[वै] ततः शिष्यान समानीय आचार्यार्थम अचॊदयत दरॊणः सर्वान अशेषेण दक्षिणार्थं महीपते ॥ 1 ॥
पाञ्चालराजं दरुपदं गृहीत्वा रणमूर्धनि पर्यानयत भद्रं वः सा सयात परमदक्षिणा ॥ 2 ॥
तथेत्य उक्त्वा तु ते सर्वे रथैस तूर्णं परहारिणः आचार्य धनदानार्थं दरॊणेन सहिता ययुः ॥ 3 ॥
ततॊ ऽभिजग्मुः पाञ्चालान निघ्नन्तस ते नरर्षभाः ममृदुस तस्य नगरं दरुपदस्य महौजसः ॥ 4 ॥
ते यज्ञसेनं दरुपदं गृहीत्वा रणमूर्धनि उपाजह्रुः सहामात्यं दरॊणाय भरतर्षभाः ॥ 5 ॥
भग्नदर्पं हृतधनं तथा च वशम आगतम स वैरं मनसा धयात्वा दरॊणॊ दरुपदम अब्रवीत ॥ 6 ॥
परमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया पराप्य जीवन रिपुवशं सखिपूर्वं किम इष्यते ॥ 7 ॥
एवम उक्त्वा परहस्यैनं निश्चित्य पुनर अब्रवीत मा भैः पराणभयाद राजन कषमिणॊ बराह्मणा वयम ॥ 8 ॥
आश्रमे करीडितं यत तु तवया बाल्ये मया सह तेन संवर्धितः सनेहस तवया मे कषत्रियर्षभ ॥ 9 ॥
परार्थयेयं तवया सख्यं पुनर एव नरर्षभ वरं ददामि ते राजन राज्यस्यार्धम अवाप्नुहि ॥ 10 ॥
अराजा किल नॊ राज्ञां सखा भवितुम अर्हति अतः परयतितं राज्ये यज्ञसेन मया तव ॥ 11 ॥
राजासि दक्षिणे कूले भागीरथ्याहम उत्तरे सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥ 12 ॥
[दरुपद] अनाश्चर्यम इदं बरह्मन विक्रान्तेषु महात्मसु परीये तवयाहं तवत्तश च परीतिम इच्छामि शाश्वतीम ॥ 13 ॥
[वै] एवम उक्तस तु तं दरॊणॊ मॊक्षयाम आस भारत सत्कृत्य चैनं परीतात्मा राज्यार्धं परत्यपादयत ॥ 14 ॥
माकन्दीम अथ गङ्गायास तीरे जनपदायुताम सॊ ऽधयावसद दीनमनाः काम्पिल्यं च पुरॊत्तमम दक्षिणांश चैव पाञ्चालान यावच चर्मण्वती नदी ॥ 15 ॥
दरॊणेन वैरं दरुपदः संस्मरन न शशाम ह कषात्रेण च बलेनास्य नापश्यत स पराजयम ॥ 16 ॥
हीनं विदित्वा चात्मानं बराह्मणेन बलेन च पुत्र जन्म परीप्सन वै स राजा तद अधारयत अहिच छत्रं च विषयं दरॊणः समभिपद्यत ॥ 17 ॥
एवं राजन्न अहिच छत्रा पुरी जनपदायुता युधि निर्जित्य पार्थेन दरॊणाय परतिपादिता ॥ 18 ॥
आदिपर्व · Adi Parva
अध्याय 128
Reach this point to mark the section finished.
Continue to अध्याय 129