[वै] अर्जुनस तु परं यत्नम आतस्थे गुरु पूजने अस्त्रे च परमं यॊगं परियॊ दरॊणस्य चाभवत ॥ 1 ॥
दरॊणेन तु तदाहूय रहस्य उक्तॊ ऽननसाधकः अन्धकारे ऽरजुनायान्नं न देयं ते कथं चन ॥ 2 ॥
ततः कदा चिद भुञ्जाने परववौ वायुर अर्जुने तेन तत्र परदीप्तः स दीप्यमानॊ निवापितः ॥ 3 ॥
भुङ्क्त एवार्जुनॊ भक्तं न चास्यास्याद वयमुह्यत हस्तस तेजस्विनॊ नित्यम अन्नग्रहण कारणात तद अभ्यासकृतं मत्वा रात्राव अभ्यस्त पाण्डवः ॥ 4 ॥
तस्य जयातलनिर्घॊषं दरॊणः शुश्राव भारत उपेत्य चैनम उत्थाय परिष्वज्येदम अब्रवीत ॥ 5 ॥
परयतिष्ये तथा कर्तुं यथा नान्यॊ धनुर्धरः तवत्समॊ भविता लॊके सत्यम एतद बरवीमि ते ॥ 6 ॥
ततॊ दरॊणॊ ऽरजुनं भूयॊ रथेषु च गजेषु च अश्वेषु भूमाव अपि च रणशिक्षाम अशिक्षयत ॥ 7 ॥
गदायुद्धे ऽसि चर्यायां तॊमरप्रासशक्तिषु दरॊणः संकीर्ण युद्धेषु शिक्षयाम आस पाण्डवम ॥ 8 ॥
तस्य तत कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः राजानॊ राजपुत्राश च समाजग्मुः सहस्रशः ॥ 9 ॥
ततॊ निषादराजस्य हिरण्यधनुषः सुतः एकलब्यॊ महाराज दरॊणम अभ्याजगाम ह ॥ 10 ॥
न स तं परतिजग्राह नैषादिर इति चिन्तयन शिष्यं धनुषि धर्मज्ञस तेषाम एवान्ववेक्षया ॥ 11 ॥
स तु दरॊणस्य शिरसा पादौ गृह्य परंतपः अरण्यम अनुसंप्राप्तः कृत्वा दरॊणं मही मयम ॥ 12 ॥
तस्मिन्न आचार्य वृत्तिं च परमाम आस्थितस तदा इष्वस्त्रे यॊगम आतस्थे परं नियमम आस्थितः ॥ 13 ॥
परया शरद्धया युक्तॊ यॊगेन परमेण च विमॊक्षादान संधाने लघुत्वं परम आप सः ॥ 14 ॥
अथ दरॊणाभ्यनुज्ञाताः कदा चित कुरुपाण्डवाः रथैर विनिर्ययुः सर्वे मृगयाम अरिमर्दनाः ॥ 15 ॥
तत्रॊपकरणं गृह्य नरः कश चिद यदृच्छया राजन्न अनुजगामैकः शवानम आदाय पाण्डवान ॥ 16 ॥
तेषां विचरतां तत्र तत तत कर्म चिकीर्षताम शवा चरन स वने मूढॊ नैषादिं परति जग्मिवान ॥ 17 ॥
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने नैषादिं शवा समालक्ष्य भषंस तस्थौ तद अन्तिके ॥ 18 ॥
तदा तस्याथ भषतः शुनः सप्तशरान मुखे लाघवं दर्शयन्न अस्त्रे मुमॊच युगपद यथा ॥ 19 ॥
स तु शवा शरपूर्णास्यः पाण्डवान आजगाम ह तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥ 20 ॥
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा परेक्ष्य तं वरीडिताश चासन परशशंसुश च सर्वशः ॥ 21 ॥
तं ततॊ ऽनवेषमाणास ते वने वननिवासिनम ददृशुः पाण्डवा राजन्न अस्यन्तम अनिशं शरान ॥ 22 ॥
न चैनम अभ्यजानंस ते तदा विकृतदर्शनम अथैनं परिपप्रच्छुः कॊ भवान कस्य वेत्य उत ॥ 23 ॥
[एकलव्य] निषादाधिपतेर वीरा हिरण्यधनुषः सुतम दरॊणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम ॥ 24 ॥
[वै] ते तम आज्ञाय तत्त्वेन पुनर आगम्य पाण्डवाः यथावृत्तं च ते सर्वं दरॊणायाचख्युर अद्भुतम ॥ 25 ॥
कौन्तेयस तव अर्जुनॊ राजन्न एकलव्यम अनुस्मरन रहॊ दरॊणं समागम्य परणयाद इदम अब्रवीत ॥ 26 ॥
नन्व अहं परिरभ्यैकः परीतिपूर्वम इदं वचः भवतॊक्तॊ न मे शिष्यस तवद विशिष्टॊ भविष्यति ॥ 27 ॥
