[वै] कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे पक्षपात कृतस्नेहः स दविधेवाभवज जनः ॥ 1 ॥
हा वीर कुरुराजेति हा भीमेति च नर्दताम पुरुषाणां सुविपुलाः परणादाः सहसॊत्थिताः ॥ 2 ॥
ततः कषुब्धार्णव निभं रङ्गम आलॊक्य बुद्धिमान भारद्वाजः परियं पुत्रम अश्वत्थामानम अब्रवीत ॥ 3 ॥
वारयैतौ महावीर्यौ कृतयॊग्याव उभाव अपि मा भूद रङ्ग परकॊपॊ ऽयं भीम दुर्यॊधनॊद्भवः ॥ 4 ॥
ततस ताव उद्यतगदौ गुरुपुत्रेण वारितौ युगान्तानिल संक्षुब्धौ महावेगाव इवार्णवौ ॥ 5 ॥
ततॊ रङ्गाङ्गण गतॊ दरॊणॊ वचनम अब्रवीत निवार्य वादित्रगणं महामेघसमस्वनम ॥ 6 ॥
यॊ मे पुत्रात परियतरः सर्वास्त्रविदुषां वरः ऐन्द्रिर इन्द्रानुज समः स पार्थॊ दृश्यताम इति ॥ 7 ॥
आचार्य वचनेनाथ कृतस्वस्त्ययनॊ युवा बद्धगॊधाङ्गुलि तराणः पूर्णतूणः सकार्मुकः ॥ 8 ॥
काञ्चनं कवचं बिभ्रत परत्यदृश्यत फल्गुनः सार्कः सेन्द्रायुध तडित ससंध्य इव तॊयदः ॥ 9 ॥
ततः सर्वस्य रङ्गस्य समुत्पिञ्जॊ ऽभवन महान परवाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥ 10 ॥
एष कुन्तीसुतः शरीमान एष पाण्डवमध्यमः एष पुत्रॊ महेन्द्रस्य कुरूणाम एष रक्षिता ॥ 11 ॥
एषॊ ऽसत्रविदुषां शरेष्ठ एष धर्मभृतां वरः एष शीलवतां चापि शीलज्ञाननिधिः परः ॥ 12 ॥
इत्य एवम अतुला वाचः शृण्वन्त्याः परेक्ष केरिताः कुन्त्याः परस्नव संमिश्रैर अस्रैः कलिन्नम उरॊ ऽभवत ॥ 13 ॥
तेन शब्देन महता पूर्णश्रुतिर अथाब्रवीत धृतराष्ट्रॊ नरश्रेष्ठॊ विदुरं हृष्टमानसः ॥ 14 ॥
कषत्तः कषुब्धार्णव निभः किम एष सुमहास्वनः सहसैवॊत्थितॊ रङ्गे भिन्दन्न इव नभस्तलम ॥ 15 ॥
[विदुर] एष पार्थॊ महाराज फल्गुनः पाण्डुनन्दनः अवतीर्णः सकवचस तत्रैष सुमहास्वनः ॥ 16 ॥
[धृ] धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि रक्षितॊ ऽसमि महामते पृथारणि समुद्भूतैस तरिभिः पाण्डव वह्निभिः ॥ 17 ॥
[वै] तस्मिन समुदिते रङ्गे कथं चित पर्यवस्थिते दर्शयाम आस बीभत्सुर आचार्याद अस्त्रलाघवम ॥ 18 ॥
आग्नेयेनासृजद वह्निं वारुणेनासृजत पयः वायव्येनासृजद वायुं पार्जन्येनासृजद धनान ॥ 19 ॥
भौमेन पराविशद भूमिं पार्वतेनासृजद गिरीन अन्तर्धानेन चास्त्रेण पुनर अन्तर्हितॊ ऽभवत ॥ 20 ॥
कषणात परांशुः कषणाद धरस्वः कषणाच च रथधूर गतः कषणेन रथमध्यस्थः कषणेनावापतन महीम ॥ 21 ॥
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः सौष्ठवेनाभिसंयुक्तः सॊ ऽविध्यद विविधैः शरैः ॥ 22 ॥
भरमतश च वराहस्य लॊहस्य परमुखे समम पञ्चबाणान असंसक्तान स मुमॊचैक बाणवत ॥ 23 ॥
गव्ये विषाण कॊशे च चले रज्ज्ववलम्बिते निचखान महावीर्यः सायकान एकविंशतिम ॥ 24 ॥
इत्य एवमादि सुमहत खड्गे धनुषि चाभवत गदायां शस्त्रकुशलॊ दर्शनानि वयदर्शयत ॥ 25 ॥
ततः समाप्तभूयिष्ठे तस्मिन कर्माणि भारत मन्दी भूते समाजे च वादित्रस्य च निस्वने ॥ 26 ॥
दवारदेशात समुद्भूतॊ माहात्म्य बलसूचकः वज्रनिष्पेष सदृशः शुश्रुवे भुजनिस्वनः ॥ 27 ॥
दीर्यन्ते किं नु गिरयः किंस्विद भूमिर विदीर्यते किंस्विद आपूर्यते वयॊम जलभार घनैर घनैः ॥ 28 ॥
रङ्गस्यैवं मतिर अभूत कषणेन वसुधाधिप दवारं चाभिमुखाः सर्वे बभूवुः परेक्षकास तदा ॥ 29 ॥
पञ्चभिर भरातृभिः पार्थैर दरॊणः परिवृतॊ बभौ पञ्च तारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥ 30 ॥
अश्वत्थाम्ना च सहितं भरातॄणां शतम ऊर्जितम दुर्यॊधनंम अमित्रघ्नम उत्थितं पर्यवारयत ॥ 31 ॥
स तैस तदा भरातृभिर उद्यतायुधैर; वृतॊ गदापाणिर अवस्थितैः सथितः बभौ यथा दानव संक्षये पुरा; पुरंदरॊ देवगणैः समावृतः ॥ 32 ॥
आदिपर्व · Adi Parva
अध्याय 125
Reach this point to mark the section finished.
Continue to अध्याय 126