[व] एवम उक्तस तया राजा तां देवीं पुनर अब्रवीत धर्मविद धर्मसंयुक्तम इदं वचनम उत्तमम ॥ 1 ॥
एवम एतत पुरा कुन्ति वयुषिताश्वश चकार ह यथा तवयॊक्तं कल्याणि स हय आसीद अमरॊपमः ॥ 2 ॥
अथ तव इमं परवक्ष्यामि धर्मं तव एतं निबॊध मे पुराणम ऋषिभिर दृष्टं धर्मविद्भिर महात्मभिः ॥ 3 ॥
अनावृताः किल पुरा सत्रिय आसन वरानने कामचारविहारिण्यः सवतन्त्राश चारुलॊचने ॥ 4 ॥
तासां वयुच्चरमाणानां कौमारात सुभगे पतीन नाधर्मॊ ऽभूद वरारॊहे स हि धर्मः पुराभवत ॥ 5 ॥
तं चैव धर्मं पौराणं तिर्यग्यॊनिगताः परजाः अद्याप्य अनुविधीयन्ते कामद्वेषविवर्जिताः पुराणदृष्टॊ धर्मॊ ऽयं पूज्यते च महर्षिभिः ॥ 6 ॥
उत्तरेषु च रम्भॊरु कुरुष्व अद्यापि वर्तते सत्रीणाम अनुग्रह करः स हि धर्मः सनातनः ॥ 7 ॥
अस्मिंस तु लॊके नचिरान मर्यादेयं शुचिस्मिते सथापिता येन यस्माच च तन मे विस्तरतः शृणु ॥ 8 ॥
बभूवॊद्दालकॊ नाम महर्षिर इति नः शरुतम शवेतकेतुर इति खयातः पुत्रस तस्याभवन मुनिः ॥ 9 ॥
मर्यादेयं कृता तेन मानुषेष्व इति नः शरुतम कॊपात कमलपत्राक्षि यदर्थं तन निबॊध मे ॥ 10 ॥
शवेतकेतॊः किल पुरा समक्षं मातरं पितुः जग्राह बराह्मणः पाणौ गच्छाव इति चाब्रवीत ॥ 11 ॥
ऋषिपुत्रस ततः कॊपं चकारामर्षितस तदा मातरं तां तथा दृष्ट्वा नीयमानां बलाद इव ॥ 12 ॥
करुद्धं तं तु पिता दृष्ट्वा शवेतकेतुम उवाच ह मा तात कॊपं कार्षीस तवम एष धर्मः सनातनः ॥ 13 ॥
अनावृता हि सर्वेषां वर्णानाम अङ्गना भुवि यथा गावः सथितास तात सवे सवे वर्णे तथा परजाः ॥ 14 ॥
ऋषिपुत्रॊ ऽथ तं धर्मं शवेतकेतुर न चक्षमे चकार चैव मर्यादाम इमां सत्रीपुंसयॊर भुवि ॥ 15 ॥
मानुषेषु महाभागे न तव एवान्येषु जन्तुषु तदा परभृति मर्यादा सथितेयम इति नः शरुतम ॥ 16 ॥
वयुच्चरन्त्याः पतिं नार्या अद्य परभृति पातकम भरूण हत्या कृतं पापं भविष्यत्य असुखावहम ॥ 17 ॥
भार्यां तथा वयुच्चरतः कौमारीं बरह्मचारिणीम पतिव्रताम एतद एव भविता पातकं भुवि ॥ 18 ॥
पत्या नियुक्ता या चैव पत्न्य अपत्यार्थम एव च न करिष्यति तस्याश च भविष्यत्य एतद एव हि ॥ 19 ॥
इति तेन पुरा भीरु मर्यादा सथापिता बलात उद्दालकस्य पुत्रेण धर्म्या वै शवेतकेतुना ॥ 20 ॥
सौदासेन च रम्भॊरु नियुक्तापत्य जन्मनि मदयन्ती जगामर्षिं वसिष्ठम इति नः शरुतम ॥ 21 ॥
तस्माल लेभे च सा पुत्रम अश्मकं नाम भामिनी भार्या कल्माषपादस्य भर्तुः परियचिकीर्षता ॥ 22 ॥
अस्माकम अपि ते जन्म विदितं कमलेक्षणे कृष्णद्वैपायनाद भीरु कुरूणां वंशवृद्धये ॥ 23 ॥
