[व] संवत्सराहिते गर्भे गान्धार्या जनमेजय आह्वयाम आस वै कुन्ती गर्भार्थं धर्मम अच्युतम ॥ 1 ॥
सा बलिं तवरिता देवी धर्मायॊपजहार ह जजाप जप्यं विधिवद दत्तं दुर्वाससा पुरा ॥ 2 ॥
संगम्य सा तु धर्मेण यॊगमूर्ति धरेण वै लेभे पुत्रं वरारॊहा सर्वप्राणभृतां वरम ॥ 3 ॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्ते ऽभिजिते ऽषटमे दिवा मध्यगते सूर्ये तिथौ पुण्ये ऽभिपूजिते ॥ 4 ॥
समृद्धयशसं कुन्ती सुषाव समये सुतम जातमात्रे सुते तस्मिन वाग उवाचाशरीरिणी ॥ 5 ॥
एष धर्मभृतां शरेष्ठॊ भविष्यति न संशयः युधिष्ठिर इति खयातः पाण्डॊः परथमजः सुतः ॥ 6 ॥
भविता परथितॊ राजा तरिषु लॊकेषु विश्रुतः यशसा तेजसा चैव वृत्तेन च समन्वितः ॥ 7 ॥
धार्मिकं तं सुतं लब्ध्वा पाण्डुस तां पुनर अब्रवीत पराहुः कषत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥ 8 ॥
ततस तथॊक्ता पत्या तु वायुम एवाजुहाव सा तस्माज जज्ञे महाबाहुर भीमॊ भीमपराक्रमः ॥ 9 ॥
तम अप्य अतिबलं जातं वाग अभ्यवदद अच्युतम सर्वेषां बलिनां शरेष्ठॊ जातॊ ऽयम इति भारत ॥ 10 ॥
इदम अत्यद्भुतं चासीज जातमात्रे वृकॊदरे यद अङ्कात पतितॊ मातुः शिलां गात्रैर अचूर्णयत ॥ 11 ॥
कुन्ती वयाघ्रभयॊद्विग्ना सहसॊत्पतिता किल नान्वबुध्यत संसुप्तम उत्सङ्गे सवे वृकॊदरम ॥ 12 ॥
ततः स वर्ज संघातः कुमारॊ ऽभयपतद गिरौ पतता तेन शतधा शिला गात्रैर विचूर्णिता तां शिलां चूर्णितां दृष्ट्वा पाण्डुर विस्मयम आगमत ॥ 13 ॥
यस्मिन्न अहनि भीमस तु जज्ञे भरतसत्तम दुर्यॊधनॊ ऽपि तत्रैव परजज्ञे वसुधाधिप ॥ 14 ॥
जाते वृकॊदरे पाण्डुर इदं भूयॊ ऽनवचिन्तयत कथं नु मे वरः पुत्रॊ लॊकश्रेष्ठॊ भवेद इति ॥ 15 ॥
दैवे पुरुषकारे च लॊकॊ ऽयं हि परतिष्ठितः तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥ 16 ॥
इन्द्रॊ हि राजा देवानां परधान इति नः शरुतम अप्रमेयबलॊत्साहॊ वीर्यवान अमितद्युतिः ॥ 17 ॥
तं तॊषयित्वा तपसा पुत्रं लप्स्ये महाबलम यं दास्यति स मे पुत्रं स वरीयान भविष्यति कर्मणा मनसा वाचा तस्मात तप्स्ये महत तपः ॥ 18 ॥
ततः पाण्डुर महातेजा मन्त्रयित्वा महर्षिभिः दिदेश कुन्त्याः कौरव्यॊ वरतं साम्वत्सरं शुभम ॥ 19 ॥
आत्मना च महाबाहुर एकपादस्थितॊ ऽभवत उग्रं स तप आतस्थे परमेण समाधिना ॥ 20 ॥
आरिराधयिषुर देवं तरिदशानां तम ईश्वरम सूर्येण सहधर्मात्मा पर्यवर्तत भारत ॥ 21 ॥
तं तु कालेन महता वासवः परत्यभाषत पुत्रं तव परदास्यामि तरिषु लॊकेषु विश्रुतम ॥ 22 ॥
