धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 115

  1. [व] कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च मद्रराजसुता पाण्डुं रहॊ वचनम अब्रवीत ॥ 1 ॥

  2. न मे ऽसति तवयि संतापॊ विगुणे ऽपि परंतप नावरत्वे वरार्हायाः सथित्वा चानघ नित्यदा ॥ 2 ॥

  3. गान्धार्याश चैव नृपते जातं पुत्रशतं तथा शरुत्वा न मे तथा दुःखम अभवत कुरुनन्दन ॥ 3 ॥

  4. इदं तु मे महद दुःखं तुल्यतायाम अपुत्रता दिष्ट्या तव इदानीं भर्तुर मे कुन्त्याम अप्य अस्ति संततिः ॥ 4 ॥

  5. यदि तव अपत्यसंतानं कुन्ति राजसुता मयि कुर्याद अनुग्रहॊ मे सयात तव चापि हितं भवेत ॥ 5 ॥

  6. सतम्भॊ हि मे सपत्नीत्वाद वक्तुं कुन्ति सुतां परति यदि तु तवं परसन्नॊ मे सवयम एनां परचॊदय ॥ 6 ॥

  7. [प] ममाप्य एष सदा माद्रि हृद्य अर्थः परिवर्तते न तु तवां परसहे वक्तुम इष्टानिष्ट विवक्षया ॥ 7 ॥

  8. तव तव इदं मतं जञात्वा परयतिष्याम्य अतः परम मन्ये धरुवं मयॊक्ता सा वचॊ मे परतिपत्स्यते ॥ 8 ॥

  9. [व] ततः कुन्तीं पुनः पाण्डुर विविक्त इदम अब्रवीत कुलस्य मम संतानं लॊकस्य च कुरु परियम ॥ 9 ॥

  10. मम चापिण्ड नाशाय पूर्वेषाम अपि चात्मनः मत्प्रियार्थं च कल्याणि कुरु कल्याणम उत्तमम ॥ 10 ॥

  11. यशसॊ ऽरथाय चैव तवं कुरु कर्म सुदुष्करम पराप्याधिपत्यम इन्द्रेण यज्ञैर इष्टं यशॊऽरथिना ॥ 11 ॥

  12. तथा मन्त्रविदॊ विप्रास तपस तप्त्वा सुदुष्करम गुरून अभ्युपगच्छन्ति यशसॊ ऽरथाय भामिनि ॥ 12 ॥

  13. तथा राजर्षयः सर्वे बराह्मणाश च तपॊधनाः चक्रुर उच्चावचं कर्म यशसॊ ऽरथाय दुष्करम ॥ 13 ॥

  14. सा तवं माद्रीं पलवेनेव तारयेमाम अनिन्दिते अपत्यसंविभागेन परां कीर्तिम अवाप्नुहि ॥ 14 ॥

  15. एवम उक्ताब्रवीन माद्रीं सकृच चिन्तय दैवतम तस्मात ते भवितापत्यम अनुरूपम असंशयम ॥ 15 ॥

  16. ततॊ माद्री विचार्यैव जगाम मनसाश्विनौ ताव आगम्य सुतौ तस्यां जनयाम आसतुर यमौ ॥ 16 ॥

  17. नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि तथैव ताव अपि यमौ वाग उवाचाशरीरिणी ॥ 17 ॥

  18. रूपसत्त्वगुणॊपेताव एताव अन्याञ जनान अति भासतस तेजसात्यर्थं रूपद्रविण संपदा ॥ 18 ॥

  19. नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः भक्त्या च कर्मणा चैव तथाशीर्भिर विशां पते ॥ 19 ॥

  20. जयेष्ठं युधिष्ठिरेत्य आहुर भीमसेनेति मध्यमम अर्जुनेति तृतीयं च कुन्तीपुत्रान अकल्पयन ॥ 20 ॥

  21. पूर्वजं नकुलेत्य एवं सहदेवेति चापरम माद्रीपुत्राव अकथयंस ते विप्राः परीतमानसाः अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥ 21 ॥

  22. कुन्तीम अथ पुनः पाण्डुर माद्र्य अर्थे समचॊदयत तम उवाच पृथा राजन रहस्य उक्ता सती सदा ॥ 22 ॥

  23. उक्ता सकृद दवन्द्वम एषा लेभे तेनास्मि वञ्चिता बिभेम्य अस्याः परिभवान नारीणां गतिर ईदृशी ॥ 23 ॥

  24. नाज्ञासिषम अहं मूढा दवन्द्वाह्वाने फलद्वयम तस्मान नाहं नियॊक्तव्या तवयैषॊ ऽसतु वरॊ मम ॥ 24 ॥

  25. एवं पाण्डॊः सुताः पञ्च देवदत्ता महाबलाः संभूताः कीर्तिमन्तस ते कुरुवंशविवर्धनाः ॥ 25 ॥

  26. शुभलक्षणसंपन्नाः सॊमवत परियदर्शनाः सिंहदर्पा महेष्वासाः सिंहविक्रान्त गामिनः सिंहग्रीवा मनुष्येन्द्रा ववृधुर देव विक्रमाः ॥ 26 ॥

  27. विवर्धमानास ते तत्र पुण्ये हैमवते गिरौ विस्मयं जनयाम आसुर महर्षीणां समेयुषाम ॥ 27 ॥

  28. ते च पञ्चशतं चैव कुरुवंशविवर्धनाः सर्वे ववृधुर अल्पेन कालेनाप्स्व इव नीरजाः ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 116

Previous: अध्याय 114