[वै] कृतास्त्रान धार्तराष्ट्रांश च पाण्डुपुत्रांश च भारत दृष्ट्वा दरॊणॊ ऽबरवीद राजन धृतराष्ट्रं जनेश्वरम ॥ 1 ॥
कृपस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः गाङ्गेयस्य च सांनिध्ये वयासस्य विदुरस्य च ॥ 2 ॥
राजन संप्राप्तविध्यास ते कुमराः कुरुसत्तम ते दर्शयेयुः सवां शिक्षां राजन्न अनुमते तव ॥ 3 ॥
ततॊ ऽबरवीन महाराजः परहृष्टेनान्तरात्मना भारद्वाज महत कर्मकृतं ते दविजसत्तम ॥ 4 ॥
यदा तु मन्यसे कालं यस्मिन देशे यथा यथा तथा तथाविधानाय सवयम आज्ञापयस्व माम ॥ 5 ॥
सपृहयाम्य अद्य निर्वेदात पुरुषाणां सचक्षुषाम अस्त्रहेतॊः पराक्रान्तान्ये मे दरक्ष्यन्ति पुत्रकान ॥ 6 ॥
कषत्तर यद गुरुर आचार्यॊ बरवीति कुरु तत तथा न हीदृशं परियं मन्ये भविता धर्मवत्सलः ॥ 7 ॥
ततॊ राजानम आमन्त्र्य विदुरानुगतॊ बहिः भारद्वाजॊ महाप्राज्ञॊ मापयाम आस मेदिनीम समाम अवृक्षां निर्गुल्माम उदक परवण संस्थिताम ॥ 8 ॥
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥ 9 ॥
रङ्ग भूमौ सुविपुलं शास्त्रदृष्टं यथाविधि परेक्षागारं सुविहितं चक्रुस तत्र च शिल्पिनः राज्ञः सर्वायुधॊपेतं सत्रीणां चैव नरर्षभ ॥ 10 ॥
मञ्चांश च कारयाम आसुस तत्र जानपदा जनाः विपुलान उच्छ्रयॊपेताञ शिबिकाश च महाधनाः ॥ 11 ॥
तस्मिंस ततॊ ऽहनि पराप्ते राजा ससचिवस तदा भीष्मं परमुखतः कृत्वा कृपं चाचार्य सत्तमम ॥ 12 ॥
मुक्ताजालपरिक्षिप्तं वैडूर्य मणिभूषितम शातकुम्भमयं दिव्यं परेक्षागारम उपागमत ॥ 13 ॥
गान्धारी च महाभागा कुन्ती च जयतां वर सत्रियश च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः हर्षाद आरुरुहुर मञ्चान मेरुं देव सत्रियॊ यथा ॥ 14 ॥
बराह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद दरुतम दर्शनेप्सु समभ्यागात कुमाराणां कृतास्त्रताम ॥ 15 ॥
परवादितैश च वादित्रैर जनकौतूहलेन च महार्णव इव कषुब्धः समाजः सॊ ऽभवत तदा ॥ 16 ॥
ततः शुक्लाम्बर धरः शुक्लयज्ञॊपवीतवान शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥ 17 ॥
रङ्गमध्यं तदाचार्यः सपुत्रः परविवेश ह नभॊ जलधरैर हीनं साङ्गारक इवांशुमान ॥ 18 ॥
स यथा समयं चक्रे बलिं बलवतां वरः बराह्मणांश चात्र मन्त्रज्ञान वाचयाम आस मङ्गलम ॥ 19 ॥
अथ पुण्याहघॊषस्य पुण्यस्य तदनन्तरम विविशुर विविधं गृह्य शस्त्रॊपकरणं नराः ॥ 20 ॥
ततॊ बद्धतनु तराणा बद्धकक्ष्या महाबलाः बद्धतूणाः सधनुषॊ विविशुर भरतर्षभाः ॥ 21 ॥
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरॊगमाः चक्रुर अस्त्रं महावीर्याः कुमाराः परमाद्भुतम ॥ 22 ॥
के चिच छराक्षेप भयाच छिरांस्य अवननामिरे मनुजा धृष्टम अपरे वीक्षां चक्रुः सविस्मयाः ॥ 23 ॥
ते सम लक्ष्याणि विविधुर बाणैर नामाङ्क शॊभितैः विविधैर लाघवॊत्सृष्टैर उह्यन्तॊ वाजिभिर दरुतम ॥ 24 ॥
तत कुमार बलं तत्र गृहीतशरकार्मुकम गन्धर्वनगराकारं परेक्ष्य ते विस्मिताभवन ॥ 25 ॥
सहसा चुक्रुशुस तत्र नराः शतसहस्रशः विस्मयॊत्फुल्लनयनाः साधु साध्व इति भारत ॥ 26 ॥
कृत्वा धनुषि ते मार्गान रथचर्यासु चासकृत गजपृष्ठे ऽशवपृष्ठे च नियुद्धे च महाबलाः ॥ 27 ॥
गृहीतखड्गचर्माणस ततॊ भूयः परहारिणः तसरुमार्गान यथॊद्दिष्टांश चेरुः सर्वासु भूमिषु ॥ 28 ॥
लाघवं सौष्ठवं शॊभां सथिरत्वं दृढमुष्टिताम ददृशुस तत्र सर्वेषां परयॊगे खड्गचर्मणाम ॥ 29 ॥
अथ तौ नित्यसंहृष्टौ सुयॊधन वृकॊदरौ अवतीर्णौ गदाहस्ताव एकशृङ्गाव इवाचलौ ॥ 30 ॥
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ बृहन्तौ वाशिता हेतॊः समदाव इव कुञ्जरौ ॥ 31 ॥
तौ परदक्षिणसव्यानि मण्डलानि महाबलौ चेरतुर निर्मलगदौ समदाव इव गॊवृषौ ॥ 32 ॥
विदुरॊ धृतराष्ट्राय गान्धार्ये पाण्डवारणिः नयवेदयेतां तत सर्वं कुमाराणां विचेष्टितम ॥ 33 ॥
आदिपर्व · Adi Parva
अध्याय 124
Reach this point to mark the section finished.
Continue to अध्याय 125