धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 131

  1. [वै] ततॊ दुर्यॊधनॊ राजा सर्वास ताः परकृतीः शनैः अर्थमानप्रदानाभ्यां संजहार सहानुजः ॥ 1 ॥

  2. धृतराष्ट्र परयुक्तास तु के चित कुशलमन्त्रिणः कथयां चक्रिरे रम्यं नगरं वारणावतम ॥ 2 ॥

  3. अयं समाजः सुमहान रमणीयतमॊ भुवि उपस्थितः पशुपतेर नगरे वारणावते ॥ 3 ॥

  4. सर्वरत्नसमाकीर्णे पुंसां देशे मनॊरमे इत्य एवं धृतराष्ट्रस्य वचनाच चक्रिरे कथाः ॥ 4 ॥

  5. कथ्यमाने तथा रम्ये नगरे वारणावते गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर नृप ॥ 5 ॥

  6. यदा तव अमन्यत नृपॊ जातकौतूहला इति उवाचैनान अथ तदा पाण्डवान अम्बिका सुतः ॥ 6 ॥

  7. ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः रमणीयतरं लॊके नगरं वारणावतम ॥ 7 ॥

  8. ते तात यदि मन्यध्वम उत्सवं वारणावते सगणाः सानुयात्राश च विहरध्वं यथामराः ॥ 8 ॥

  9. बराह्मणेभ्यश च रत्नानि गायनेभ्यश च सर्वशः परयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥ 9 ॥

  10. कं चित कालं विहृत्यैवम अनुभूय परां मुदम इदं वै हास्तिनपुरं सुखिनः पुनर एष्यथ ॥ 10 ॥

  11. धृतराष्ट्रस्य तं कामम अनुबुद्ध्वा युधिष्ठिरः आत्मनश चासहायत्वं तथेति परत्युवाच तम ॥ 11 ॥

  12. ततॊ भीष्मं महाप्राज्ञं विदुरं च महामतिम दरॊणं च बाह्लिकं चैव सॊमदत्तं च कौरवम ॥ 12 ॥

  13. कृपम आचार्य पुत्रं च गान्धारीं च यशस्विनीम युधिष्ठिरः शनैर दीनम उवाचेदं वचस तदा ॥ 13 ॥

  14. रमणीये जनाकीर्णे नगरे वारणावते सगणास तात वत्स्यामॊ धृतराष्ट्रस्य शासनात ॥ 14 ॥

  15. परसन्नमनसः सर्वे पुण्या वाचॊ विमुञ्चत आशीर्भिर वर्धितान अस्मान न पापं परसहिष्यति ॥ 15 ॥

  16. एवम उक्तास तु ते सर्वे पाण्डुपुत्रेण कौरवाः परसन्नवदना भूत्वा ते ऽभयवर्तन्त पाण्डवान ॥ 16 ॥

  17. सवस्त्य अस्तु वः पथि सदा भूतेभ्यश चैव सर्वशः मा च वॊ ऽसत्व अशुभं किं चित सर्वतः पाण्डुनन्दनाः ॥ 17 ॥

  18. ततः कृतस्वस्त्य अयना राज्यलाभाय पाण्डवाः कृत्वा सर्वाणि कार्याणि परययुर वारणावतम ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 132

Previous: अध्याय 130