धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 129

  1. [वै] पराणाधिकं भीमसेनं कृतविद्यं धनंजयम दुर्यॊधनॊ लक्षयित्व पर्यतप्यत दुर्मतिः ॥ 1 ॥

  2. ततॊ वैकर्तनः कर्णः शकुनिश चापि सौबलः अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान ॥ 2 ॥

  3. पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः ॥ 3 ॥

  4. गुणैः समुदितान दृष्ट्वा पौराः पाण्डुसुतांस तदा कथयन्ति सम संभूय चत्वरेषु सभासु च ॥ 4 ॥

  5. परज्ञा चक्षुर अचक्षुष्ट्वाद धृतराष्ट्रॊ जनेश्वरः राज्यम अप्राप्तवान पूर्वं सा कथं नृपतिर भवेत ॥ 5 ॥

  6. तथा भीष्मः शांतनवः सत्यसंधॊ महाव्रतः परत्याख्याय पुरा राज्यं नाद्य जातु गरहीष्यति ॥ 6 ॥

  7. ते वयं पाण्डवं जयेष्ठं तरुणं वृद्धशीलिनम अभिषिञ्चाम साध्व अद्य सत्यं करुणवेदिनम ॥ 7 ॥

  8. स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित सपुत्रं विविधैर भॊगैर यॊजयिष्यति पूजयन ॥ 8 ॥

  9. तेषां दुर्यॊधनः शरुत्वा तानि वाक्यानि भाषताम युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥ 9 ॥

  10. स तप्यमानॊ दुष्टात्मा तेषां वाचॊ न चक्षमे ईर्ष्यया चाभिसंतप्तॊ धृतराष्ट्रम उपागमत ॥ 10 ॥

  11. ततॊ विरहितं दृष्ट्वा पितरं परतिपूज्य सः पौरानुराग संतप्तः पश्चाद इदम अभाषत ॥ 11 ॥

  12. शरुता मे जल्पतां तात परौराणाम अशिवा गिरः तवाम अनादृत्य भीष्मं च पतिम इच्छन्ति पाण्डवम ॥ 12 ॥

  13. मतम एतच च भीष्मस्य न स राज्यं बुभूषति अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥ 13 ॥

  14. पितृतः पराप्तवान राज्यं पाण्डुर आत्मगुणैः पुरा तवम अप्य अगुण संयॊगात पराप्तं राज्यं न लब्धवान ॥ 14 ॥

  15. स एष पाण्डॊर दायाद्यं यदि पराप्नॊति पाण्डवः तस्य पुत्रॊ धरुवं पराप्तस तस्य तस्येति चापरः ॥ 15 ॥

  16. ते वयं राजवंशेन हीनाः सह सुतैर अपि अवज्ञाता भविष्यामॊ लॊकस्य जगतीपते ॥ 16 ॥

  17. सततं निरयं पराप्ताः परपिण्डॊपजीविनः न भवेम यथा राजंस तथा शीघ्रं विधीयताम ॥ 17 ॥

  18. अभविष्यः सथिरॊ राज्ये यदि हि तवं पुरा नृप धरुवं पराप्स्याम च वयं राज्यम अप्य अवशे जने ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 130

Previous: अध्याय 128