धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 130

  1. [वै] धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत ॥ 1 ॥

  2. धर्मनित्यः सदा पाण्डुर ममासीत परियकृद धितः सर्वेषु जञातिषु तथा मयि तव आसीद विशेषतः ॥ 2 ॥

  3. नास्य किं चिन न जानामि भॊजनादि चिकीर्षितम निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥ 3 ॥

  4. तस्य पुत्रॊ यथा पाण्डुस तथा धर्मपरायणः गुणवाँल लॊकविख्यातः पौराणां च सुसंमतः ॥ 4 ॥

  5. स कथं शक्यम अस्माभिर अपक्रष्टुं बलाद इतः पितृपैतामहाद राज्यात ससहायॊ विशेषतः ॥ 5 ॥

  6. भृता हि पाण्डुनामात्या बलं च सततं भृतम भृताः पुत्राश च पौत्राश च तेषाम अपि विशेषतः ॥ 6 ॥

  7. ते पुरा सत्कृतास तात पाण्डुना पौरवा जनाः कथं युधिष्ठिरस्यार्थे न नॊ हन्युः सबान्धवान ॥ 7 ॥

  8. [दुर] एवम एतन मया तात भावितं दॊषम आत्मनि दृष्ट्वा परकृतयः सर्वा अर्थमानेन यॊजिताः ॥ 8 ॥

  9. धरुवम अस्मत सहायास ते भविष्यन्ति परधानतः अर्थवर्गः सहामात्यॊ मत्संस्थॊ ऽदय महीपते ॥ 9 ॥

  10. स भवान पाण्डवान आशु विवासयितुम अर्हति मृदुनैवाभ्युपायेन नगरं वारणावतम ॥ 10 ॥

  11. यदा परतिष्ठितं राज्यं मयि राजन भविष्यति तदा कुन्ती सहापत्या पुनर एष्यति भारत ॥ 11 ॥

  12. [धृ] दुर्यॊधन ममाप्य एतद धृदि संपरिवर्तते अभिप्रायस्य पापत्वान नैतत तु विवृणॊम्य अहम ॥ 12 ॥

  13. न च भीष्मॊ न च दरॊणॊ न कषत्ता न च गौतमः विवास्यमानान कौन्तेयान अनुमंस्यन्ति कर्हि चित ॥ 13 ॥

  14. समा हि कौरवेयाणां वयम एते च पुत्रक नैते विषमम इच्छेयुर धर्मयुक्ता मनस्विनः ॥ 14 ॥

  15. ते वयं कौरवेयाणाम एतेषां च महात्मनाम कथं न वध्यतां तात गच्छेम जगतस तथा ॥ 15 ॥

  16. [दुर] मध्यस्थः सततं भीष्मॊ दरॊणपुत्रॊ मयि सथितः यतः पुत्रस ततॊ दरॊणॊ भविता नात्र सांशयः ॥ 16 ॥

  17. कृपः शारद्वतश चैव यत एते तरयस ततः दरॊणं च भागिनेयं च न स तयक्ष्यति कर्हि चित ॥ 17 ॥

  18. कषत्तार्थ बद्धस तव अस्माकं परच्छन्नं तु यतः परे न चैकः स समर्थॊ ऽसमान पाण्डवार्थे परबाधितुम ॥ 18 ॥

  19. स विश्रब्धः पाण्डुपुत्रान सह मात्रा विवासय वारणावतम अद्यैव नात्र दॊषॊ भविष्यति ॥ 19 ॥

  20. विनिद्र करणं घॊरं हृदि शल्यम इवार्पितम शॊकपावकम उद्भूतं कर्मणैतेन नाशय ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 131

Previous: अध्याय 129