धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 122

  1. [वै] ततॊ दरुपदम आसाद्य भरद्वाजः परतापवान अब्रवीत पार्षतं राजन सखायं विद्धि माम इति ॥ 1 ॥

  2. [दरुपद] अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी यन मां बरवीषि परसभं सखा ते ऽहम इति दविज ॥ 2 ॥

  3. न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः ॥ 3 ॥

  4. सौहृदान्य अपि जीर्यन्ते कालेन परिजीर्यताम सौहृदं मे तवया हय आसीत पूर्वं सामर्थ्य बन्धनम ॥ 4 ॥

  5. न सख्यम अजरं लॊके जातु दृश्येत कर्हि चित कामॊ वैनं विहरति करॊधश चैनं परवृश्चति ॥ 5 ॥

  6. मैवं जीर्णम उपासिष्ठाः सख्यं नवम उपाकुरु आसीत सख्यं दविजश्रेष्ठ तवया मे ऽरथनिबन्धनम ॥ 6 ॥

  7. न दरिद्रॊ वसुमतॊ नाविद्वान विदुषः सखा शूरस्य न सखा कलीबः सखिपूर्वं किम इष्यते ॥ 7 ॥

  8. ययॊर एव समं वित्तं ययॊर एव समं कुलम तयॊः सख्यविवाहश च न तु पुष्टविपुष्टयॊः ॥ 8 ॥

  9. नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा नाराज्ञा संगतं राज्ञः सखिपूर्वं किम इष्यते ॥ 9 ॥

  10. [वै] दरुपदेनैवम उक्तस तु भारद्वाजः परतापवान मुहूर्तं चिन्तयाम आस मन्युनाभिपरिप्लुतः ॥ 10 ॥

  11. स विनिश्चित्य मनसा पाञ्चालं परति बुद्धिमान जगाम कुरुमुख्यानां नगरं नागसाह्वयम ॥ 11 ॥

  12. कुमारास तव अथ निष्क्रम्य समेता गजसाह्वयात करीडन्तॊ वीटया तत्र वीराः पर्यचरन मुदा ॥ 12 ॥

  13. पपात कूपे सा वीटा तेषां वै करीडतां तदा न च ते परत्यपद्यन्त कर्म वीटॊपलब्धये ॥ 13 ॥

  14. अथ दरॊणः कुमारांस तान दृष्ट्वा कृत्यवतस तदा परहस्य मन्दं पैशल्याद अभ्यभाषत वीर्यवान ॥ 14 ॥

  15. अहॊ नु धिग बलं कषात्रं धिग एतां वः कृतास्त्रताम भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥ 15 ॥

  16. एष मुष्टिर इषीकाणां मयास्त्रेणाभिमन्त्रितः अस्य वीर्यं निरीक्षध्वं यद अन्यस्य न विद्यते ॥ 16 ॥

  17. वेत्स्यामीषीकया वीटां ताम इषीकाम अथान्यया ताम अन्यया समायॊगॊ वीटाया गरहणे मम ॥ 17 ॥

  18. तद अपश्यन कुमारास ते विस्मयॊत्फुल्ललॊचनाः अवेष्क्य चॊद्धृतां वीटां वीटा वेद्धारम अब्रुवन ॥ 18 ॥

  19. अभिवादयामहे बरह्मन नैतद अन्येषु विद्यते कॊ ऽसि कं तवाभिजानीमॊ वयं किं करवामहे ॥ 19 ॥

  20. [दरॊण] आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश च माम स एव सुमहाबुद्धिः सांप्रतं परतिपत्स्यते ॥ 20 ॥

  21. [वै] तथेत्य उक्त्वा तु ते सर्वे भीष्मम ऊचुः पितामहम बराह्मणस्य वचस तथ्यं तच च कर्मविशेषवत ॥ 21 ॥

  22. भीष्मः शरुत्वा कुमाराणां दरॊणं तं परत्यजानत युक्तरूपः स हि गुरुर इत्य एवम अनुचिन्त्य च ॥ 22 ॥

  23. अथैनम आनीय तदा सवयम एव सुसत्कृतम परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः हेतुम आगमने तस्य दरॊणः सर्वं नयवेदयत ॥ 23 ॥

  24. महर्षेर अग्निवेश्यस्य सकाशम अहम अच्युत अस्त्रार्थम अगमं पूर्वं धनुर्वेद जिघृक्षया ॥ 24 ॥

