धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 118

  1. [ध] पाण्डॊर विदुर सर्वाणि परेतकार्याणि कारय राजवद राजसिंहस्य माद्र्याश चैव विशेषतः ॥ 1 ॥

  2. पशून वासांसि रत्नानि धनानि विविधानि च पाण्डॊः परयच्छ माद्र्याश च येभ्यॊ यावच च वाञ्छितम ॥ 2 ॥

  3. यथा च कुन्ती सत्कारं कुर्यान माध्र्यास तथा कुरु यथा न वायुर नादित्यः पश्येतां तां सुसंवृताम ॥ 3 ॥

  4. न शॊच्यः पाण्डुर अनघः परशस्यः स नराधिपः यस्य पञ्च सुता वीरा जाताः सुरसुतॊपमाः ॥ 4 ॥

  5. [व] विदुरस तं तथेत्य उक्त्वा भीष्मेण सह भारत पाण्डुं संस्कारयाम आस देशे परमसंवृते ॥ 5 ॥

  6. ततस तु नगरात तूर्णम आज्यहॊमपुरस्कृताः निर्हृताः पावका दीप्ताः पाण्डॊ राजपुरॊहितैः ॥ 6 ॥

  7. अथैनम आर्तवैर गन्धैर माल्यैश च विविधैर वरैः शिबिकां समलंचक्रुर वाससाच्छाद्य सर्वशः ॥ 7 ॥

  8. तां तथा शॊभितां माल्यैर वासॊभिश च महाधनैः अमात्या जञातयश चैव सुहृदश चॊपतस्थिरे ॥ 8 ॥

  9. नृसिंहं नरयुक्तेन परमालंकृतेन तम अवहन यानमुख्येन सह माद्र्या सुसंवृतम ॥ 9 ॥

  10. पाण्डुरेणातपत्रेण चामरव्यजनेन च सर्ववादित्र नादैश च समलंचक्रिरे ततः ॥ 10 ॥

  11. रत्नानि चाप्य उपादाय बहूनि शतशॊ नराः परददुः काङ्क्षमाणेभ्यः पाण्डॊस तत्रौर्ध्वदेकिकम ॥ 11 ॥

  12. अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥ 12 ॥

  13. जायकैः शुक्लवासॊभिर हूयमाना हुताशनाः अगच्छन्न अग्रतस तस्य दीप्यमानाः सवलंकृताः ॥ 13 ॥

  14. बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव सहस्रशः रुदन्तः शॊकसंतप्ता अनुजग्मुर नराधिपम ॥ 14 ॥

  15. अयम अस्मान अपाहाय दुःखे चाधाय शाश्वते कृत्वानाथान परॊ नाथः कव यास्यति नराधिपः ॥ 15 ॥

  16. करॊशन्तः पाण्डवाः सर्वे भीष्मॊ विदुर एव च रमणीये वनॊद्देशे गङ्गातीरे समे शुभे ॥ 16 ॥

  17. नयासयाम आसुर अथ तां शिबिकां सत्यवादिनः सभार्यस्य नृसिंहस्य पाण्डॊर अक्लिष्टकर्मणः ॥ 17 ॥

  18. ततस तस्य शरीरं तत सर्वगन्धनिषेवितम शुचि कालीयकादिग्धं मुख्यस्नानाधिवासितम पर्यषिञ्चज जलेनाशु शातकुम्भमयैर घटैः ॥ 18 ॥

  19. चन्दनेन च मुख्येन शुक्लेन समलेपयन कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥ 19 ॥

  20. अथैनं देशजैः शुक्लैर वासॊभिः समयॊजयन आच्छन्नः स तु वासॊभिर जीवन्न इव नरर्षभः शुशुभे पुरुषव्याघ्रॊ महार्हशयनॊचितः ॥ 20 ॥

  21. याजकैर अभ्यनुज्ञातं परेतकर्मणि निष्ठितैः घृतावसिक्तं राजानं सह माद्र्या सवलंकृतम ॥ 21 ॥

  22. तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना अन्यैश च विविधैर गन्धैर अनल्पैः समदाहयन ॥ 22 ॥

  23. ततस तयॊः शरीरे ते दृष्ट्वा मॊहवशं गता हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥ 23 ॥

  24. तां परेक्ष्य पतिताम आर्तां पौरजानपदॊ जनः रुरॊद सस्वनं सर्वॊ राजभक्त्या कृपान्वितः ॥ 24 ॥

  25. कलान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः मानुषैः सह भूतानि तिर्यग्यॊनिगतान्य अपि ॥ 25 ॥

  26. तथा भीष्मः शांतनवॊ विदुरश च महामतिः सर्वशः कौरवाश चैव पराणदन भृशदुःखिताः ॥ 26 ॥

  27. ततॊ भीष्मॊ ऽथ विदुरॊ राजा च सह बन्धुभिः उदकं चक्रिरे तस्य सर्वाश च कुरु यॊषितः ॥ 27 ॥

  28. कृतॊदकांस तान आदाय पाण्डवाञ शॊककर्शितान सर्वाः परकृतयॊ राजञ शॊचन्त्यः पर्यवारयन ॥ 28 ॥

  29. यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः तथैव नागरा राजञ शिश्यिरे बराह्मणादयः ॥ 29 ॥

  30. तद अनानन्दम अस्वस्थम आकुमारम अहृष्टवत बभूव पाण्डवैः सार्धं नगरं दवादश कषपाः ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 119

Previous: अध्याय 117