[वै] विशेषार्थी ततॊ भीष्मः पौत्राणां विनयेप्सया इष्वस्त्रज्ञान पर्यपृच्छद आचार्यान वीर्यसंमतान ॥ 1 ॥
नाल्पधीर नामहा भागस तथानानास्त्र कॊविदः नादेव सत्त्वॊ विनयेत कुरून अस्त्रे महाबलान ॥ 2 ॥
महर्षिस तु भरद्वाजॊ हविर्धाने चरन पुरा ददर्शाप्सरसं साक्षाद घृताचीम आप्लुताम ऋषिः ॥ 3 ॥
तस्या वायुः समुद्धूतॊ वसनं वयपकर्षत ततॊ ऽसय रेतश चस्कन्द तद ऋषिर दरॊण आदधे ॥ 4 ॥
तस्मिन समभवद दरॊणः कलशे तस्य धीमतः अध्यगीष्ट स वेदांश च वेदाङ्गानि च सर्वशः ॥ 5 ॥
अग्निवेश्यं महाभागं भरद्वाजः परतापवान परत्यपादयद आग्नेयम अस्त्रधर्मभृतां वरः ॥ 6 ॥
अग्निष्टुज जातः स मुनिस ततॊ भरतसत्तम भारद्वाजं तदाग्नेयं महास्त्रं परत्यपादयत ॥ 7 ॥
भरद्वाज सखा चासीत पृषतॊ नाम पार्थिवः तस्यापि दरुपदॊ नाम तदा समभवत सुतः ॥ 8 ॥
स नित्यम आश्रमं गत्वा दरॊणेन सह पार्षतः चिक्रीडाध्ययनं चैव चकार कषत्रियर्षभः ॥ 9 ॥
ततॊ वयतीते पृषते स राजा दरुपदॊ ऽभवत पाञ्चालेषु महाबाहुर उत्तरेषु नरेश्वरः ॥ 10 ॥
भरद्वाजॊ ऽपि भगवान आरुरॊह दिवं तदा ततः पितृनियुक्तात्मा पुत्र लॊभान महायशाः शारद्वतीं ततॊ दरॊणः कृपीं भार्याम अविन्दत ॥ 11 ॥
अग्निहॊत्रे च धर्मे च दमे च सततं रता अलभद गौतमी पुत्रम अश्वत्थामानम एव च ॥ 12 ॥
स जातमात्रॊ वयनदद यथैवॊच्चैः शरवा हयः तच छरुत्वान्तर्हितं भूतम अन्तरिक्षस्थम अब्रवीत ॥ 13 ॥
अश्वस्येवास्य यत सथाम नदतः परदिशॊ गतम अश्वत्थामैव बालॊ ऽयं तस्मान नाम्ना भविष्यति ॥ 14 ॥
सुतेन तेन सुप्रीतॊ भारद्वाजस ततॊ ऽभवत तत्रैव च वसन धीमान धनुर्वेद परॊ ऽभवत ॥ 15 ॥
स शुश्राव महात्मानं जामदग्न्यं परंतपम बराह्मणेभ्यस तदा राजन दित्सन्तं वसु सर्वशः ॥ 16 ॥
वनं तु परस्थितं रामं भारद्वाजस तदाब्रवीत आगतं वित्तकामं मां विद्धि दरॊणं दविजर्षभम ॥ 17 ॥
[राम] हिरण्यं मम यच चान्यद वसु किं चन विद्यते बराह्मणेभ्यॊ मया दत्तं सर्वम एव तपॊधन ॥ 18 ॥
तथैवेयं धरा देवी सागरान्ता सपत्तना कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥ 19 ॥
शरीरमात्रम एवाद्य मयेदम अवशेषितम अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च वृणीष्व किं परयच्छामि तुभ्यं दरॊण वदाशु तत ॥ 20 ॥
[दरॊण] अस्त्राणि मे समग्राणि ससंहाराणि भार्गव सप्रयॊग रहस्यानि दातुम अर्हस्य अशेषतः ॥ 21 ॥
[वै] तथेत्य उक्त्वा ततस तस्मै परादाद अस्त्राणि भार्गवः सरहस्य वरतं चैव धनुर्वेदम अशेषतः ॥ 22 ॥
परतिगृह्य तु तत सर्वं कृतास्त्रॊ दविजसत्तमः परियं सखायं सुप्रीतॊ जगाम दरुपदं परति ॥ 23 ॥
आदिपर्व · Adi Parva
अध्याय 121
Reach this point to mark the section finished.
Continue to अध्याय 122