[व] ततः कषत्ता च राजा च भीष्मश च सह बन्धुभिः ददुः शराद्धं तदा पाण्डॊः सवधामृतमयं तदा ॥ 1 ॥
कुरूंश च विप्रमुख्यांश च भॊजयित्वा सहस्रशः रत्नौघान दविजमुख्येभ्यॊ दत्त्वा गरामवरान अपि ॥ 2 ॥
कृतशौचांस ततस तांस तु पाण्डवान भरतर्षभान आदाय विविशुः पौराः पुरं वारणसाह्वयम ॥ 3 ॥
सततं समान्वतप्यन्त तम एव भरतर्षभम पौरजानपदाः सर्वे मृतं सवम इव बान्धवम ॥ 4 ॥
शराद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम संमूढां दुःखशॊकार्तां वयासॊ मातरम अब्रवीत ॥ 5 ॥
अतिक्रान्त सुखाः कालाः परत्युपस्थित दारुणाः शवः शवः पापीय दिवसाः पृथिवी गतयौवना ॥ 6 ॥
बहु माया समाकीर्णॊ नाना दॊषसमाकुलः लुप्तधर्मक्रियाचारॊ घॊरः कालॊ भविष्यति ॥ 7 ॥
गच्छ तवं तयागम आस्थाय युक्ता वस तपॊवने मा दरक्ष्यसि कुलस्यास्य घॊरं संक्षयम आत्मनः ॥ 8 ॥
तथेति समनुज्ञाय सा परविश्याब्रवीत सनुषाम अम्बिके तव पुत्रस्य दुर्नयात किल भारताः सानुबन्धा विनङ्क्ष्यन्ति पौराश चैवेति नः शरुतम ॥ 9 ॥
तत कौसल्याम इमाम आर्तां पुत्रशॊकाभिपीडिताम वनम आदाय भद्रं ते गच्छावॊ यदि मन्यसे ॥ 10 ॥
तथेत्य उक्ते अम्बिकया भीष्मम आमन्त्र्य सुव्रता वनं ययौ सत्यवती सनुषाभ्यां सह भारत ॥ 11 ॥
ताः सुघॊरं तपः कृत्वा देव्यॊ भरतसत्तम देहं तयक्त्वा महाराज गतिम इष्टां ययुस तदा ॥ 12 ॥
अवाप्नुवन्त वेदॊक्तान संस्कारान पाण्डवास तदा अवर्धन्त च भॊगांस ते भुञ्जानाः पितृवेश्मनि ॥ 13 ॥
धार्तराष्ट्रैश च सहिताः करीडन्तः पितृवेश्मनि बाल करीडासु सर्वासु विशिष्टाः पाण्डवाभवन ॥ 14 ॥
जवे लक्ष्याभिहरणे भॊज्ये पांसुविकर्षणे धार्तराष्ट्रान भीमसेनः सर्वान स परिमर्दति ॥ 15 ॥
हर्षाद एतान करीडमानान गृह्य काकनिलीयने शिरःसु च निगृह्यैनान यॊधयाम आस पाण्डवः ॥ 16 ॥
शतम एकॊत्तरं तेषां कुमाराणां महौजसाम एक एव विमृद्नाति नातिकृच्छ्राद वृकॊदरः ॥ 17 ॥
पादेषु च निगृह्यैनान विनिहत्य बलाद बली चकर्ष करॊशतॊ भूमौ घृष्ट जानु शिरॊ ऽकषिकान ॥ 18 ॥
दश बालाञ जले करीडन भुजाभ्यां परिगृह्य सः आस्ते सम सलिले मग्नः परमृतांश च विमुञ्चति ॥ 19 ॥
फलानि वृक्षम आरुह्य परचिन्वन्ति च ते यदा तदा पादप्रहारेण भीमः कम्पयते दरुमम ॥ 20 ॥
परहार वेगाभिहताद दरुमाद वयाघूर्णितास ततः सफलाः परपतन्ति सम दरुतं सरस्ताः कुमारकाः ॥ 21 ॥
न ते नियुद्धे न जवे न यॊग्यासु कदा चन कुमारा उत्तरं चक्रुः सपर्धमाना वृकॊदरम ॥ 22 ॥
एवं स धार्तराष्ट्राणां सपर्धमानॊ वृकॊदरः अप्रिये ऽतिष्ठद अत्यन्तं बाल्यान न दरॊह चेतसा ॥ 23 ॥
