[वै] एवम उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु दुर्यॊधनः परं हर्षम आजगाम दुरात्मवान ॥ 1 ॥
स पुरॊचनम एकान्तम आनीय भरतर्षभ गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यम अब्रवीत ॥ 2 ॥
ममेयं वसुसंपूर्णा पुरॊचन वसुंधरा यथेयं मम तद्वत ते स तां रक्षितुम अर्हसि ॥ 3 ॥
न हि मे कश चिद अन्यॊ ऽसति वैश्वासिकतरस तवया सहायॊ येन संधाय मन्त्रयेयं यथा तवया ॥ 4 ॥
संरक्ष तात मन्त्रं च सपत्नांश च ममॊद्धर निपुणेनाभ्युपायेन यद बरवीमि तथा कुरु ॥ 5 ॥
पाण्डवा धृतराष्ट्रेण परेषिता वारणावतम उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात ॥ 6 ॥
स तवं रासभ युक्तेन सयन्दनेनाशु गामिना वारणावतम अद्यैव यथा यासि तथा कुरु ॥ 7 ॥
तत्र गत्वा चतुःशालं गृहं परमसंवृतम आयुधागारम आश्रित्य कारयेथा महाधनम ॥ 8 ॥
शणसर्जरसादीनि यानि दरव्याणि कानि चित आग्नेयान्य उत सन्तीह तानि सर्वाणि दापय ॥ 9 ॥
सर्पिषा च सतैलेन लाक्षया चाप्य अनल्पया मृत्तिकां मिश्रयित्वा तवं लेपं कुड्येषु दापयेः ॥ 10 ॥
शणान वंशं घृतं दारु यन्त्राणि विविधानि च तस्मिन वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥ 11 ॥
यथा च तवं न शङ्केरन परीक्षन्तॊ ऽपि पाण्डवाः आग्नेयम इति तत कार्यम इति चान्ये च मानवाः ॥ 12 ॥
वेश्मन्य एवं कृते तत्र कृत्वा तान परमार्चितान वासयेः पाण्डवेयांश च कुन्तीं च ससुहृज्जनाम ॥ 13 ॥
तत्रासनानि मुख्यानि यानानि शयनानि च विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥ 14 ॥
यथा रमेरन विश्रब्धा नगरे वारणावते तथा सर्वं विधातव्यं यावत कालस्य पर्ययः ॥ 15 ॥
जञात्वा तु तान सुविश्वस्ताञ शयानान अकुतॊभयान अग्निस ततस तवया देयॊ दवारतस तस्य वेश्मनः ॥ 16 ॥
दग्धान एवं सवके गेहे दग्धा इति ततॊ जनाः जञातयॊ वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित ॥ 17 ॥
तत तथेति परतिज्ञाय कौरवाय पुरॊचनः परायाद रासभ युक्तेन नगरं वारणावतम ॥ 18 ॥
स गत्वा तवरितॊ राजन दुर्यॊधन मते सथितः यथॊक्तं राजपुत्रेण सर्वं चक्रे पुरॊचनः ॥ 19 ॥
आदिपर्व · Adi Parva
अध्याय 132
Reach this point to mark the section finished.
Continue to अध्याय 133