[वै] पाण्डवास तु रथान युक्त्वा सदश्वैर अनिलॊपमैः आरॊहमाणा भीष्मस्य पादौ जगृहुर आर्तवत ॥ 1 ॥
राज्ञश च धृतराष्ट्रस्य दरॊणस्य च महात्मनः अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥ 2 ॥
एवं सर्वान कुरून वृद्धान अभिवाद्य यतव्रताः समालिङ्ग्य समानांश च बलैश चाप्य अभिवादिताः ॥ 3 ॥
सर्वा मातॄस तथापृष्ट्वा कृत्वा चैव परदक्षिणम सर्वाः परकृतयश चैव परययुर वारणा वतम ॥ 4 ॥
विदुरश च महाप्राज्ञस तथान्ये कुरुपुंगवाः पौराश च पुरुषव्याघ्रान अन्वयुः शॊककर्शिताः ॥ 5 ॥
तत्र केच चिद बरुवन्ति सम बराह्मणा निर्भयास तदा शॊचमानाः पाण्डुपुत्रान अतीव भरतर्षभ ॥ 6 ॥
विषमं पश्यते राजा सर्वथा तमसावृतः धृतराष्ट्रः सुदुर्बुद्धिर न च धर्मं परपश्यति ॥ 7 ॥
न हि पापम अपापात्मा रॊचयिष्यति पाण्डवः भीमॊ वा बलिनां शरेष्ठः कौन्तेयॊ वा धनंजयः कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥ 8 ॥
तद राज्यं पितृतः पराप्तं धृतराष्ट्रॊ न मृष्यते अधर्मम अखिलं किं नु भीष्मॊ ऽयम अनुमन्यते विवास्यमानान अस्थाने कौनेयान भरतर्षभान ॥ 9 ॥
पितेव हि नृपॊ ऽसमाकम अभूच छांतनवः पुरा विचित्रवीर्यॊ राजर्षिः पाण्डुश च कुरुनन्दनः ॥ 10 ॥
स तस्मिन पुरुषव्याघ्रे दिष्ट भावं गते सति राजपुत्रान इमान बालान धृतराष्ट्रॊ न मृष्यते ॥ 11 ॥
वयम एतद अमृष्यन्तः सर्व एव पुरॊत्तमात गृहान विहाय गच्छामॊ यत्र याति युथिष्ठिरः ॥ 12 ॥
तांस तथा वादिनः पौरान दुःखितान दुःखकर्शितः उवाच परमप्रीतॊ धर्मराजॊ युधिष्ठिरः ॥ 13 ॥
पिता मान्यॊ गुरुः शरेष्ठॊ यद आह पृथिवीपतिः अशङ्कमानैस तत कार्यम अस्माभिर इति नॊ वरतम ॥ 14 ॥
भवन्तः सुहृदॊ ऽसमाकम अस्मान कृत्वा परदक्षिणम आशीर्भिर अभिनन्द्यास्मान निवर्तध्वं यथा गृहम ॥ 15 ॥
यदा तु कार्यम अस्माकं भवद्भिर उपपत्स्यते तदा करिष्यथ मम परियाणि च हितानि च ॥ 16 ॥
ते तथेति परतिज्ञाय कृत्वा चैतान परदक्षिणम आशीर्भिर अभिनन्द्यैनाञ जग्मुर नगरम एव हि ॥ 17 ॥
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित बॊधयन पाण्डवश्रेष्ठम इदं वचनम अब्रवीत पराज्ञः पराज्ञं परलापज्ञः सम्यग धर्मार्थदर्शिवान ॥ 18 ॥
विज्ञायेदं तथा कुर्याद आपदं निस्तरेद यथा अलॊहं निशितं शस्त्रं शरीरपरिकर्तनम यॊ वेत्ति न तम आघ्नन्ति परतिघातविदं दविषः ॥ 19 ॥
कक्षघ्नः शिशिरघ्नश च महाकक्षे बिलौकसः न दहेद इति चात्मानं यॊ रक्षति स जीवति ॥ 20 ॥
नाचक्षुर वेत्ति पन्थानं नाचक्षुर विन्दते दिशः ॥ 21 ॥
नाधृतिर भूतिम आप्नॊति बुध्यस्वैवं परबॊधितः अनाप्तैर दत्तम आदत्ते नरः शस्त्रम अलॊहजम शवाविच छरणम आसाद्य परमुच्येत हुताशनात ॥ 22 ॥
चरन मार्गान विजानाति नक्षत्रैर विन्दते दिशः आत्मना चात्मनः पञ्च पीडयन नानुपीड्यते ॥ 23 ॥
अनुशिष्ट्वानुगत्वा च कृत्वा चैनां परदक्षिणम पाण्डवान अभ्यनुज्ञाय विदुरः परययौ गृहान ॥ 24 ॥
निवृत्ते विदुरे चैव भीष्मे पौरजने गृहान अजातशत्रुम आमन्त्र्य कुन्ती वचनम अब्रवीत ॥ 25 ॥
कषत्ता यद अब्रवीद वाक्यं जनमध्ये ऽबरुवन्न इव तवया च तत तथेत्य उक्तॊ जानीमॊ न च तद वयम ॥ 26 ॥
यदि तच छक्यम अस्माभिः शरॊतुं न च सदॊषवत शरॊतुम इच्छामि तत सर्वं संवादं तव तस्य च ॥ 27 ॥
[य] विषाद अग्नेश च बॊद्धव्यम इति मां विदुरॊ ऽबरवीत पन्थाश च वॊ नाविदितः कश चित सयाद इति चाब्रवीत ॥ 28 ॥
जितेन्द्रियश च वसुधां पराप्स्यसीति च माब्रवीत विज्ञातम इति तत सर्वम इत्य उक्तॊ विदुरॊ मया ॥ 29 ॥
[वै] अष्टमे ऽहनि रॊहिण्यां परयाताः फल्गुनस्य ते वारणावतम आसाद्य ददृशुर नागरं जनम ॥ 30 ॥
आदिपर्व · Adi Parva
अध्याय 133
Reach this point to mark the section finished.
Continue to अध्याय 134