धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 120

  1. [ज] कृपस्यापि महाब्रह्मन संभवं वक्तुम अर्हसि शरस्तम्भात कथं जज्ञे कथं चास्त्राण्य अवाप्तवान ॥ 1 ॥

  2. [वै] महर्षेर गतमस्यासीच छरद्वान नाम नामतः पुत्रः किल महाराज जातः सह शरैर विभॊ ॥ 2 ॥

  3. न तस्य वेदाध्ययने तथा बुद्धिर अजायत यथास्य बुद्धिर अभवद धनुर्वेदे परंतप ॥ 3 ॥

  4. अधिजग्मुर यथा वेदांस तपसा बरह्मवादिनः तथा स तपसॊपेतः सर्वाण्य अस्त्राण्य अवाप ह ॥ 4 ॥

  5. धनुर्वेद परत्वाच च तपसा विपुलेन च भृशं संतापयाम आस देवराजं स गौतमः ॥ 5 ॥

  6. ततॊ जालपदीं नाम देवकन्यां सुरेश्वरः पराहिणॊत तपसॊ विघ्नं कुरु तस्येति कौरव ॥ 6 ॥

  7. साभिगम्याश्रमपदं रमणीयं शरद्वतः धनुर बाणधरं बाला लॊभयाम आस गौतमम ॥ 7 ॥

  8. ताम एकवसनां दृष्ट्वा गौतमॊ ऽपसरसं वने लॊके ऽपरतिमसंस्थानाम उत्फुल्लनयनॊ ऽभवत ॥ 8 ॥

  9. धनुश च हि शराश चास्य कराभ्यां परापतन भुवि वेपथुश चास्य तां दृष्ट्वा शरीरे समजायत ॥ 9 ॥

  10. स तु जञानगरीयस्त्वात तपसश च समन्वयात अवतस्थे महाप्राज्ञॊ धैर्येण परमेण ह ॥ 10 ॥

  11. यस तव अस्य सहसा राजन विकारः समपद्यत तेन सुस्राव रेतॊ ऽसय स च तन नावबुध्यत ॥ 11 ॥

  12. स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः जगाम रेतस तत तस्य शरस्तम्बे पपात ह ॥ 12 ॥

  13. शरस्तम्बे च पतितं दविधा तद अभवन नृप तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥ 13 ॥

  14. मृगयां चरतॊ राज्ञः शंतनॊस तु यदृच्छया कश चित सेना चरॊ ऽरण्ये मिथुनं तद अपश्यत ॥ 14 ॥

  15. धनुश च सशरं दृष्ट्वा तथा कृष्णाजिनानि च वयवस्य बराह्मणापत्यं धनुर्वेदान्तगस्य तत स राज्ञे दर्शयाम आस मिथुनं सशरं तदा ॥ 15 ॥

  16. स तद आदाय मिथुनं राजाथ कृपयान्वितः आजगाम गृहान एव मम पुत्राव इति बरुवन ॥ 16 ॥

  17. ततः संवर्धयाम आस संस्कारैश चाप्य अयॊजयत गौतमॊ ऽपि तदापेत्य धनुर्वेद परॊ ऽभवत ॥ 17 ॥

  18. कृपया यन मया बालाव इमौ संवर्धिताव इति तस्मात तयॊर नाम चक्रे तद एव स महीपतिः ॥ 18 ॥

  19. निहितौ गौतमस तत्र तपसा ताव अविन्दत आगम्य चास्मै गॊत्रादि सर्वम आख्यातवांस तदा ॥ 19 ॥

  20. चतुर्विधं धनुर्वेदम अस्त्राणि विविधानि च निखिलेनास्य तत सर्वं गुह्यम आख्यातवांस तदा सॊ ऽचिरेणैव कालेन परमाचार्यतां गतः ॥ 20 ॥

  21. ततॊ ऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः धृतराष्ट्रात्मजाश चैव पाण्डवाश च महाबलाः वृष्णयश च नृपाश चान्ये नानादेशसमागताः ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 121

Previous: अध्याय 119