[वै] ततः सर्वाः परकृतयॊ नगराद वारणावतात सर्वमङ्गल संयुक्ता यथाशास्त्रम अतन्द्रिताः ॥ 1 ॥
शरुत्वागतान पाण्डुपुत्रान नाना यानैः सहस्रशः अभिजग्मुर नरश्रेष्ठाञ शरुत्वैव परया मुदा ॥ 2 ॥
ते समासाद्य कौन्तेयान वारणावतका जनाः कृत्वा जयाशिषः सर्वे परिवार्यॊपतस्थिरे ॥ 3 ॥
तैर वृतः पुरुषव्याघ्रॊ धर्मराजॊ युधिष्ठिरः विबभौ देवसंकाशॊ वज्रपाणिर इवामरैः ॥ 4 ॥
सत्कृतास ते तु पौरैश च पौरान सत्कृत्य चानघाः अलंकृतं जनाकीर्णं विविशुर वारणावतम ॥ 5 ॥
ते परविश्य पुरं वीरास तूर्णं जग्मुर अथॊ गृहान बराह्मणानां महीपाल रतानां सवेषु कर्मसु ॥ 6 ॥
नगराधिकृतानां च गृहाणि रथिनां तथा उपतस्थुर नरश्रेष्ठा वैश्यशूद्र गृहान अपि ॥ 7 ॥
अर्चिताश च नरैः पौरैः पाण्डवा भरतर्षभाः जग्मुर आवसथं पश्चात पुरॊचन पुरस्कृताः ॥ 8 ॥
तेभ्यॊ भक्ष्यान्नपानानि शयनानि शुभानि च आसनानि च मुख्यानि परददौ स पुरॊचनः ॥ 9 ॥
तत्र ते सत्कृतास तेन सुमहार्ह परिच्छदाः उपास्यमानाः पुरुषैर ऊषुः पुरनिवासिभिः ॥ 10 ॥
दशरात्रॊषितानां तु तत्र तेषां पुरॊचनः निवेदयाम आस गृहं शिवाख्यम अशिवं तदा ॥ 11 ॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः पुरॊचनस्य वचनात कैलासम इव गुह्यकाः ॥ 12 ॥
तत तव अगारम अभिप्रेक्ष्य सर्वधर्मविशारदः उवाचाग्नेयम इत्य एवं भीमसेनं युधिष्ठिरः जिघ्रन सॊम्य वसा गन्धं सर्पिर जतु विमिश्रितम ॥ 13 ॥
कृतं हि वयक्तम आग्नेयम इदं वेश्म परंतप शणसर्जरसं वयक्तम आनीतं गृहकर्मणि मुञ्ज बल्वज वंशादि दरव्यं सर्वं घृतॊक्षितम ॥ 14 ॥
शिल्पिभिः सुकृतं हय आप्तैर विनीतैर वेश्म कर्मणि विश्वस्तं माम अयं पापॊ दग्धकामः पुरॊचनः ॥ 15 ॥
इमां तु तां महाबुद्धिर विदुरॊ दृष्टवांस तदा इमां तु तां महाबुद्धिर विदुरॊ दृष्टवान पुरा ॥ 16 ॥
ते वयं बॊधितास तेन बुद्धवन्तॊ ऽशिवं गृहम आचार्यैः सुकृतं गूढैर दुर्यॊधन वशानुगैः ॥ 17 ॥
[भम] यद इदं गृहम आग्नेयं विहितं मन्यते भवान तत्रैव साधु गच्छामॊ यत्र पूर्वॊषिता वयम ॥ 18 ॥
[य] इह यत तैर निराकारैर वस्तव्यम इति रॊचये नष्टैर इव विचिन्वद्भिर गतिम इष्टां धरुवाम इतः ॥ 19 ॥
यदि विन्देत चाकारम अस्माकं हि पुरॊचनः शीघ्रकारी ततॊ भूत्वा परसह्यापि दहेत नः ॥ 20 ॥
नायं बिभेत्य उपक्रॊशाद अधर्माद वा पुरॊचनः तथा हि वर्तते मन्दः सुयॊधन मते सथितः ॥ 21 ॥
अपि चेह परदग्धेषु भीष्मॊ ऽसमासु पितामहः कॊपं कुर्यात किमर्थं वा कौरवान कॊपयेत सः धर्म इत्य एव कुप्येत तथान्ये कुरुपुंगवाः ॥ 22 ॥
वयं तु यदि दाहस्य बिभ्यतः परद्रवेम हि सपशैर नॊ घातयेत सार्वान राज्यलुब्धः सुयॊधनः ॥ 23 ॥
अपदस्थान पदे तिष्ठन्न अपक्षान पक्षसंस्थितः हीनकॊशान महाकॊशः परयॊगैर घातयेद धरुवम ॥ 24 ॥
तद अस्माभिर इमं पापं तं च पापं सुयॊधनम वञ्चयद्भिर निवस्तव्यं छन्नवासं कव चित कव चित ॥ 25 ॥
ते वयं मृगया शीलाश चराम वसुधाम इमाम तथा नॊ विदिता मार्गा भविष्यन्ति पलायताम ॥ 26 ॥
भौमं च बिलम अद्यैव करवाम सुसंवृतम गूढॊच्छ्वसान न नस तत्र हुताशः संप्रधक्ष्यति ॥ 27 ॥
वसतॊ ऽतर यथा चास्मान न बुध्येत पुरॊचनः पौरॊ वापि जनः कश चित तथा कार्यम अतन्द्रितैः ॥ 28 ॥
आदिपर्व · Adi Parva
अध्याय 134
Reach this point to mark the section finished.
Continue to अध्याय 135