अथ कस्मान मद्विशिष्टॊ लॊकाद अपि च वीर्यवान अस्त्य अन्यॊ भवतः शिष्यॊ निषादाधिपतेः सुतः ॥ 28 ॥
मुहूर्तम इव तं दरॊणश चिन्तयित्वा विनिश्चयम सव्यसाचिनम आदाय नैषादिं परति जग्मिवान ॥ 29 ॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम एकलव्यं धनुष्पाणिम अस्यन्तम अनिशं शरान ॥ 30 ॥
एकलव्यस तु तं दृष्ट्वा दरॊणम आयान्तम अन्तिकात अभिगम्यॊपसंगृह्य जगाम शिरसा महीम ॥ 31 ॥
पूजयित्वा ततॊ दरॊणं विधिवत स निषादजः निवेद्य शिष्यम आत्मानं तस्थौ पराञ्जलिर अग्रतः ॥ 32 ॥
ततॊ दरॊणॊ ऽबरवीद राजन्न एकलव्यम इदं वचः यदि शिष्यॊ ऽसि मे तूर्णं वेतनं संप्रदीयताम ॥ 33 ॥
एकलव्यस तु तच छरुत्वा परीयमाणॊ ऽबरवीद इदम किं परयच्छामि भगवन्न आज्ञापयतु मां गुरुः ॥ 34 ॥
न हि किं चिद अदेयं मे गुरवे बरह्मवित्तम तम अब्रवीत तवयाङ्गुष्ठॊ दक्षिणॊ दीयतां मम ॥ 35 ॥
एकलव्यस तु तच छरुत्वा वचॊ दरॊणस्य दारुणम परतिज्ञाम आत्मनॊ रक्षन सत्ये च निरतः सदा ॥ 36 ॥
तथैव हृष्टवदनस तथैवादीन मानसः छित्त्वाविचार्य तं परादाद दरॊणायाङ्गुष्ठम आत्मनः ॥ 37 ॥
ततः परं तु नैषादिर अङ्गुलीभिर वयकर्षत न तथा स तु शीघ्रॊ ऽभूद यथापूर्वं नराधिप ॥ 38 ॥
ततॊ ऽरजुनः परीतमना बभूव विगतज्वरः दरॊणश च सत्यवाग आसीन नान्यॊ ऽभयभवद अर्जुनम ॥ 39 ॥
दरॊणस्य तु तदा शिष्यौ गदा यॊग्यां विशेषतः दुर्यॊधनश च भीमश च कुरूणाम अभ्यगच्छताम ॥ 40 ॥
अश्वत्थामा रहस्येषु सर्वेष्व अभ्यधिकॊ ऽभवत तथाति पुरुषान अन्यान सारुकौ यमजाव उभौ युधिष्ठिरॊ रथश्रेष्ठः सर्वत्र तु धनंजयः ॥ 41 ॥
परस्थितः सागरान्तायां रथयूथप यूथपः बुद्धियॊगबलॊत्साहैः सर्वास्त्रेषु च पाण्डवः ॥ 42 ॥
अस्त्रे गुर्व अनुरागे च विशिष्टॊ ऽभवद अर्जुनः तुल्येष्व अस्त्रॊपदेशेषु सौष्ठवेन च वीर्यवान एकः सर्वकुमाराणां बभूवातिरथॊ ऽरजुनः ॥ 43 ॥
पराणाधिकं भीमसेनं कृतविद्यं धनंजयम धार्तराष्ट्रा दुरात्मानॊ नामृष्यन्त नराधिप ॥ 44 ॥
तांस तु सर्वान समानीय सर्वविद्यासु निष्ठितान दरॊणः परहरण जञाने जिज्ञासुः पुरुषर्षभ ॥ 45 ॥
कृत्रिमं भासम आरॊप्य वृक्षाग्रे शिल्पिभिः कृतम अविज्ञातं कुमाराणां लक्ष्यभूतम उपादिशत ॥ 46 ॥
[दरॊण] शीघ्रं भवन्तः सर्वे वै धनूंष्य आदाय सत्वराः भासम एतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥ 47 ॥
मद्वाक्यसमकालं च शिरॊ ऽसय विनिपात्यताम एकैकशॊ नियॊक्ष्यामि तथा कुरुत पुत्रकाः ॥ 48 ॥
[वै] ततॊ युधिष्ठिरं पूर्वम उवाचाङ्गिरसां वरः संधत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च ॥ 49 ॥
ततॊ युधिष्ठिरः पूर्वं धनुर गृह्य महारवम तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचॊदितः ॥ 50 ॥
ततॊ विततधन्वानं दरॊणस तं कुरुनन्दनम स मुहूर्ताद उवाचेदं वचनं भरतर्षभ ॥ 51 ॥
पश्यस्य एनं दरुमाग्रस्थं भासं नरवरात्मज पश्यामीत्य एवम आचार्यं परत्युवाच युधिष्ठिरः ॥ 52 ॥
स मुहूर्ताद इव पुनर दरॊणस तं परत्यभाषत अथ वृक्षम इमं मां वा भरातॄन वापि परपश्यसि ॥ 53 ॥
