं भीमसेनम इदं वचः ॥ 19 ॥

  20. इतः कष्टतरं किं नु यद वयं गहने वने दिशश च न परजानीमॊ गन्तुं चैव न शक्रुमः ॥ 20 ॥

  21. तं च पापं न जानीमॊ यदि दग्धः पुरॊचनः कथं नु विप्रमुच्येम भयाद अस्माद अलक्षिताः ॥ 21 ॥

  22. पुनर अस्मान उपादाय तथैव वरज भारत तवं हि नॊ बलवान एकॊ यथा सततगस तथा ॥ 22 ॥

  23. इत्य उक्तॊ धर्मराजेन भीमसेनॊ महाबलः आदाय कुन्तीं भरातॄंश च जगामाशु महाबलः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 138

Previous: अध्याय 136