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ममैतद वचनं धर्म्यं कर्तुम अर्हस्य अनिन्दिते ॥ 24 ॥
ऋताव ऋतौ राजपुत्रि सत्रिया भर्ता यतव्रते नातिवर्तव्य इत्य एवं धर्मं धर्मविदॊ विदुः ॥ 25 ॥
शेषेष्व अन्येषु कालेषु सवातन्त्र्यं सत्री किलार्हति धर्मम एतं जनाः सन्तः पुराणं परिचक्षते ॥ 26 ॥
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यम एव वा यद बरूयात तत तथा कार्यम इति धर्मविदॊ विदुः ॥ 27 ॥
विशेषतः पुत्रगृद्धी हीनः परजननात सवयम यथाहम अनवद्याङ्गि पुत्रदर्शनलालसः ॥ 28 ॥
तथा रक्ताङ्गुलि तलः पद्मपत्र निभः शुभे परसादार्थं मया ते ऽयं शिरस्य अभ्युद्यतॊ ऽञजलिः ॥ 29 ॥
मन्नियॊगात सुकेशान्ते दविजातेस तपसाधिकात पुत्रान गुणसमायुक्तान उत्पादयितुम अर्हसि तवत्कृते ऽहं पृथुश्रॊणिगच्छेयं पुत्रिणां गतिम ॥ 30 ॥
एवम उक्ता ततः कुन्ती पाण्डुं परपुरंजयम परत्युवाच वरारॊहा भर्तुः परियहिते रता ॥ 31 ॥
पितृवेश्मन्य अहं बाला नियुक्तातिथि पूजने उग्रं पर्यचरं तत्र बराह्मणं संशितव्रतम ॥ 32 ॥
निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः तम अहं संशितात्मानं सर्वयज्ञैर अतॊषयम ॥ 33 ॥
स मे ऽभिचार संयुक्तम आचष्ट भगवान वरम मन्त्रग्रामं च मे परादाद अब्रवीच चैव माम इदम ॥ 34 ॥
यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि अकामॊ वा सकामॊ वा स ते वशम उपैष्यति ॥ 35 ॥
इत्य उक्ताहं तदा तेन पितृवेश्मनि भारत बराह्मणेन वचस तथ्यं तस्य कालॊ ऽयम आगतः ॥ 36 ॥
अनुज्ञाता तवया देवम आह्वयेयम अहं नृप तेन मन्त्रेण राजर्षे यथा सयान नौ परजा विभॊ ॥ 37 ॥
आवाहयामि कं देवं बरूहि तत्त्वविदां वर तवत्तॊ ऽनुज्ञा परतीक्षां मां विद्ध्य अस्मिन कर्मणि सथिताम ॥ 38 ॥
[प] अद्यैव तवं वरारॊहे परयतस्व यथाविधि धर्मम आवाहय शुभे स हि देवेषु पुण्यभाक ॥ 39 ॥
अधर्मेण न नॊ धर्मः संयुज्येत कथं चन लॊकश चायं वरारॊहे धर्मॊ ऽयम इति मंस्यते ॥ 40 ॥
धार्मिकश च कुरूणां स भविष्यति न संशयः दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥ 41 ॥
तस्माद धर्मं पुरस्कृत्य नियता तवं शुचिस्मिते उपचाराभिचाराभ्यां धर्मम आराधयस्व वै ॥ 42 ॥
[व] सा तथॊक्ता तथेत्य उक्त्वा तेन भर्त्रा वराङ्गना अभिवाद्याभ्यनुज्ञाता परदक्षिणम अवर्तत ॥ 43 ॥
आदिपर्व · Adi Parva
अध्याय 113
Reach this point to mark the section finished.
Continue to अध्याय 114