देवानां बराह्मणानां च सुहृदां चार्थसाधकम सुतं ते ऽगर्यं परदास्यामि सर्वामित्र विनाशनम ॥ 23 ॥
इत्य उक्तः कौरवॊ राजा वासवेन महात्मना उवाच कुन्तीं धर्मात्मा देवराजवचः समरन ॥ 24 ॥
नीतिमन्तं महात्मानम आदित्यसमतेजसम दुराधर्षं करियावन्तम अतीवाद्भुत दर्शनम ॥ 25 ॥
पुत्रं जनय सुश्रॊणि धाम कषत्रिय तेजसाम लब्धः परसादॊ देवेन्द्रात तम आह्वय शुचिस्मिते ॥ 26 ॥
एवम उक्ता ततः शक्रम आजुहाव यशस्विनी अथाजगाम देवेन्द्रॊ जनयाम आस चार्जुनम ॥ 27 ॥
जातमात्रे कुमारे तु वाग उवाचाशरीरिणी महागम्भीर निर्घॊषा नभॊ नादयती तदा ॥ 28 ॥
कार्तवीर्य समः कुन्ति शिबितुल्यपराक्रमः एष शक्र इवाजेयॊ यशस ते परथयिष्यति ॥ 29 ॥
अदित्या विष्णुना परीतिर यथाभूद अभिवर्धिता तथा विष्णुसमः परीतिं वर्धयिष्यति ते ऽरजुनः ॥ 30 ॥
एष मद्रान वशे कृत्वा कुरूंश च सह केकयैः चेदिकाशिकरूषांश च कुरु लक्ष्म सुधास्यति ॥ 31 ॥
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम ॥ 32 ॥
गरामणीश च महीपालान एष जित्वा महाबलः भरातृभिः सहितॊ वीरस तरीन मेधान आहरिष्यति ॥ 33 ॥
जामदग्न्य समः कुन्ति विष्णुतुल्यपराक्रमः एष वीर्यवतां शरेष्ठॊ भविष्यत्य अपराजितः ॥ 34 ॥
तथा दिव्यानि चास्त्राणि निखिलान्य आहरिष्यति विप्रनष्टां शरियं चायम आहर्ता पुरुषर्षभः ॥ 35 ॥
एताम अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके उक्तवान वायुर आकाशे कुन्ती शुश्राव चास्य ताम ॥ 36 ॥
वाचम उच्चारिताम उच्चैस तां निशम्य तपस्विनाम बभूव परमॊ हर्षः शतशृङ्गनिवासिनाम ॥ 37 ॥
तथा देव ऋषीणां च सेन्द्राणां च दिवौकसाम आकाशे दुन्दुभीनां च बभूव तुमुलः सवनः ॥ 38 ॥
उदतिष्ठन महाघॊषः पुष्पवृष्टिभिर आवृतः समवेत्य च देवानां गणाः पार्थम अपूजयन ॥ 39 ॥
काद्रवेया वैनतेया गन्धर्वाप्सरसस तथा परजानां पतयः सर्वे सप्त चैव महर्षयः ॥ 40 ॥
भरद्वाजः कश्यपॊ गौतमश च; विश्वामित्रॊ जमदग्निर वसिष्ठः यश चॊदितॊ भास्करे ऽभूत परनष्टे; सॊ ऽपय अत्रात्रिर भगवान आजगाम ॥ 41 ॥
मरीचिर अङ्गिराश चैव पुलस्त्यः पुलहः करतुः दक्षः परजापतिश चैव गन्धर्वाप्सरसस तथा ॥ 42 ॥
दिव्यमाल्याम्बरधराः सर्वालंकार भूषिताः उपगायन्ति बीभत्सुम उपनृत्यन्ति चाप्सराः गन्धर्वैः सहितः शरीमान परागायत च तुम्बुरुः ॥ 43 ॥
भीमसेनॊग्र सेनौ च ऊर्णायुर अनघस तथा गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः ॥ 44 ॥
युगपस तृणपः कार्ष्णिर नन्दिश चित्ररथस तथा तरयॊदशः शालिशिराः पर्जन्यश च चतुर्दशः ॥ 45 ॥
