धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 112

  1. [व] एवम उक्ता महाराज कुन्ती पाण्डुम अभाषत कुरूणाम ऋषभं वीरं तदा भूमिपतिं पतिम ॥ 1 ॥

  2. न माम अर्हसि धर्मज्ञ वक्तुम एवं कथं चन धर्मपत्नीम अभिरतां तवयि राजीवलॊचन ॥ 2 ॥

  3. तवम एव तु महाबाहॊ मय्य अपत्यानि भारत वीर वीर्यॊपपन्नानि धर्मतॊ जनयिष्यसि ॥ 3 ॥

  4. सवर्गं मनुजशार्दूल गच्छेयं सहिता तवया अपत्याय च मां गच्छ तवम एव कुरुनन्दन ॥ 4 ॥

  5. न हय अहं मनसाप्य अन्यं गच्छेयं तवदृते नरम तवत्तः परतिविशिष्टश च कॊ ऽनयॊ ऽसति भुवि मानवः ॥ 5 ॥

  6. इमां च तावद धर्म्यां तवं पौराणीं शृणु मे कथाम परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम अहम ॥ 6 ॥

  7. वयुषिताश्व इति खयातॊ बभूव किल पार्थिवः पुरा परमधर्मिष्ठः पूरॊर वंशविवर्धनः ॥ 7 ॥

  8. तस्मिंश च यजमाने वै धर्मात्मनि महात्मनि उपागमंस ततॊ देवाः सेन्द्राः सह महर्षिभिः ॥ 8 ॥

  9. अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः वयुषिताश्वस्य राजर्षेस ततॊ यज्ञे महात्मनः ॥ 9 ॥

  10. वयुषिताश्वस ततॊ राजन्न अति मर्त्यान वयरॊचत सर्वभूतान्य अति यथा तपनः शिशिरात्यये ॥ 10 ॥

  11. स विजित्य गृहीत्वा च नृपतीन राजसत्तमः पराच्यान उदीच्यान मध्यांश च दक्षिणात्यान अकालयत ॥ 11 ॥

  12. अश्वमेधे महायज्ञे वयुषिताश्वः परतापवान बभूव स हि राजेन्द्रॊ दशनागबलान्वितः ॥ 12 ॥

  13. अप्य अत्र गाथां गायन्ति ये पुराणविदॊ जनाः वयुषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम अपालयत सर्ववर्णान पिता पुत्रान इवौरसान ॥ 13 ॥

  14. यजमानॊ महायज्ञैर बराह्मणेभ्यॊ ददौ धनम अनन्तरत्नान्य आदाय आजहार महाक्रतून सुषाव च बहून सॊमान सॊमसंस्थास ततान च ॥ 14 ॥

  15. आसीत काक्षीवती चास्य भार्या परमसंमता भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥ 15 ॥

  16. कामयाम आसतुस तौ तु परस्परम इति शरुतिः स तस्यां कामसंमत्तॊ यक्ष्माणं समपद्यत ॥ 16 ॥

  17. तेनाचिरेण कालेन जगामास्तम इवांशुमान तस्मिन परेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥ 17 ॥

  18. अपुत्रा पुरुषव्याघ्र विललापेति नः शरुतम भद्रा परमदुःखार्ता तन निबॊध नराधिप ॥ 18 ॥

  19. नारी परमधर्मज्ञ सर्वा पुत्र विनाकृता पतिं विना जीवति या न सा जीवति दुःखिता ॥ 19 ॥

  20. पतिं विना मृतं शरेयॊ नार्याः कषत्रिय पुंगव तवद्गतिं गन्तुम इच्छामि परसीदस्व नयस्व माम ॥ 20 ॥

  21. तवया हीना कषणम अपि नाहं जीवितुम उत्सहे परसादं कुरु मे राजन्न इतस तूर्णं नयस्व माम ॥ 21 ॥

  22. पृष्ठतॊ ऽनुगमिष्यामि समेषु विषमेषु च तवाम अहं नरशार्दूल गच्छन्तम अनिवर्तिनम ॥ 22 ॥

  23. छायेवानपगा राजन सततं वशवर्तिनी भविष्यामि नरव्याघ्र नित्यं परियहिते रता ॥ 23 ॥

  24. अद्य परभृति मां राजन कष्टा हृदयशॊषणाः आधयॊ ऽभिभविष्यन्ति तवदृते पुष्करेक्षण ॥ 24 ॥

  25. अभाग्यया मया नूनं वियुक्ताः सहचारिणः संयॊगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥ 25 ॥

  26. तद इदं कर्मभिः पापैः पूर्वदेहेषु संचितम दुःखं माम अनुसंप्राप्तं राजंस तवद विप्रयॊगजम ॥ 26 ॥

  27. अद्य परभृत्य अहं राजन कुश परस्तरशायिनी भविष्याम्य असुखाविष्टा तवद्दर्शनपरायणा ॥ 27 ॥

  28. दर्शयस्व नरव्याघ्र साधु माम असुखान्विताम दीनाम अनाथां कृपणां विलपन्तीं नरेश्वर ॥ 28 ॥

  29. एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः तं शवं संपरिष्वज्य वाक किलान्तर्हिताब्रवीत ॥ 29 ॥

  30. उत्तिष्ठ भद्रे गच्छ तवं ददानीह वरं तव जनयिष्याम्य अपत्यानि तवय्य अहं चारुहासिनि ॥ 30 ॥

  31. आत्मीये च वरारॊहे शयनीये चतुर्दशीम अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥ 31 ॥

  32. एवम उक्ता तु सा देवी तथा चक्रे पतिव्रता यथॊक्तम एव तद वाक्यं भद्रा पुत्रार्थिनी तदा ॥ 32 ॥

  33. सा तेन सुषुवे देवी शवेन मनुजाधिप तरीञ शाल्वांश चतुरॊ मद्रान सुतान भरतसत्तम ॥ 33 ॥

  34. तथा तवम अपि मय्य एव मनसा भरतर्षभ शक्तॊ जनयितुं पुत्रांस तपॊयॊगबलान्वयात ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 113

Previous: अध्याय 111