धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 116

  1. [वै] दर्शनीयांस ततः पुत्रान पाण्डुः पञ्च महावने तान पश्यन पर्वते रेमे सवबाहुबलपालितान ॥ 1 ॥

  2. सुपुष्पित वने काले कदा चिन मधुमाधवे भूतसंमॊहने राजा सभार्यॊ वयचरद वनम ॥ 2 ॥

  3. पलाशैस तिलकैश चूतैश चम्पकैः पारिभद्रकैः अन्यैश च बहुभिश वृक्षैः फलपुष्पसमृद्धिभिः ॥ 3 ॥

  4. जलस्थानैश च विविधैः पद्मिनीभिश च शॊभितम पाण्डॊर वनं तु संप्रेक्ष्य परजज्ञे हृदि मन्मथः ॥ 4 ॥

  5. परहृष्टमनसं तत्र विहरन्तं यथामरम तं माद्र्य अनुजगामैका वसनं बिभ्रती शुभम ॥ 5 ॥

  6. समीक्षमाणः स तु तां वयःस्थां तनु वाससम तस्य कामः परववृधे गहने ऽगनिर इवॊत्थितः ॥ 6 ॥

  7. रहस्य आत्मसमां दृष्ट्वा राजा राजीवलॊचनाम न शशाक नियन्तुं तं कामं कामबलात कृतः ॥ 7 ॥

  8. तत एनां बलाद राजा निजग्राह रहॊगताम वार्यमाणस तया देव्या विस्फुरन्त्या यथाबलम ॥ 8 ॥

  9. स तु कामपरीतात्मा तं शापं नान्वबुध्यत माद्रीं मैथुन धर्मेण गच्छमानॊ बलाद इव ॥ 9 ॥

  10. जीवितान्ताय कौरव्यॊ मन्मथस्य वशंगतः शापजं भयम उत्सृज्य जगामैव बलात परियाम ॥ 10 ॥

  11. तस्य कामात्मनॊ बुद्धिः साक्षात कालेन मॊहिता संप्रमथ्येन्द्रिय गरामं परनष्टा सह चेतसा ॥ 11 ॥

  12. स तया सह संगम्य भार्यया कुरुनन्दन पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥ 12 ॥

  13. ततॊ माद्री समालिङ्ग्य राजानं गतचेतसम मुमॊच दुःखजं शब्दं पुनः पुनर अतीव ह ॥ 13 ॥

  14. सह पुत्रैस ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ आजग्मुः सहितास तत्र यत्र राजा तथागतः ॥ 14 ॥

  15. ततॊ माद्र्य अब्रवीद राजन्न आर्ता कुन्तीम इदं वचः एकैव तवम इहागच्छ तिष्ठन्त्व अत्रैव दारकाः ॥ 15 ॥

  16. तच छरुत्वा वचनं तस्यास तत्रैवावार्य दारकान हताहम इति विक्रुश्य सहसॊपजगाम ह ॥ 16 ॥

  17. दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले कुन्ती शॊकपरीताङ्गी विललाप सुदुःखिता ॥ 17 ॥

  18. रक्ष्यमाणॊ मया नित्यं वीरः सततम आत्मवान कथं तवम अभ्यतिक्रान्तः शापं जानन वनौकसः ॥ 18 ॥

  19. ननु नाम तवया माद्रि रक्षितव्यॊ जनाधिपः सा कथं लॊभितवती विजने तवं नराधिपम ॥ 19 ॥

  20. कथं दीनस्य सततं तवाम आसाद्य रहॊगताम तं विचिन्तयतः शापं परहर्षः समजायत ॥ 20 ॥

  21. धन्या तवम असि बाह्लीकि मत्तॊ भाग्यतरा तथा दृष्टवत्य असि यद वक्त्रं परहृष्टस्य महीपतेः ॥ 21 ॥

  22. [म] विलॊभ्यमानेन मया वार्यमाणेन चासकृत आत्मा न वारितॊ ऽनेन सत्यं दिष्टं चिकीर्षुणा ॥ 22 ॥

  23. [क] अहं जयेष्ठा धर्मपत्नी जयेष्ठं धर्मफलं मम अवश्यं भाविनॊ भावान मा मां माद्रि निवर्तय ॥ 23 ॥

  24. अन्वेष्यामीह भर्तारम अहं परेतवशं गतम उत्तिष्ठ तवं विसृज्यैनम इमान रक्षस्व दारकान ॥ 24 ॥

  25. [म] अहम एवानुयास्यामि भर्तारम अपलायिनम न हि तृप्तास्मि कामानां तज जयेष्ठा अनुमन्यताम ॥ 25 ॥

  26. मां चाभिगम्य कषीणॊ ऽयं कामाद भरतसत्तमः तम उच्छिन्द्याम अस्य कामं कथं नु यमसादने ॥ 26 ॥

  27. न चाप्य अहं वर्तयन्ती निर्विशेषं सुतेषु ते वृत्तिम आर्ये चरिष्यामि सपृशेद एनस तथा हि माम ॥ 27 ॥

  28. तस्मान मे सुतयॊः कुन्ति वर्तितव्यं सवपुत्रवत मां हि कामयमानॊ ऽयं राजा परेतवशं गतः ॥ 28 ॥

  29. राज्ञः शरीरेण सह ममापीदं कलेवरम दग्धव्यं सुप्रतिच्छन्नम एतद आर्ये परियं कुरु ॥ 29 ॥

  30. दारकेष्व अप्रमत्ता च भवेथाश च हिता मम अतॊ ऽनयन न परपश्यामि संदेष्टव्यं हि किं चन ॥ 30 ॥

  31. [व] इत्य उक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम मद्रराजात्मजा तूर्णम अन्वारॊहद यशस्विनी ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 117

Previous: अध्याय 115