[वै] विदुरस्य सुहृत कश चित खनकः कुशलः कव चित विविक्ते पाण्डवान राजन्न इदं वचनम अब्रवीत ॥ 1 ॥
परहितॊ विदुरेणास्मि खनकः कुशलॊ भृशम पाण्डवानां परियं कार्यम इति किं करवाणि वः ॥ 2 ॥
परच्छन्नं विदुरेणॊक्तः शरेयस तवम इह पाण्डवान परतिपादय विश्वासाद इति किं करवाणि वः ॥ 3 ॥
कृष्णपक्षे चतुर्दश्यां रात्राव अस्य पुरॊचनः भवनस्य तव दवारि परदास्यति हुताशनम ॥ 4 ॥
मात्रा सह परदग्धव्याः पाण्डवाः पुरुषर्षभाः इति वयवसितं पार्थ धार्तराष्ट्रस्य मे शरुतम ॥ 5 ॥
किं चिच च विदुरेणॊक्तॊ मलेच्छ वाचासि पाण्डव तवया च तत तथेत्य उक्तम एतद विश्वासकारणम ॥ 6 ॥
उवाच तं सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः अभिजानामि सौम्य तवां सुहृदं विदुरस्य वै ॥ 7 ॥
शुचिम आप्तं परियं चैव सदा च दृढभक्तिकम न विद्यते कवेः किं चिद अभिज्ञानप्रयॊजनम ॥ 8 ॥
यथा नः स तथा नस तवं निर्विशेषा वयं तवयि भवतः सम यथा तस्य पालयास्मान यथा कविः ॥ 9 ॥
इदं शरणम आग्नेयं मदर्थम इति मे मतिः पुरॊचनेन विहितं धार्तराष्ट्रस्य शासनात ॥ 10 ॥
स पापः कॊशवांश चैव ससहायश च दुर्मतिः अस्मान अपि च दुष्टात्मा नित्यकालं परबाधते ॥ 11 ॥
स भवान मॊक्षयत्व अस्मान यत्नेनास्माद धुताशनात अस्मास्व इह हि दग्धेषु सकामः सयात सुयॊधनः ॥ 12 ॥
समृद्धम आयुधागारम इदं तस्य दुरात्मनः वप्रान्ते निष्प्रतीकारम आश्लिष्येदं कृतं महत ॥ 13 ॥
इदं तद अशुभं नूनं तस्य कर्म चिकीर्षितम पराग एव विदुरॊ वेद तेनास्मान अन्वबॊधयत ॥ 14 ॥
सेयम आपद अनुप्राप्ता कषत्ता यां दृष्टवान पुरा पुरॊचनस्याविदितान अस्मांस तवं विप्रमॊचय ॥ 15 ॥
स तथेति परतिश्रुत्य खनकॊ यत्नम आस्थितः परिखाम उत्किरन नाम चकार सुमहद बिलम ॥ 16 ॥
चक्रे च वेश्मनस तस्य मध्ये नातिमहन मुखम कपाटयुक्तम अज्ञातं समं भूम्या च भारत ॥ 17 ॥
पुरॊचन भयाच चैव वयदधात संवृतं मुखम स तत्र च गृहद्वारि वसत्य अशुभ धीः सदा ॥ 18 ॥
तत्र ते सायुधाः सर्वे वसन्ति सम कषपां नृप दिवा चरन्ति मृगयां पाण्डवेया वनाद वनम ॥ 19 ॥
विश्वस्तवद अविश्वस्ता वञ्चयन्तः पुरॊचनम अतुष्टास तुष्टवद राजन्न ऊषुः परमदुःखिताः ॥ 20 ॥
न चैनान अन्वबुध्यन्त नरा नगरवासिनः अन्यत्र विदुरामात्यात तस्मात खनक सत्तमात ॥ 21 ॥
आदिपर्व · Adi Parva
अध्याय 135
Reach this point to mark the section finished.
Continue to अध्याय 136