तम उवाच स कौन्तेयः पश्याम्य एनं वनस्पतिम भवन्तं च तथा भरातॄन भासं चेति पुनः पुनः ॥ 54 ॥
तम उवाचापसर्पेति दरॊणॊ ऽपरीत मना इव नैतच छक्यं तवया वेद्धुं लक्ष्यम इत्य एव कुत्सयन ॥ 55 ॥
ततॊ दुर्यॊधनादींस तान धार्तराष्ट्रान महायशाः तेनैव करमयॊगेन जिज्ञासुः पर्यपृच्छत ॥ 56 ॥
अन्यांश च शिष्यान भीमादीन राज्ञश चैवान्य देशजान तथा च सर्वे सर्वं तत पश्याम इति कुत्सिताः ॥ 57 ॥
ततॊ धनंजयं दरॊणः समयमानॊ ऽभयभाषत तवयेदानीं परहर्तव्यम एतल लक्ष्यं निशम्यताम ॥ 58 ॥
मद्वाक्यसमकालं ते मॊक्तव्यॊ ऽतर भवेच छरः वितत्य कार्मुकं पुत्र तिष्ठ तावन मुहूर्तकम ॥ 59 ॥
एवम उक्तः सव्यसाची मण्डलीकृतकार्मुकः तस्थौ लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचॊदितः ॥ 60 ॥
मुहूर्ताद इव तं दरॊणस तथैव समभाषत पश्यस्य एनं सथितं भासं दरुमं माम अपि वेत्य उत ॥ 61 ॥
पश्याम्य एनं भासम इति दरॊणं पार्थॊ ऽभयभाषत न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥ 62 ॥
ततः परीतमना दरॊणॊ मुहूर्ताद इव तं पुनः परत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम ॥ 63 ॥
भासं पश्यसि यद्य एनं तथा बरूहि पुनर वचः शिरः पश्यामि भासस्य न गात्रम इति सॊ ऽबरवीत ॥ 64 ॥
अर्जुनेनैवम उक्तस तु दरॊणॊ हृष्टतनू रुहः मुञ्चस्वेत्य अब्रवीत पार्थं स मुमॊचाविचारयन ॥ 65 ॥
ततस तस्य नगस्थस्य कषुरेण निशितेन ह शिर उत्कृत्य तरसा पातयाम आस पाण्डवः ॥ 66 ॥
तस्मिन कर्मणि संसिद्धे पर्यश्वजत फल्गुनम मेने च दरुपदं संख्ये सानुबन्धं पराजितम ॥ 67 ॥
कस्य चित तव अथ कालस्य सशिष्यॊ ऽङगिरसां वरः जगाम गङ्गाम अभितॊ मज्जितुं भरतर्षभ ॥ 68 ॥
अवगाढम अथॊ दरॊणं सलिले सलिले चरः गराहॊ जग्राह बलवाञ जङ्घान्ते कालचॊदितः ॥ 69 ॥
स समर्थॊ ऽपि मॊक्षाय शिष्यान सर्वान अचॊदयत गराहं हत्वा मॊक्षयध्वं माम इति तवरयन्न इव ॥ 70 ॥
तद वाक्यसमकालं तु बीभत्सुर निशितैः शरैः आवापैः पञ्चभिर गराहं मग्नम अम्भस्य अताडयत इतरे तु विसंमूढास तत्र तत्र परपेदिरे ॥ 71 ॥
तं च दृष्ट्वा करियॊपेतं दरॊणॊ ऽमन्यात पाण्डवम विशिष्टं सर्वशिष्येभ्यः परीतिमांश चाभवत तदा ॥ 72 ॥
स पार्थ बाणैर बहुधा खण्डशः परिकल्पितः गराहः पञ्चत्वम आपेदे जङ्घां तयक्त्वा महात्मनः ॥ 73 ॥
अथाब्रवीन महात्मानं भारद्वाजॊ महारथम गृहाणेदं महाबाहॊ विशिष्टम अतिदुर्धरम अस्त्रं बरह्मशिरॊ नाम सप्रयॊग निवर्तनम ॥ 74 ॥
न च ते मानुषेष्व एतत परयॊक्तव्यं कथं चन जगद विनिर्दहेद एतद अल्पतेजसि पातितम ॥ 75 ॥
असामान्यम इदं तात लॊकेष्व अस्त्रं निगद्यते तद धारयेथाः परयतः शृणु चेदं वचॊ मम ॥ 76 ॥
बाधेतामानुषः शत्रुर यदा तवां वीर कश चन तद वधाय परयुञ्जीथास तदास्त्रम इदम आहवे ॥ 77 ॥
तथेति तत परतिश्रुत्य बीभत्सुः स कृताञ्जलिः जग्राह परमास्त्रं तदाह चैनं पुनर गुरुः भविता तवत्समॊ नान्यः पुमाँल लॊके धनुर्धरः ॥ 78 ॥
आदिपर्व · Adi Parva
अध्याय 123
Reach this point to mark the section finished.
Continue to अध्याय 124