ततॊ बलम अतिख्यातं धार्तराष्ट्रः परतापवान भीमसेनस्य तज्ज्ञात्वा दुष्टभावम अदर्शयत ॥ 24 ॥
तस्य धर्माद अपेतस्य पापानि परिपश्यतः मॊहाद ऐश्वर्यलॊभाच च पापा मतिर अजायत ॥ 25 ॥
अयं बलवतां शरेष्ठः कुन्तीपुत्रॊ वृकॊदरः मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम ॥ 26 ॥
अथ तस्माद अवरजं जयेष्ठं चैव युधिष्ठिरम परसह्य बन्धने बद्ध्वा परशासिष्ये वसुंधराम ॥ 27 ॥
एवं स निश्चयं पापः कृत्वा दुर्यॊधनस तदा नित्यम एवान्तर परेक्षी भीमस्यासीन महात्मनः ॥ 28 ॥
ततॊ जलविहारार्थं कारयाम आस भारत चेल कम्बलवेश्मानि विचित्राणि महान्ति च ॥ 29 ॥
परमाण कॊट्याम उद्देशं सथलं किं चिद उपेत्य च करीडावसाने सर्वे ते शुचि वस्त्राः सवलंकृताः सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥ 30 ॥
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः विहारावसथेष्व एव वीरा वासम अरॊचयन ॥ 31 ॥
खिन्नस तु बलवान भीमॊ वयायामाभ्यधिकस तदा वाहयित्वा कुमारांस ताञ जलक्रीडा गतान विभुः परमाण कॊट्यां वासार्थी सुष्वापारुह्य तत सथलम ॥ 32 ॥
शीतं वासं समासाद्य शरान्तॊ मदविमॊहितः निश्चेष्टः पाण्डवॊ राजन सुष्वाप मृतकल्पवत ॥ 33 ॥
ततॊ बद्ध्वा लता पाशैर भीमं दुर्यॊधनः शनैः गम्भीरं भीमवेगं च सथलाज जलम अपातयत ॥ 34 ॥
ततः परबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम उदतिष्ठज जलाद भूयॊ भीमः परहरतां वरः ॥ 35 ॥
सुप्तं चापि पुनः सर्पैस तीक्ष्णदंष्ट्रैर महाविषैः कुपितैर दंशयाम आस सर्वेष्व एवाङ्गमर्मसु ॥ 36 ॥
दंष्ट्राश च दंष्ट्रिणां तेषां मर्मस्व अपि निपातिताः तवचं नैवास्य बिभिदुः सारत्वात पृथुवक्षसः ॥ 37 ॥
परतिबुद्धस तु भीमस तान सर्वान सर्पान अपॊथयत सारथिं चास्य दयितम अपहस्तेन जघ्निवान ॥ 38 ॥
भॊजने भीमसेनस्य पुनः पराक्षेपयद विषम कालकूटं नवं तीक्ष्णं संभृतं लॊमहर्षणम ॥ 39 ॥
वैश्यापुत्रस तदाचष्ट पार्थानां हितकाम्यया तच चापि भुक्त्वाजरयद अविकारॊ वृकॊदरः ॥ 40 ॥
विकारं न हय अजनयत सुतीक्ष्णम अपि तद विषम भीम संहननॊ भीमस तद अप्य अजरयत ततः ॥ 41 ॥
एवं दुर्यॊधनः कर्णः शकुनिश चापि सौबलः अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान ॥ 42 ॥
पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः ॥ 43 ॥
आदिपर्व · Adi Parva
अध्याय 119
Reach this point to mark the section finished.
Continue to अध्याय 120