कलिः पञ्चदशश चात्र नारदश चैव षॊडशः सद वा बृहद वा बृहकः करालश च महायशाः ॥ 46 ॥
बरह्म चारी बहुगुणः सुपर्णश चेति विश्रुतः विश्वावसुर भुमन्युश च सुचन्द्रॊ दशमस तथा ॥ 47 ॥
गीतमाधुर्य संपन्नौ विख्यातौ च हहाहुहू इत्य एते देवगन्धर्वा जगुस तत्र नरर्षभम ॥ 48 ॥
तथैवाप्सरसॊ हृष्टाः सर्वालंकार भूषिताः ननृतुर वै महाभागा जगुश चायतलॊचनाः ॥ 49 ॥
अनूना चानवद्या च परिय मुख्या गुणावरा अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥ 50 ॥
मरीचिः शिचुका चैव विद्युत पर्णा तिलॊत्तमा अग्निका लक्षणा कषेमा देवी रम्भा मनॊरमा ॥ 51 ॥
असिता च सुबाहुश च सुप्रिया सुवपुस तथा पुण्डरीका सुगन्धा च सुरथा च परमाथिनी ॥ 52 ॥
काम्या शारद्वती चैव ननृतुस तत्र संघशः मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥ 53 ॥
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्य अपि उम्लॊचेत्य अभिविख्याता परम्लॊचेति च ता दश उर्वश्य एकादशीत्य एता जगुर आयतलॊचनाः ॥ 54 ॥
धातार्यमा च मित्रश च वरुणॊ ऽंशॊ भगस तथा इन्द्रॊ विवस्वान पूषा च तवष्टा च सविता तथा ॥ 55 ॥
पर्जन्यश चैव विष्णुश च आदित्याः पावकार्चिषः महिमानं पाण्डवस्य वर्धयन्तॊ ऽमबरे सथिताः ॥ 56 ॥
मृगव्याधश च शर्वश च निरृतिश च महायशाः अजैकपाद अहिर बुध्न्यः पिनाकी च परंतपः ॥ 57 ॥
दहनॊ ऽथेश्वरश चैव कपाली च विशां पते सथाणुर भवश च भगवान रुद्रास तत्रावतस्थिरे ॥ 58 ॥
अश्विनौ वसवश चाष्टौ मरुतश च महाबलाः विश्वे देवास तथा साध्यास तत्रासन परिसंस्थिताः ॥ 59 ॥
कर्कॊटकॊ ऽथ शेषश च वासुकिश च भुजंगमः कच्छपश चापकुण्डश च तक्षकश च महॊरगः ॥ 60 ॥
आययुस तेजसा युक्ता महाक्रॊधा महाबलाः एते चान्ये च बहवस तत्र नागा वयवस्थिताः ॥ 61 ॥
तार्क्ष्यश चारिष्टनेमिश च गरुडश चासित धवजः अरुणश चारुणिश चैव वैनतेया वयवस्थिताः ॥ 62 ॥
तद दृष्ट्वा महद आश्चर्यं विस्मिता मुनिसत्तमाः अधिकां सम ततॊ वृत्तिम अवर्तन पाण्डवान परति ॥ 63 ॥
पाण्डुस तु पुनर एवैनां पुत्र लॊभान महायशाः पराहिणॊद दर्शनीयाङ्गीं कुन्ती तव एनम अथाब्रवीत ॥ 64 ॥
नातश चतुर्थं परसवम आपत्स्व अपि वदन्त्य उत अतः परं चारिणी सयात पञ्चमे बन्धकी भवेत ॥ 65 ॥
स तवं विद्वन धर्मम इमं बुद्धिगम्यं कथं नु माम अपत्यार्थं समुत्क्रम्य परमादाद इव भाषसे ॥ 66 ॥
आदिपर्व · Adi Parva
अध्याय 114
Reach this point to mark the section finished.
Continue to अध्याय 115