  25. बरह्म चारी विनीतात्मा जटिलॊ बहुलाः समाः अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया ॥ 25 ॥

  26. पाञ्चालराजपुत्रस तु यज्ञसेनॊ महाबलः मया सहाकरॊद विद्यां गुरॊः शराम्यन समाहितः ॥ 26 ॥

  27. स मे तत्र सखा चासीद उपकारी परियश च मे तेनाहं सह संगम्य रतवान सुचिरं बत बाल्यात परभृति कौरव्य सहाध्ययनम एव च ॥ 27 ॥

  28. स समासाद्य मां तत्र परियकारी परियंवदः अब्रवीद इति मां भीष्म वचनं परीतिवर्धनम ॥ 28 ॥

  29. अहं परियतमः पुत्रः पितुर दरॊण महात्मनः अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यॊ यदा तदा ॥ 29 ॥

  30. तवद भॊज्यं भविता राज्यं सखे सत्येन ते शपे मम भॊगाश च वित्तं च तवदधीनं सुखानि च ॥ 30 ॥

  31. एवम उक्तः परवव्राज कृतास्त्रॊ ऽहं धनेप्सया अभिषिक्तं च शरुत्वैनं कृतार्थॊ ऽसमीति चिन्तयन ॥ 31 ॥

  32. परियं सखायं सुप्रीतॊ राज्यस्थं पुनर आव्रजम संस्मरन संगमं चैव वचनं चैव तस्य तत ॥ 32 ॥

  33. ततॊ दरुपदम आगम्य सखिपूर्वम अहं परभॊ अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम इति ॥ 33 ॥

  34. उपस्थितं तु दरुपदः सखिवच चाभिसंगतम स मां निराकारम इव परहसन्न इदम अब्रवीत ॥ 34 ॥

  35. अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी यद आत्थ मां तवं परसभं सखा ते ऽहम इति दविज ॥ 35 ॥

  36. न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः ॥ 36 ॥

  37. नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते ॥ 37 ॥

  38. दरुपदेनैवम उक्तॊ ऽहं मन्युनाभिपरिप्लुतः अभ्यागच्छं कुरून भीष्म शिष्यैर अर्थी गुणान्वितैः ॥ 38 ॥

  39. परतिजग्राह तं भीष्मॊ गुरुं पाण्डुसुतैः सह पौत्रान आदाय तान सर्वान वसूनि विविधानि च ॥ 39 ॥

  40. शिष्या इति ददौ राजन दरॊणाय विधिपूर्वकम स च शिष्यान महेष्वासः परतिजग्राह कौरवान ॥ 40 ॥

  41. परतिगृह्य च तान सर्वान दरॊणॊ वचनम अब्रवीत रहस्य एकः परतीतात्मा कृतॊपसदनांस तदा ॥ 41 ॥

  42. कार्यं मे काङ्क्षितं किं चिद धृदि संपरिवर्तते कृतास्त्रैस तत परदेयं मे तद ऋतं वदतानघाः ॥ 42 ॥

  43. तच छरुत्वा कौरवेयास ते तूष्णीम आसन विशां पते अर्जुनस तु ततः सर्वं परतिजज्ञे परंतपः ॥ 43 ॥

  44. ततॊ ऽरजुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः परीतिपूर्वं परिष्वज्य पररुरॊद मुदा तदा ॥ 44 ॥

  45. ततॊ दरॊणः पाण्डुपुत्रान अस्त्राणि विविधानि च गराहयाम आस दिव्यानि मानुषाणि च वीर्यवान ॥ 45 ॥

  46. राजपुत्रास तथैवान्ये समेत्य भरतर्षभ अभिजग्मुस ततॊ दरॊणम अस्त्रार्थे दविजसत्तमम वृष्णयश चान्धकाश चैव नानादेश्याश च पार्थिवाः ॥ 46 ॥

  47. सूतपुत्रश च राधेयॊ गुरुं दरॊणम इयात तदा सपर्धमानस तु पार्थेन सूतपुत्रॊ ऽतयमर्षणः दुर्यॊधनम उपाश्रित्य पाण्डवान अत्यमन्यत ॥ 47 ॥

Reach this point to mark the section finished.

Continue to अध्याय 123

Previous: अध्याय 121